‘ऐन्द्रं धनुः पाण्डुपयोधरेण शरद्दधानार्द्रनखक्षताभम् ।
प्रसादयन्ती सकलङ्कमिन्दुं तापं रवेरभ्यधिकं चकार ।
इत्यत्रास्ति तावद्रविशशिनोर्नायकत्वप्रतीतिः । न चात्र विशेषणसाम्य-
मिति सा कुतस्त्या । प्रसादयन्ती सकलङ्कमिन्दुमिति विशेषणसाम्याच्छ-
रदो नायिकात्वप्रतीतौ तदानुगुण्यात्तयोः समासोक्या नायकत्वप्रतीतिरिति
चेत् आर्द्रनखक्षताभमैन्द्रं धनुर्दधानेत्येतद्विशेषणं कथं साम्येन निर्दिष्टम् ।
न चैकदेशविवर्तिन्युपमोक्ता यत्सामर्थ्यान्नायकत्वप्रतीतिः स्यात् । तत्कथ-.
मत्र व्यवस्था । उच्यते-एकदेशविवर्तिन्युपमा यदि प्रतिपदं नोक्ता तदा
सा केन प्रतिषिद्धा । सामान्यलक्षणद्वारेणायातायास्तस्या अत्रापि संभवात् ।
अथात्र नोपमानत्वेन नायकः स्खरूपेण प्रतीयते तथापि रविशशिनोरेव
र्नायकव्यवहारप्रतीतिः । तयोरत्र नायकत्वात् । तदत्रार्द्रनखक्षताभमित्यत्र ।
स्थितमपि भृत्योषमानत्वं वस्तुपर्यालोचनया ऐन्द्रे धनुषि संचारणीयम् ।
इन्द्रचापाभं नखक्षतं दधानेति प्रतीतेः । यथा ‘दध्ना जुहोति’ इत्यादौ दध्लि
संचार्यते विधिः एवमियमुपमानुप्राणिता समासोक्तिरेव । इह तु पुनः
‘नेत्रैरिवोत्पलैः पद्मर्मुखैरिव सरःश्रियः ।
पदे पदे विभान्ति स्म चक्रवाकैः स्तनैरिव ।
किमस्या निमित्तमिति भावः । तदानुगुण्यादिति शरदो नायिकात्वप्रतीत्यनुगुणत्वात् । तयोरिति रविशशिनोः। कथमिति । प्रकृतार्थाननुगुणस्वात्साम्यायोगात् । कथमत्र व्यवस्थेति । विशेषणसाम्यायोगात्समासोक्तेरप्राप्तेरेकदेशविवर्तिन्या उपमाया अनुक्त- त्वात् । सामान्यलक्षणेति । उपमानोपमेययोः साधर्म्ये भेदाभेदतुल्यत्वे उपमेति । एवमेकदेशविवर्त्युपमासामर्थ्यादेवात्र नायकत्वप्रतीतिरिति भावः । अथेति पक्षान्तरे। यदि चात्र पूर्वोक्तयुक्त्यैवानुगुण्याद्रविशशिनोः समासोक्तिमुखेन नायकत्वप्रतीतिस्तदार्द्र- नखक्षताभमिति विशेषणं कथं साम्येन योजयितुं शक्यमित्याशङ्कयाह-तदत्रेत्यादि । एतदेव शास्त्रान्तरप्रसिद्धदृष्टान्तमुखेन हृदयंगमीकरोति-यथेत्यादिना । अग्निहोत्रं जुहुयादित्यनेनोत्पत्तिविधिवाक्येन हि होमो विहितः तस्य च पुनर्विधानमदग्धदहन्यायेन यावदप्राप्तं विधेर्विषय इत्यभ्युपगमान्न युज्यत इति तत्रायुक्तत्वादुपपदे दध्नि संचार्यत. इत्यर्थः । उपमानुप्राणितेति । औपम्यगर्भविशेषणोत्वापितेत्यर्थः । समासोक्ति-. : चै।
१. 'त’ क. २. ‘यद्यप्यत्रोपमानत्वेन’ ख. ३. ‘अपि तु' क. ४, नायकत्वप्र : तीति ख. ५. ‘दधि' स्ख.
१. ‘अप्रकृताथ’ क,