त्येतेषामुपमानोपमेयसाधारणधर्मोपमावाचकानां चतुर्णामुपादाना दियं पूर्णोपमा । इदं कुवलयानन्दानुसारेणोदाहरणम् ॥
रसगङ्गाधरानुसारेण तु यथा--
कृपया सुमहाजालाकृष्टान्मीनानिवाहिशैलमणे । मोचयसि मोहजालाविष्टान्दीनान्कदा नु खल्वेनान् ॥ २७ ॥
अत्र प्रतीयमाना उपमा समग्रवाक्यार्थस्य कदेति शान्तरसस्य सूचितचिन्तोपस्करणद्वारा उपस्कारकतयाऽलङ्कारः ॥
वर्ण्योपमानयोर्धर्मोपमावाचकयोरपि ।
एकद्वित्र्यनुपादाने भवेल्लुप्तोपमाऽष्टधा ॥ ४ ॥
वर्ण्यमुपमेयं उपमेयादीनामेकस्य द्वयोस्त्रयाणां वाऽनुपादाने लुप्तोपमा । सा चाष्टविधा भवेत् ॥
वाचकस्यात्र धर्मस्य धर्मवाचकयोस्तथा ।
वर्ण्यवाचकयोर्लोपे तत्तल्लुप्ताः खलूपमाः ॥ ५ ॥
उपमानस्य लोपे तु तल्लुप्ता पञ्चमी स्मृता ।
प्रोक्ता षष्ठी वाचकोपमानलुप्तेति कोविदैः ॥ ६ ॥
धर्माोपमानलुप्ताऽन्या लाेपे धर्मोपमानयोः ।
अष्टमी धर्मोपमानवाचकानां विलोपने ॥ ७ ॥
तामेव विभजते--अत्र वाचकादीनां लोपे तत्तल्लुप्ताः । तथाहि--१. वाचकलुप्ता । २. धर्मलुप्ता । ३. धर्मवाचकलुप्ता ।