लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ०९७

विकिस्रोतः तः
← अध्यायः ०९६ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ९७
[[लेखकः :|]]
अध्यायः ०९८ →

श्रीनारायण उवाच
शृणु लक्ष्मि ! कृपालुः स श्रीकृष्णः करुणानिधिः ।।
स्वरूपं दर्शयामास प्रथमं सर्वमोहनम् ॥ १ ॥
ब्रह्मचर्यस्वरूपं वै साक्षाद्रूपनिधिं परम् ।
षण्मुखं समयूरं च बहुहेतिसमन्वितम् ॥ २ ॥
बहुज्ञानं बहुबलं बहुकलं सुयौवनम् ।।
दिव्यं सेनास्वामियोग्यचिह्नं षोडशहायनम् ॥ ३ ॥
अथ द्वितीयरूपं स्वं स्थूलं वंशकरं परम् ।।
वनमालागलं श्यामं रत्नभूषणभूषितम् ।। ४ ।।
किशोरवयसं सर्पयज्ञोपवीतशोभनम् ।।
कोटिकन्दर्पलावण्यं मूषकस्थिरवाहनम् ।।५।।
अतीव हृष्टं सर्वेशं भक्तानुग्रहकारकम् ।।
दृष्ट्वा रूपे रूपवती पुत्रौ तदनुरूपकौ ।। ६ ।।
मनसा वरयामास वरं सम्प्राप्य तत्क्षणम् ।।
वरं दत्वा तदा कृष्णस्तत्तेजोऽन्तरधीयत ॥ ७ ॥
प्राप्तौ पुत्राविति हृष्टा जगदम्बा निरम्बिका ।
ब्राह्मणभिक्षुबन्दिभ्यो ददौ दानानि चाम्बिका ।। ८ ॥
ताँस्तथा भोजयामास पूजयामास शंकरम् ।।
दुन्दुभिं वादयामास कारयामास मंगलम् ॥ ९ ॥
संगीतं गापयामास कृष्णसम्बन्धि सुस्वरम् ।
व्रतं समाप्य शैलोत्था भोजयित्वा तदाश्रितान् ॥1.97.१०॥
दुग्धपाकं पूरिकाश्च बुभुजे स्वामिना सह ।।
ताम्बूलं सुसुगन्धाढ्यं बुभुजे शंभुना सह ॥११॥
सर्वान् प्राघूणिकान् सा तु प्रस्थाप्य प्रयता पुनः ।
श्रांगारिक परिष्कृत्य शारीरकं प्रमोदनम् ॥१२॥
पयःफेननिभां शय्यां रम्यां सद्रत्नमंचके ।।
पुष्पचन्दनसंयुक्तां कस्तूरीदानवासिताम् ।।१३।।
रहसि स्वामिना सार्धं सुष्वाप परमेश्वरी ।।
सुगन्धिकुसुमाढ्येन वायुना सुरभीकृते ॥१४॥
भ्रमरध्वनिसंयुक्ते पुंस्कोकिलरुताश्रये ।।
कैलासधामसीमान्ते रम्ये चन्दनकानने ।।१५।।
गन्धमादनभूभागे सिषेवे सुरतं पतिम् ।।
व्यहार्षीत् सा सुरसिका शंकरेण सहाम्बिका ।।१६।।
द्वयोः सुरतमापन्नं यद् द्वयोश्च तदाऽभवत् ।।
स्कन्दनं महदाश्चर्यं प्रथमे वीर्यपातने ॥१७॥
वीर्यमग्निस्वरूपं तद् भयकृच्च महाप्रभम् ।
योनिद्वारे स्खलितं तद् बहिरेव प्रवाहितम् ॥१८॥
अयोनिजस्य पुत्रस्योत्पत्तयेऽभूद्धरीच्छया ।।
अथ प्रवाहरूपेण ज्वालारूपेण रेतसा ॥१९॥
उष्णतेजःसमुद्भूतोष्मस्वरूपेण चाऽम्बरे ।
अन्तरिक्षे भूतले च प्राणिनो मूर्छनां ययुः ॥1.97.२०॥
तच्छान्त्यर्थं स्वयं ब्रह्मा विष्णुश्चान्ये दिवौकसः ।।
सस्मरुर्मनसा चाग्निं सोऽप्याजगाम सत्वरम् ॥२१॥
देवानामनुमत्या च विवेश सुरतस्थलम् ।
तदंगणमनुप्राप्य भिक्षां देहीति तूचिवान् ॥२२॥
पाणिपात्रस्य मे ह्यम्ब भिक्षां देहि व्रजाम्यहम् ।।
भिक्षां तस्मै ददौ चाम्बा दुग्धरूपामुपस्थिताम् ॥२३॥
परमान्नं दुग्धपाकं प्रदत्तं चांजलौ यदा ।।
तदा च प्रासरद् रेतः शंभोर्व्योमाध्वनश्च्यवत् ॥२४॥
वह्न्यंजलौ प्रपतितं मिष्टं सुगन्धि सद्रसम् ।
निगीर्णं मिश्रितं भैक्षं प्रत्यक्षं वह्निना स्वयम् ॥२५॥
रसास्वादे मोहितोऽग्निरन्यद्रेतोऽपि यत्त्वभूत् ।।
व्योम्नोऽन्तरिक्षाद्भूमेश्च शय्यायाश्चाऽलभेद्धि तत् ॥२६॥
तत् सर्वं भिक्षया सार्धं रसलोभाच्च मोहतः ।।
स्वयमेव गृहीत्वा तन्मिश्रयित्वा मुहुर्मुहुः ॥२७॥
जग्रासाऽऽस्वादयन्दुग्धपाकं वीर्यं च भावतः ।।
न किंचिदवशिष्टं हि पुत्रार्थं पार्वतीशये ॥२८॥
तदा चिन्तापरा गौरी रसास्वादे प्रलोभिनम् ।
वह्निं शशाप भो वह्ने रसास्वादप्रदूषणात् ॥२९॥
बीजं पुत्रात्मकमपि शय्यास्थं भक्षितं त्वया ।।
तस्माद् भिक्षो मम शापात्सर्वभक्षो भवाऽऽशु वै ॥1.97.३०॥
शापः प्राप्तो महद्दुःखमभवद्वह्निमानसे ।।
रेतो न जीर्णं प्रबलं तेजोऽप्युष्णतरं यतः ॥३१॥
प्रत्युत वह्निं तद्रेतः प्राज्वालयदतीव च ।।
वह्निर्जाज्वल्यमानो वै गत्वा गंगामहाह्रदे ॥३॥
वमति स्म च तत्सर्वं वह्निः स्वस्थोऽभवत्तदा ।।
किन्तु वीर्योष्मणा गंगा तप्ता दग्धाऽभवत्तदा ॥३३॥
जलान्युच्छलितान्यासन् तत्तापं नैव सेहिरे ।
गंगया प्रोज्झितो धातुः शरस्तम्बे पपात ह ॥३४॥
तत्र समज्वलद्धातुर्वह्निभ्रान्तिकरस्तदा ।।
सप्तर्षिप्रमदास्तत्र गंगायां स्नातुमागताः ।।३५॥
दृष्ट्वा प्रज्वलितं तत्र स्नाताश्च शीतपीडिताः ।।
कृत्तिकास्तप्तुसंकल्पा ह्यरुन्धत्या निवारिताः ॥३६॥
अपि तत्रागमन् षड् वै ऋषिपत्न्यश्च तत्स्थले ।।
यावत् तेपुश्च ताः सर्वा रेतसः परमाणवः ॥३७॥
विविशू रोमकूपेषु तासां तत्रैव सत्वरम् ।।
सगर्भास्ताश्च संजाताः षड्गर्भैर्जज्वलुर्भृशम् ॥३८॥
शुशुचुश्च कुतस्ताद्वै गर्भवत्यो भवाम ह ।।
दाहयत्यखिलं देहं किमिदं त्वनलादभूत् ॥३९॥
त्यजामश्चैनमेवाऽत्र नालखण्डौषधिग्रसात् ।।
पीत्वा रसं च तद्रेतः उत्ससृजुर्भुवस्तले ॥1.97.४०॥
ऐकपद्येन तद्रेतः षण्मुखं हाटकप्रभम् ।।
अपत्यं द्रागभवद्वै सुरूपं सुकुमारकम् ॥४१॥
गंगायाः पुलिने जातः कार्तिकेयः प्रतापवान् ।।
जातो यदा हि गंगायां षण्मुखः शंकरात्मजः ॥४२॥
तदानीमेव गिरिजा जाता स्नुतपयोधरा ।
शिवं निरीक्ष्य तन्वंगी हे शंभो प्रस्रवः स्तनात् ॥४३॥
संजातो मे महादेव किमर्थस्तन्निरीक्ष्यताम् ।
समाधिना महादेवो ज्ञात्वाऽब्रवीत् सुतोऽभवत् ॥४४॥
नारदेन तदागत्य कथितं जन्म तस्य तत् ।।
शिवाय च शिवायै च पुत्रो जातोऽतिसुन्दरः ॥४५॥
तदाकर्ण्य वचो विप्राः ऋषयः प्रमथास्तथा ।।
कैलासं भूषयामासुर्वितानध्वजतोरणैः ॥४६॥
पताकाकदलीस्तंभैः स्वस्तिमंगलमण्डनैः ।।
तदा सुरर्षयः सिद्धाश्चारणा अप्सरोगणाः ।।४७।।
यक्षाः सर्पा मानवाश्च जग्मुर्गंगातटं शुभम् ।।
द्रष्टुं गांगेयमारुह्य वृषभं शंकरस्तथा ॥४८॥
पार्वत्या सह सगणो गंगातटमुपाययौ ।।
तथा शंखाश्च भेर्यश्च नेदुस्तूर्याण्यनेकशः ।।४९।।
केचिन्नृत्यन्ति गायन्ति स्तुवन्ति तद्गुणार्णवम् ।।
यावत्समीक्षयामासुर्गांगेयं शंकरोपमम् ॥1.97.५०॥
ददृशुस्तेजसा व्याप्तं बालं सूर्यसमप्रभम् ।।
सुमुखं सुश्रियं रम्यं सुनासं सस्मितेक्षणम् ।।५१॥
प्रसन्नं चारुदशनं सर्वावयवसुन्दरम् ।।
स्निग्धालकं कुमारं तं देवा ववन्दिरे तदा ॥५२॥
प्रमथाश्च गणाः सर्वे वीरभद्रादयस्तथा ।
ब्रह्मा विष्णुर्महेन्द्रश्च परिवार्य कुमारकम् ॥५३॥
उपसंस्थास्तथा चान्ये वामदक्षिणभागतः ।
अवतीर्य वृषाच्छंभुः पार्वत्या सह सुव्रतः ॥५४॥
पुत्रं ददर्श चात्मानं स्नेहप्लुतो बभूव ह ।।
उपगुह्य गुहं तत्र पार्वती प्रेमसंप्लुता ॥५५॥
प्रस्नुतं पाययामास स्तन्यं चांके निधाय वै ।
चुचुम्ब पार्वती पुत्रमश्लिक्षत् शंकरः पिता ॥५६॥
योजितो ह्याशिषा सर्वैः शर्करा दापिता तदा ।
दानानि विविधान्येव दापितानि हरेण वै ॥५७॥
दम्पती तौ तदा तत्र चैकपद्येन रेजतुः ।।
कुमारस्तु तदा रेमे धृत्वा कंठस्थवासुकिम् ॥५८॥
अथ तत्रगता गंगा कृत्तिकाश्चाग्निदेवता ।
दृष्ट्वा बालं महारूपं सबलं सूर्यवर्चसम् ॥५९॥
ममाऽयं न च ते बालो विवदन्ते स्म चाग्रहात् ।।
बालः प्राह तदा साक्षान्मदालोकात् तु यत्स्तनात् ॥1.97.६०॥
दुग्धं परिस्नुतं स्नेहात् तस्याश्चाहं सुपुत्रकः ।।
इत्युच्चार्य ननाम स्वपितरौ प्राक् ततोऽपरान् ॥६१॥
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने
पार्वत्यै श्रीकृष्णप्रदत्तपुत्रद्वयरूपदर्शनं शंकरपार्वतीवह्निगंगाशरस्तम्बकृत्तिकाद्वारा कार्तिकेयजन्म चेति प्रदर्शननामा सप्तनवतितमोऽध्यायः ॥९७॥