पृष्ठम्:अलङ्कारमणिहारः.pdf/२०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
14
अलंकारमणिहारे

मारचयेदिति वाच्यम् । सुकुमारसुन्दरतरसुवर्णप्रतिमात्वेन । भावनया पुरतस्स्थिताया वनितायाः परिरम्भस्य प्रियम्भावुकतादर्शनात् । उपमानोपमेययोस्सत्त्वस्य लक्षणे प्रवेशाभावान्नात्र दोषगन्धोऽपि ॥ अतएव--

स्तनाभोगे पतन्भाति कपोलात्कुटिलोऽलकः ।
शशाङ्कबिम्बतो मेरौ लम्बमान इवोरगः ॥

इत्यादावपि नानुपपत्तिः ॥

 परे तु–-अस्याः कल्पितोपमाया उपमानान्तराभावफलकत्वेनालङ्कारान्तरतामाहुः । तन्न-- सादृश्यस्य चमत्कारितयोपमान्त र्भावस्यैवोचितत्वात्, सन्निरूपितत्वस्य लक्षणे प्रवेशाभावात् । उपमानान्तराभावफलकत्वं ह्युपमाविशेषत्वे साधकं न तूपमाबहिर्भावे इति ॥

पूर्णा लुप्तेत्यलंकारतत्त्वज्ञैस्सा द्विधोदिता । उपमानं चोपमेयं धर्मो वाचकमित्यदः ।
चतुष्टयमुपात्तं चेत्सा हि पूर्णोपमा मता ॥ ३ ॥

 यथा--

 आनन्दनिलयनामनि विमानधामनि विभासमानं तत् । धाम चिरत्नं रत्नं श्यामलमिव हैमसंपुटे जयति ॥ २६ ॥

 अत्र श्यामलं रत्नं चिरत्नं धाम विभासमानं इवशब्दश्चे-