पूर्वामत्यजतः स्थितिं शुभकरीमासेव्यमानस्य ते।
वर्धन्ते विजयश्रियः किमिव न श्रेयस्विनां मङ्गलम् ॥'
अत्र ज्योतिःशास्त्रप्रसिद्धवस्तुसमारोपः ।
'प्रसर्पत्तात्पर्यैरपि सदनुमानैकरसिकै-
रपि ज्ञेयो यो नो परिमितगतित्वं परिजहत् ।
अपूर्वव्यापारो गुरुवरबुधैरित्यवसितो
न वाच्यो नो लक्ष्यस्तव सहृदयस्थो गुणगणः ।
अत्र भरतादिशास्त्रप्रसिद्धवस्तुसमारोपः । तथा ह्यत्र गुणगणगतत्वेन
शृङ्गारादिरसव्यवहारः प्रतीयते । यतो रसो न तात्पर्यशक्तिज्ञेयः। ना-
प्यनुमानविषयः । न शब्दैरभिधाव्यापारेण वाच्यीकृतः । न लक्षणागो-
चरः । किं तु विगलितवेद्यान्तरत्वेन परिहृतपारिमित्यो व्यञ्जनलक्षणापूर्व-
व्यापारविषयतोऽनुकार्यानुकर्तुगतत्वपरिहारेण सहृदयगत इति प्रसर्पत्ता-
त्पर्यैरित्यादिपदै रस एव प्रतीयते । एवमन्यदपि ज्ञेयम् ।
'पश्यन्ती त्रपयेव यत्र तिरयत्यात्मानमभ्यन्तरे
यत्र त्रुट्यति मध्यमापि मधुरध्वन्युज्जिघासारसात् ।
चाट्टूच्चारणचापलं विदधतां वाक्तत्र बाह्या कथं
देव्या ते परया प्रभो सह रहः क्रीडादृढालिङ्गने ।
अत्रागमप्रसिद्धे वस्तुनि लौकिकवस्तुव्यवहारसमारोपः । लौकिकवस्तु- व्यवहारश्च रसादिभेदाद्बहुभेद इत्युक्तं प्राक् । तत्र शुद्धकार्यसमारोपे का- र्यस्य विशेषणत्वमौपचारिकमाश्रित्य विशेषणसाम्यादिति लक्षणं पूर्वशास्त्रा- नुसारेण विहितं यथाकथंचिद्योज्यम् । इह तु
तत्र हि निखिलप्रमाणागोचरं परमात्मस्वरूपं दर्शितम् । तव्द्यवहारसमारोपोऽत्र कृतः । न ता त्पर्येति । यदुक्तम्--नाभिधैवं न तात्पर्य लक्षणानुमितिर्न वा । ध्वन्यन्तर्भावने शक्ता भेदेन विषयस्थितेः ॥ इति । अनुकार्यो रामादिः । अनुकर्ता नटादिः । तद्गोगचरश्च न रसः प्रतीयते । यदुक्तम्-नानुकार्येऽपि रामादौ नटादौ नानुकर्तरि । रसः सचेतसां किं तु' इति । अन्यविति । अन्यशास्त्रप्रसिद्धवस्तुसमारोपलक्षणम् । तदित्यं सप्रपञ्चां समासोक्ति प्रतिपाद्य पुनरपि सहृदयानां हृदयंगमीकर्तुं ग्रन्थकृदेतत्प्रतीतिं विभागेन लक्ष्ये योजयति-इह त्वित्यादिना । अविप्रतिपत्तिद्योतनार्थस्तावच्छब्दः । कुतस्येति ।
१. ‘तव हृदयसंस्थों’ क. ३. ‘बहुतर’ स्ख.