पृष्ठम्:तैत्तिरीयोपनिषद्भाष्यम्.djvu/८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१२ द्वादशोऽनुवाकः ]
४३
विश्वकर्मविवेकः


अथ शिक्षावल्ल्यां द्वादशोऽनुवाकः ।

( शान्तिः--उपकारपरामर्शमन्त्रः )

शं नो मित्रः शं वर्हणः । शं नो भवत्वर्यमा । शं न इन्द्रो बृहस्पतिः ।
शं नो विष्णुरुरुक्रमः । नमो ब्रह्मणे । नमस्ते वायो । त्वमेव प्रत्यक्षी
ब्रह्मांसि । त्वामैव प्रत्यडें ब्रह्मवादिषम् । ऋतमंवादिषम् । सत्यम
वादिषम् । तन्मामवीत् । तद्वक्तारमावीत् । आीन्माम् । आवीं
दृक्तारं । ॐ शान्तिः शान्तिः शान्तिः (१)

चितदुरितप्रतिबन्धक्षयादेव विद्योत्पद्यते चेत्-कर्मभ्यः पृथगुपनिषच्छूवणादि यत्नोऽनर्थक इति चेत्

 न, नियमाभावात्; नहि प्रतिबन्धक्षयादेव विद्योत्पद्यते, न त्वीश्वरप्रसादतपो ध्यानाद्यनुष्ठानात् इति नियमोऽस्ति –अहिंसाब्रह्मचर्यादीनां च विद्यां प्रत्यु पकारकत्वात् , साक्षादेव च कारणत्वाच्छूवणमनननिदिध्यासनानाम् । अतः सिद्धन्याश्रमान्तराणि । सर्वेषां चाधिकारो विद्यायाम् , परं च श्रेयः केवलाया विद्याया एवेति सिद्धम्।

इति श्रीमत्परमहंसपरिव्राजकाचार्यगोविन्दभगवत्पूज्यपादशिष्यश्रीमच्छंकरभगवतः कृतौ तैत्तिरीयोपनिषच्छिक्षावल्लीमध्ये एकादशोऽनुवाकः ॥ ११ ॥


शं नो मित्रः’ इत्याद्यतीतविद्याप्राप्त्युपसर्गप्रशमनार्था शान्तिः पूटिता । इदानीं तु वक्ष्यमाणब्रह्मविद्याप्राप्त्युपसगपशमनार्थी शान्तिः


इति विशेषं दर्शयितुं चोवच्छद्भावयति-कर्मनिमित्तत्वादित्यादिना । इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छुद्धनन्दपूज्यपादशिष्यानन्दज्ञानविरचिते तैत्तिरीयोपनिषच्छां- करभाष्यटिप्पणे शिक्षावल्ल्यामैकादशोऽनुवाकः ॥ ११ ॥


शं नो मित्र इति । तदपरं ब्रह्म मामपरविद्यार्थिनमादरक्षदित्यर्थः। शान्तिद्वयस्यापौनरुक्त्यमाह-शं नो मित्र इति। इदानीं परविद्यार्थिनमप्यवतु, साधा-


विद्याफले मोक्षे कर्छनैरपेक्ष्यम् , विद्यायाः स्वोत्पत्तौ कर्मापेक्षा, विद्याहेतुभिरेवाश्रमसिद्धिः , अनाश मिकर्मणामपि विद्याहेतुत्वं च ब्रः सू. ३.४.२५,२६, ३२, ३६-इत्यत्र चिन्तितानि । बालप्रियेण मृदुवाद कथापथेन ' नयोक्त्या चास्यार्थजातस्य प्रसाधनं शंकरदिग्विजये श्रीमदाचार्मण्डनमिश्रसंवदाख्ये सगे द्रष्टव्यं रसिकैः ।