सुकविहृदयानन्दिनी/अध्यायः ४
← अध्यायः ३ | सुकविहृदयानन्दिनी अध्यायः ४ |
अध्यायः ५ → |
चतुर्थोऽध्यायः अर्धसमवृताध्यायः
[सम्पाद्यताम्]
अथार्धसमवृत्ताध्यायमाह ।
विषमे यदि सौ सलगा दले । भौ युजि भाद्गुरुकावुपचित्रम् । १
अत्र पादे इति वक्तव्ये अर्धसमवृत्ताध्याये त्वर्धापेक्षया अर्ध इत्युक्तं सूत्रकारेणेति न दोषः । विषमे प्रथमे तृतीये पादे त्रयः सगणा लघुर्गुरुर्यदि युजि समे द्वितीये चतुर्थे भगणत्रयं द्वौ गुरू तदा उपचित्रा नामार्धसमवृत्तं भवति । यथा ।
त्वदरातिपुरे क्षिति योद्धसे मुक्तमहोरगकंचुकेवंति (?) ।
उपचित्रमुदीक्ष्य दिवा भयान्नो विविशुर्भवनानि हरिण्यः ॥ १
भत्रयमोजगतं गुरुणी चेद्युजि च नजौ ज्ययुतौ द्रुतमध्या ॥ २
यस्यार्धसमवृत्तस्य ओजे विषमे प्रथमे तृतीये पादे भगणत्रयं द्वौ गुरू यदि युजि समे द्वितीये चतुर्थे नगणजगणौ जगणयगणौ च तद्वृत्तं द्रुतमध्या नाम । यथा ।
दृष्टिविलासविशेषमशेषं विविधगतीरवचोरचनां च ।
यौवनमेव वधू द्रुतमध्यापयति मनोभवदत्तविवेका ॥ २
सयुगात्सगुरू विषमे चेत् । भाविह वेगवती युजि भाद्गौ । ३
विषमे पादे त्रयः सगणा गुरुश्च युजि समे भवणत्रयं द्वौ गुरू च तदा वेगवती नाम । यथा ।
सुकृतैकनिधेः स्मरबन्धोः कस्यचिदालयमालि सलीलम् ।
इयमुन्नतपीननितम्बा गच्छति वेगवती मदनार्ता ॥ ३
ओजे तपरौ जरौ गुरुश्चेत् । म्सौ ज्गौ भद्रविराड्भवेदनोजे । ४
ओजे विषमे पादे प्रथमे तृतीये तगणात्परौ जगणरगणौ गुरुश्चेद्यदि भवति अनोजे समे द्वितीये चतुर्थे पादे मगणसगणजगणा गुरू च भवन्ति तद्वृत्तं भद्रविराट् नाम । यथा।
कुन्देन्दुसमुज्ज्वलेन बद्धं ब्रह्माण्डोदरवर्तिनां नरेन्द्र ।
नीता हरशैलसंध्यमेते शुद्धभद्रविराड् पयसे यशस्ते ॥ ४
असमे सजौ सगुरुयुक्तौ केतुमती समे भरनगाद्गः । ५
असमे विषमे पादे सगणजगणसगणा गुरुश्च समे द्वितीये चतुर्थे भगणरगणनगणा द्वौ गुरू च तद्वृत्तं केतुमती नाम । यथा ।
भवता रणांगणगतेन प्रस्फुरितासिमात्रसचिवेन ।
विजितामराश्वगजयुक्ता केतुमती नरेन्द्र रिपुसेना ॥ ५
आख्यानिकी तौ जगुरू गमोजे जतावनोजे जगुरू गुरुश्चेत् । ६
ओजे प्रथमे तृतीये पादे तगणौ द्वौ जगणो गुरू च अनोजे द्वितीये चतुर्थे जगणतगणौ जगणो द्वौ गुरू च तद्वृत्तं आख्यानिकी नाम । यथा ।
ये ये त्वया संजति शत्रुभूपा हता हताशेषविपक्षवर्ग ।
आख्यानिकी कीर्तिरवन्तिनाथ बभूव ते संचरितांतरिक्षे ॥ ६
जतौ जगौ गो विषमे समे स्यात्तौ ज्गौ गमेषा विपरीतपूर्वा । ७
यस्य प्रथमे तृतीये पादे जगणतगणजगणा द्वौ गुरू च समे पादे द्वौ तगणौ जगणो द्वौ गुरू च तद्वृत्तं विपरीताख्यानिकी नाम । यथा ।
ध्रुवं समागच्छति जीवितेश श्रुत्वादिकारुण्यपरं वचो मे ।
भवेन्न चेद्दैववशादिहान्या आख्यानिकी मे विपरीतपूर्वा ॥
आख्यानिकी वार्ताहारिकोच्यते । एतयोश्च पूर्वोक्तोपजात्यंतर्गतत्वे विशेषसंज्ञार्धसमवृत्ताध्याये पाठः । ७
सयुगात्सलघू विषमे गुरुर्युजि नभौ च भरौ हरिणप्लुता । ८
यस्या विषमे पादे सगणत्रयं लघुगुरू च समे पादे नगणभगणौ भगणरगणौ च तद्वृत्तं हरिणप्लुता नाम । यथा ।
यदि शीघ्रगतिर्हरिणप्लुतान्सुविषमांस्तनुते पथिकः पथि ।
जलदागमने प्रियया तदा भवति संगतिरर्धशरीरया ॥ ८
अयुजि ननरला गुरुः समे न्जमपरवक्त्रमिदं ततो जरौ । ९
विषमे पादे नगणौ रगणो लघुश्च गुरुश्च भवन्ति समे पादे नगणजगणौ जगणरगणौ तद्वृत्तं अपरवक्त्रं नाम । यथा ।
जलदगलपिशंगलोचनं मदनरिपोः शशिखण्डमण्डितम् ।
अपहरतु भयानि दक्षिणं तदपरवक्त्रभयंकरं सताम् ॥
अस्य वैतालीयान्तर्गतत्वेऽपि विशेषसंज्ञार्थ इहोपन्यासः । ९
अयुजि नयुगरेफतो यकारो युजि च नजौ जरगाश्च पुष्पिताग्रा । १०
यस्य विषमे पादे नगणद्वयं रगणात्परो यगणः समे नगणजगणौ जगणरगणौ गुरुश्च तद्वृत्तं पुष्पिताग्रा नाम ।
चलकिशलयवत्यशोकशाखा तव चरणाहतिमात्रपुष्पिताग्रा ।
शशिमुखि सखि मुञ्च मानमस्या मदनमहोत्सव एष याति शून्या ॥
इयमप्यौपच्छन्दसिकं विशेषसंज्ञाज्ञापकार्थमत्रोच्यते । १०
वदन्त्यपरवक्त्राख्यं वैतालीयं विपश्चितम् ।
पुष्पिताग्राभिधं केचिदौपच्छंदसिकं तथा ॥ ११
स्यादयुग्मके रजौ रजौ समे तु जरौ जरौ गुरुर्यवात्परा मतीयम् । १२
यस्य विषमे पादे रगणजगणौ रगणजगणौ समे जगणरगणौ जगणरगणौ गुरुश्च तद्वृत्तं यवात्परामतीयं भवतीत्यर्थः । यथा ।
मालवक्षितीश मासमुद्गशालि यवानतारिभूयमेदिनी समग्रा ।
आत्मसात्कृता त्वया रिपून् विजित्य समग्रसैन्यसंयुतानपि प्रसह्य ॥ १२
इति सुल्हणविरचितायां सुकविहृदयानन्दिन्यभिधानायां वृत्तरत्नाकरच्छंदोवृत्तौ अर्धसमवृत्ताध्यायः चतुर्थः ।