धिपुत्रि । फणिगिरिपतिहृदि धात्रीसदृशी करुणा तवास्ति शुभदात्री ॥ १७६ ॥
त्वमनन्तहृद्यभूषणमहमिति गर्वं जहीहि धामनिधे । संकलयसि सदृशं तव वेङ्कटनाथस्य मणिमुरसि न किमु ॥ १७७ ॥
अत्राद्योदाहरणे तव सदृशीत्युपमितिक्रियानिष्पत्तावपि करुणाया उपमेयीकरणेन वर्ण्याया लक्ष्म्या अनादरः । द्वितीयोदाहरणे तु अनन्तहृद्यभूषणतया क्वचिदप्युपमानभावमक्षममाणस्यावर्ण्यस्य धामनिधेस्तादृशं श्रीनिवासोरस्स्थकौस्तुभमुपमेयं परिकल्प्य तस्यानादर उक्तः । अनन्तस्य गगनस्य श्रीनिवासस्य च हृद्यं मनोहरं हृदयस्थं च भूषणमिति श्लेषोपस्कृतमिदम् । अनयोर्भेदयोः फलं स्फुटमेवेति न विवेचनीयमस्ति ॥
क्वचिदनादराप्रतीतावप्युपमेयस्योपमानताकल्पनमात्रेण प्रतीपं दृश्यते । यथा--
करचरणनयनसदृशं सरसिरुहं परमपुरुष तव कमला । करभूषणयति गृहयति सरयति संश्रयति चापि तन्नाम ॥ १७८ ॥
अत्रारुण्यसौगन्ध्यमार्दवादिमहिम्ना प्रसिद्धोपमानभावस्य सरसिरुहस्योपमेयत्वमात्रमुक्तम् । न तु तस्यानादरः । उपमायामिवास्मिन्नपि पूर्णलुप्तादयो भेदास्सम्भवन्तो बुद्धिमद्भिरुन्नेयाः ॥