यथावा--
उद्रिक्तरजास्तापस्सर्वपथीनः प्रशाम्यति पुरैव । वर्षति कामं पश्चाद्घनस्स कुष्णो वृषाद्रिशिखरस्थः ॥ ५२० ॥
सर्वपथान्व्याप्नोति सर्वपथीनः ‘तत्सर्वादेः पथि’ इत्यादिना व्याप्नोतीत्यर्थे खः । सर्वतोमुख इत्यर्थः । उद्रिक्तं रजः गुणविशेषः पांसुश्च यस्मिन् सः तथाभूतः तापः आध्यात्मिकादिः ग्रैष्मश्च पुरैव शाम्यति । पश्चात् वृषाद्रिशिखरस्थः घनः सकलकल्याणगुणसान्द्रः कृष्णो भगवान् पक्षे कृष्णः श्यामलः घनः मेघः कामं वर्षति ईप्सितार्थं प्रदत्ते । पक्षे पर्याप्तं यथा स्यात्तथा वर्षति सिञ्चतीत्यर्थः॥
यथावा--
प्रथमतरमेव तमसां वलयं विलयं प्रयाति विनतानाम् । पश्चात्तेषु प्रसरति परिस्फुरन्पद्मिनीसखालोकः ॥ ५२१ ॥
तमसां अज्ञानानां तिमिराणां च । पद्मिनी श्रीः कमलिनी च तस्यास्सखा भगवान् भानुश्च तस्य आलोकः कटाक्षः प्रकाशश्च । ‘पद्मिनी करिणीस्त्रीश्रीसरोऽब्जनळिनीषु च' इति रत्नमाला । उदाहरणत्रये भगवन्नामोच्चारणवर्षणपद्मिनीसखालोकप्रसरणानां कारणानां पश्चाद्भावः एनोदूरीभवनतापशमनतमोविलयनानां कार्याणां प्राथम्यं च वर्णितमिति लक्षणानुगतिः । आद्या शुद्धा, द्वितीयतृतीये तु श्लेषसंकीर्णे इति विशेषः । एतास्तिस्रोऽप्यतिशयोक्तयः कार्यशैघ्र्यप्रत्यायनार्थाः॥