२८ । / बदबअरेखयोरन्तरतुल्या अझरेखा भिन्न कार्या । तदा झचिदं हचिहे न पतिष्यति । यदि पतिष्यति तदा बअअहयोगो बदसमानः स्यात् । बअअहयोगो तदा बहरेखातः न्यून भविष्यति इति बाधितम् । यतो भुजद्व ययोगस्तृतीयभुजादधिकोऽस्ति । पुन- ऊ झेचिई हजरेखायामपि न पतिष्यति । यदि पतिष्यति तदा बअअह योगो बहरेखातः अत्यल्पः स्यात् । इदं बाधितम् । तर्हि झचिहं अह रेखायां भविष्यति । पुनीदरेखा कार्या । झबरेखा च कार्या। बदरेखा बअअझरेखायोगतुल्या बझादधिकास्ति । तदा बझदकोणः बदझ कोणादधिको जातः । बदं बअअग्नयोगेन तुल्यं स्थितं तर्हि जदं ज न तुख्यमधिकं वा स्थास्यति । तस्मात् जझदकोणः जवझकोणेन । तुल्यो वाधिकः स्यात् । यदि जदं जलेन तुल्यं स्यात् जझदकोणश्च जदक्षकोणेन तुल्यः स्यात् । यदि जदं जज्ञादधिकं स्यात् तदा जझदकोणो जदझकोणादधिको भविष्यति । तदनन्तरं बझजकोणो बदझकोणजदझकोणयोगान्महान्स्यात् । इदं बाधितम् । यतो बदझकोणजदझकोणयोर्योगः समकोणद्वयादधिकोऽस्ति । ततो बहाजकोणोऽपि समकोणद्वययोगादधिको जातः । इदं बाधितम् ।। त्रिभुजैककोणस्य समकोणद्वययोगादत्यल्पत्वात् । पॅनः जदभुजः जअभुजादल्पो न भविष्यति बदरेखा बअरेखायाश्च अल्पा न भविष्यति चेत् तदा समाना वा अधिका भविष्यति । तत्र अदरेखा कार्या । यथा पूर्वमुपपत्त्या साधितं तथात्रापि साध्यते । तद्यथा । बअजकोणः बदअजदअकोणयोर्योगेिन समानः अथवाऽधिकः स्यात् । पक्षद्वयेऽपि इदमनुपपन्नम् । यतः बदअजदअकोणयोर्योगः १ यदा A. B. २ इदं वाधितम् । K.
पृष्ठम्:Rekha Ganita.djvu/९१
दिखावट