निन्नयनुत्रतां भूमेिं निम्नामुन्नमयन्पुनः ।
काननानि स्थलीकुर्वन्सश्चचाल बलने सः ॥ ३१ ॥
पुत्रं प्राचीं ततोऽर्वाचीं प्रतीचीं तदनन्तरम्।
उदीचीं च दिशं पश्चद्धिजिग्ये वीरदर्पहा ॥ ३२ ॥
संवत्सरत्रयेणैव चतुरर्णवमेखलाम् ।
बभ्राम धरणीं कृत्स्नां धरणीतलचन्द्रमाः ॥ ३३ ॥
अथ हेमजटाख्यानां क्राितानामुपार्णवम् ।
देशं स्वर्णपुरं नाम जित्वा जग्राह भूपतिः ॥ ३४ ॥
आन्नं निजबलं तत्र महीपर्यटनाद्दशम् ।
अतिष्ठद्विश्रमयितुं पञ्चषाणि दिनानि सः ॥ ३५ ॥
स इन्द्रायुधमारुहा मृगयार्थं वने चरन् ।
अद्रक्षकिन्नरद्वन्द्वमवतीर्ण शिलोच्चयात् ॥ ३६ ॥
अपूर्वपुरुषालोकत्रासजातरयान्वितम् ।
विस्मितोऽदृष्टपूर्व तद्रहीतुं 1चकमे नृपः ॥ ३७ ॥
पाणिप्रहारसङ्गततीव्रवेगतुरङ्गमः ।
त्यक्त्वैकाकी निजबलं चन्द्रापीडस्तदन्वगात् ॥ । ३८ ।।
गृधते गृह्यतेऽनेदमित्यादरसमन्वितः ।
पञ्चयोजनमात्रं तत्क्षणादनुससार सः ॥ ३९ ॥
आलोक्यत एवास्य संमुखापतितं गिरिम् ।
ततुरङ्गमुखद्वन्द्वमरोह भयातुरम् ॥ ४० ॥
1. चक्रमे इनि मातृ ।