पृष्ठम्:अलङ्कारमणिहारः.pdf/१८८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
182
अलंकारमणिहारे

द्व्यधिकरण इति विवेकः । एवमभेदः क्वचिदारोप्यमाणः, क्वचित्तु स्वाभाविकः । एवं तत्प्रतिपत्तिरपि क्वचिद्व्यञ्जनया प्रायशस्तु वाच्यवृत्त्यैवेति ध्येयम् । निषेधोऽपह्नुतिरित्येतावदुक्तौ 'न द्यूतमेतत्कितव क्रीडनं निशितैश्शरैः' इति प्रसिद्धनिषेधानुवादरूपे प्रतिषेधालंकारेऽतिव्याप्तिः । अतोऽभेदप्रतिपत्तिनिरूपितेत्यादिविशेषणम् । तत्र हि समरप्रवृत्तं कितवं प्रति समरे द्यूतत्वाभावो निर्ज्ञातोऽपि कण्ठरवेणोच्यमानो द्यूत एव तव वैदग्ध्यं न समरे इत्युपहासार्थो न तु युद्धाभेदप्रतिपत्त्यङ्गम्, तस्यास्तदुपन्यासं विनाऽपि सिद्धत्वात् । नाप्यङ्गी, निर्ज्ञातत्वे नैव तदुपायानपेक्षणात् । अभेदप्रतिपत्तिनिरूपिताङ्गित्वमात्रोक्तौ शुद्धापह्नुतिहेत्वपह्नुतिपर्यस्ताप्ह्नुतिकैतवापह्नुतिष्वव्याप्तिः, तत्र सर्वत्र नायं सुधांशुरित्यादेर्निषेधस्य व्योमगङ्गासरोरुहाद्यभेदप्रतिपत्त्यर्थत्वेन तदङ्गतयाऽङ्गित्वाभावात् । अभेदप्रतिपत्तिनिरूपिताङ्गत्वमात्रोक्तौ भ्रान्तापह्नुतिच्छेकापह्नुत्योरव्याप्तिः, तयोर्भ्रान्तिशङ्कावारणरूपनिषेधस्य प्राधान्येनाभेदप्रतिपत्त्यङ्गत्वाभावात् । अतस्तदन्यतरत्वनिवेशः । यदाहुः--

साम्यायापह्नवो यत्र सा विज्ञेया त्वपह्नुतिः ।
अपह्नवाय सादृश्यं यस्मिन्नेषाऽप्यपह्नुतिः ॥

इति । सर्वं चैतत्तदुदाहरणविवरणावसरे स्फुटीभविष्यति । 'न पञ्चविशिखः कामः किंत्वलङ्ख्यशिलीमुखः' इत्यादावतिप्रसङ्गवारणाय प्रतिपत्तेरभेदविषयकत्वविशेषणम् । अत्र हि नासङ्ख्यशिलीमुखशब्दाभिलपनीयस्य कस्यचिदभेदसमारोपः क्रियते तथाविधस्य कस्यचिद्वस्तुनः क्वाप्यप्रसिद्धेः । नाप्यन्यत्राप्रसिद्धस्य ‘अङ्कं केऽपि’ इत्यादाविव इहैव कल्पितस्य वस्तुनस्त-