सुकविहृदयानन्दिनी/अध्यायः १
सुकविहृदयानन्दिनी अध्यायः १ |
अध्यायः २ → |
प्रथमोऽध्यायः
[सम्पाद्यताम्]नमः सरस्वत्यै ।
सश्रीकं प्रभया युतं रुचिरया प्रोद्भासितं गङ्गया
नानावक्त्रविराजितं शशिकलापीडोच्छ्रयाऽलङ्कृतम् ।
आर्योपेतमुपस्थिताखिलगणस्रक्पूजितं सर्वदा
छंदःशास्त्रमिवेश्वरस्य जयति त्रैलोक्यवंद्यं वपुः ॥ १
कृष्णात्रेयस्य गोत्रे समजनि पुरा दाक्षिणात्याग्रणीर्यो
वेलादित्याभिधानः सुकविरभवद्भास्वरस्तस्य सूनुः ।
तत्पुत्रः सुल्हणाख्यः सुललितपदां वृत्तरत्नाकराख्य-
छंदोवृत्तिं स चक्रे सुकविहृदयानंदनीनामधेयाम् ॥ २
शास्त्रारंभे शास्त्रकार इष्टाधिकृतदेवतानमस्कारपूर्वकशास्त्रसंबंधप्रयोजनं श्लोकत्रयेणाह ।
सुखसंतानसिद्ध्यर्थं नत्वा ब्रह्माच्युतार्चितम् ।
गौरीविनायकोपेतं शंकरं लोकशंकरम् ॥ १
वेदार्थशैवशास्त्रज्ञः पव्येकोऽभूद्द्विजोत्तमः ।
तस्य पुत्रोऽस्ति केदारः शिवपादार्चने रतः ॥ २
तेनेदं क्रियते छन्दो लक्षलक्षणसंयुतम् ।
वृत्तरत्नाकरं नाम बालानां सुखबुद्धये ॥ ३
वेदानामर्था वेदार्थाः । शिवो देवता येषां तानि शैवानि शास्त्राणि । वेदार्थाश्च शैवशास्त्राणि च तानि जानातीति स तथोक्तः य पव्येको नाम द्विजोत्तमोऽभूत्तस्य पव्येकस्य केदारनामा शिवचरणाराधनपरः पुत्रोऽस्ति । तेन केदारेणेदं वक्ष्यमाणलक्षणं छन्दः क्रियते । लक्ष्यमुदाहरणं लक्षणं नियताक्षरमात्रागणरचना ताभ्यां संयुतं लक्षलक्षणसंयुतम् । किं नाम । वृत्तरत्नाकरं नाम । वृत्तानि श्रीप्रभृतीनि तान्येव रत्नानि तेषामाकर उत्पत्तिस्थानम् । किमर्थं । सुखसिद्धये । सुखेन सिद्धिः सुखसिद्धिस्तस्यै सुखसिद्धये । केषाम् । बालानां मन्दबुद्धीनाम् । किंकृत्वा । नत्वा । कम् । शंकरं महादेवम् । कथंभूतम् । लोकशंकरं लोकानां शं सुखं करोतीति लोकशंकरस्तम् । पुनः कथंभूतम् । ब्रह्माच्युतार्चितं विरंचिनारायणपूजितम् । पुनः कथंभूतं । गौरीविनायकोपेतं गौरी च विनायकश्च गौरीविनायकौ ताभ्यां उपेतं संयुतम् । किमर्थम् । सुखसंतानसिद्ध्यर्थम् । सुखं परं ब्रह्मानन्दात्मकं संतानः पुत्रपौत्रादि तयोः सिद्धिः प्राप्तिस्तदर्थं सुखसंतानसिद्ध्यर्थम् । नत्वा प्रणम्येति संबंधः । त्रिभिर्विशेषकम् ॥ १-३
छन्दःशब्देन किमुच्यते इत्याह ।
पिङ्गलादिभिराचार्यैर्यदुक्तं लौकिकं द्विधा ।
मात्रावर्णविभेदेन छन्दस्तदिह कथ्यते ॥ ४
तदिदं शास्त्रे छन्दः कथ्यते । यत्पिंगलादिभिराचार्यैः छन्दःशास्त्रप्रयोक्तृभिरुक्तमभिहितम् । लौकिकं लोके भवं न वैदिकं । काव्यादिषु तस्यानुपयोगात् । द्विधा द्विप्रकारम् । कथमित्याशंकायां मात्रावर्णविभेदेनेत्याह । मात्राभेदेन आर्यादि वर्णभेदेन श्रीप्रभृति वृत्तभेदेनेति ॥ ४
अथ ग्रन्थसंख्यामाह ।
षडध्यायनिबद्धस्य छन्दसोऽस्य परिस्फुटम् ।
प्रमाणमपि विज्ञेयं षट्त्रिंशदधिकं शतम् ॥ ५
अधीयन्त इत्यध्यायास्ते च वक्ष्यमाणलक्षणाः संज्ञाभिधानमात्रावृत्तसमवृत्तार्धसमवृत्तविषमवृत्तषट्प्रत्ययलक्षणाः षडेव षड्भिर्निबद्धस्य छन्दःशास्त्रस्य प्रमाणं संख्या षट्त्रिंशदधिकं शतं विज्ञेयम् ॥ ५
अथ गणनामाह ।
म्यरस्तजभ्नगैर्लान्तैरेभिर्दशभिरक्षरैः ।
समस्तं वाङ्मयं व्याप्तं त्रैलोक्यमिव विष्णुना ॥ ६
‘‘गल’ इति प्रथमाक्षरग्रहणमात्रेण गुरुलघुशब्दयोर्ग्रहणमि’त्याम्नायः । एभिर्मयरसतजभनलगैर्दशभिरक्षरैः । समस्तमपि शब्दब्रह्म व्याप्तम् । किमिव । त्रैलोक्यमिव । केन । भवगता नारायणेन । ६
एतेषां प्रत्येकं लक्षणमाह ।
सर्वगुर्मो मुखान्तर्लौ यरावंतगलौ सतौ ।
ग्मध्याद्यौ ज्भौ त्रिलो नोऽष्टौ भवन्त्यत्र गणास्त्रिकाः ॥ ७
अस्मिन् छन्दःशास्त्रे सर्वे गुरवो यस्यासौ सर्वगुर्मो मगणो यथा (ऽऽऽ) । मुखान्तर्लौ यरौ मुखमादि अंतर्मध्यं आदौ मध्ये लघू ययोस्तौ मुखान्तर्लौ यगणरगणौ (।ऽऽ, ऽ।ऽ) । अंतगलौ सतौ । अंते अवसाने गुरुलघू ययोस्तौ सगणतगणौ यथा (।।ऽ, ऽऽ।) । ग्मध्याद्यौ ज्भौ । गुरु मध्ये आदौ ययोस्तौ जगणभगणौ यथा (।ऽ।, ऽ।।) । त्रिलो नः । त्रिलघुर्नगणो यथा (।।।) । एते मयरसतजभनाऽष्टौ गणा भवन्ति वर्णवृत्तगणा भवन्तीत्यर्थः । मात्रागणानां वक्ष्यमाणसूत्रे विधानात् । चतुर्गुर्वादीनामपि गणादिसंज्ञा मा भूदित्याशंक्य नियमन्नाह । त्रिका इति त्रयः परिमाणं येषां ते त्रिका इति । ७
अथ मात्रागणानाह ।
ज्ञेयाः सर्वान्तमध्यादिगुरवोऽत्र चतुःकलाः ।
गणाश्चतुर्लघूपेताः पंचार्यादिषु संस्थिताः ॥ ८
आर्याप्रभृतिषु मात्रावृत्तेषु चतुःकला पञ्च गणा ज्ञातव्याः । कथम् । सर्वादिमध्यांतगुरवः सर्वे च ते आदिश्च मध्यं च अन्तश्च सर्वादिमध्यांतास्तेषु गुरवो येषां ते सर्वादिमध्यान्तगुरवः । चतुर्भिर्लघुभिरुपेताः सहिता वेदितव्याः । ८
गुरुलघुपरिज्ञानार्थमाह ।
सानुस्वारो विसर्गान्तो दीर्घो युक्तपरश्च यः ।
वा पादान्तस्त्वसौ ग्वक्रो ज्ञेयोऽन्यो मातृको लृजुः ॥ ९ इति ।
सहानुस्वारेण वर्तत इति सानुस्वारः । विसर्गान्तः सविसर्गः । दीर्घो द्विमात्रः । युक्तपरः संयोगपरो यो भवति । चकाराद्व्यंजनांतोऽपि गृह्यते । परिमिताक्षरमात्रो गणारचितो वक्ष्यमाणलक्षणो वृत्तस्य चतुर्थांशः पादस्तस्यान्ते वर्तमानो लघुरपि विभाषया गुरुः स्यात् । स च कविसमयव्यवहारात् द्वितीयचतुर्थयोरेव पादयोरन्ते वेदितव्यः । यथा ।
प्रायः समासन्नपराभवानां धियो विपर्यस्ततमा भवन्ति ।
असंभवे हेममयस्य जन्तोस्तथाऽपि रामो लुलुभे मृगाय ॥ इति ।
तथा च ।
‘श्रियः पतिः श्रीमति शासितुं जगज्जगन्निवासो वसुदेवसद्मनि’ इत्यादि दृष्टव्यम् ।
स च प्रस्तारे वक्रः स्थाप्य लघुलक्षणमाह । ज्ञेयोऽन्यो मातृको लृजुः । अनुस्वरादिरहितो अन्यो मातृको एकमात्रो वर्णो लघुर्भवति । स च प्रस्तारे ऋजुः सरलः । ९
युक्तपराश्च य इत्यनेन प्राप्ते गुरुत्वे अपवादमाह ।
पदादाविह वर्णस्य संयोगः क्रमसंज्ञिकः ।
पुरःस्थितेन तेन स्याल्लघुताऽपि क्वचिद्गुरोः ॥ १०
विभक्त्यंतं पदं तस्य पदस्यादौ वर्तमानो यो वर्णस्तस्य संयोगः । स इह शास्त्रे क्रमसंज्ञो ज्ञेयः । तेन क्रमेण पुरोवर्तिना प्राक्पदांते वर्तमानस्य प्राप्तगुरुभावस्यापि लघुता स्यात् । क्वचिल्लक्षानुरोधेन । ननु क एषः क्रमो नाम संयोग उच्यते । पूर्वाचार्याणां पिंगलनागप्रभृतीनां कालिदासादीनां च कवीनां समयः परिगृहीतः । संयोगः क्रमसंयोगः । १०
तत्र ग्रसंयोगेन यथा । इदमस्योदाहरणम् ।
तरुणं सर्षपशाकं नवौदनं पिच्छलानि च दधीनि ।
अल्पव्ययेन सुंदरि ग्राम्यजनो मिष्टमश्नाति ॥ ११
ह्रसंयोगेन यथा ।
तव ह्रियापह्रिया मम ह्रीरभूत् शशिगृहेऽपि हृतं न धृता ततः ।
वहलभ्रामरमेषकतामसम् मम प्रिये क्व स येष्यति तत्पुनः ॥ इति
निद्रव्यो ह्रियमेति ह्रीपरिगतः प्रभ्रश्यते तेजसः
निस्तेजः परिभूयते परिभवान्निर्वेदमागच्छति ।
निर्विण्णः शुचमेति शोकविवशो बुद्ध्याः परिभ्रश्यते
निर्बुद्धिः क्षयमेत्यहो निधनता सर्वापदामास्पदम् ॥
ममैव ते हृते । यथा ।
स्नेहाद्गेहाद्भुजगतनयालोककौतूहलेन स्थूलोत्तुंगस्तनभरलसन्मध्यभंगानपेक्षाः ।
पौरा नार्यस्तरलनयनानन्दमुत्पादयन्त्यो धावन्ति स्म द्रुतमपह्रियः स्रंसमानोत्तरीयाः ॥ इति ।
बोधप्रदीपेऽपि यथा ।
यज्ञैर्येषां प्रतिपदमियं मण्डिता भूतधात्री
निर्जित्यैतद्भुवनवलयं यैः प्रदत्तं द्विजेभ्यः ।
तेऽप्येतस्मिन् गुरुभवहृदे बुद्बुदस्तम्भलीलं
धृत्वा धृत्वा सपदि विलयं भूभुजः संप्रयाताः ॥
शिशुपालवधे यथा ।
प्राप्तनाभिहृदमज्जनमाशु प्रस्थितं निवसनग्रहणाय । इति ।
भ्रसंयोगेन यथा ।
शशिमुखि भ्रमरोऽयं पद्मबुद्ध्याऽऽननं ते ।
समभिलषति पातुं त्यक्तवल्लीप्रसूनः ॥
तथा च ।
भ्रमति भ्रमरमारीकानने विप्रमुक्ते । इत्यादि ।
वरतरुकुसुमेषु व्योमगंगाम्बुजेषु त्रिदशकरिकटेषु स्वर्वधूकुंतलेषु ।
स्थितशयितविबुद्धप्रीतिकस्ते भ्रमोऽयं भ्रमसि भ्रमर येन त्वं मुधा केतकेषु ॥
पदादाविति किम् । अन्यत्र मा भूत् ।
ग्रसंयोगेन यथा ।
असमग्रविलोकनेन किं ते दयितं पश्य वरोरु निर्विशंका ।
न हि जातु कुशाग्रपीतमम्भः सुचिरेणापि करोत्यपेततृष्णम् ॥ इति
ह्रसंयोगेन यथा ।
‘आजह्रतुस्तच्चरणौ पृथिव्यामि’ति ।
तथा च ।
प्रद्योतस्य प्रियदुहितरं वत्सराजोऽत्र जह्रे ।
भ्रसंयोगेन यथा ।
कुन्दावदातैर्भवतो यशोभिः शुभ्रीकृतं किं परमारवीर ।
अद्यापि यद्बिभ्रति कालिमानमरातिनारीवदनोत्पलानि ॥ इत्यादि ।
क्वचिदिति किम् । सर्वत्र मा भूत् ।
ग्रसंयोगेन यथा ।
‘मही पादघाताद्व्रजति सहसा संशयपदम् ।
पदं विष्णोर्भ्राम्यद्भुजपरिघरुग्णग्रहणमि’ति ॥
भ्रसंयोगेन यथा ।
‘तत्र भ्रमत्येव मुधा षडंध्रिरि’ति ।
केचित्पादादाविति मन्यन्ते । तदसंगतम् । सूत्रोदाहरणयोर्घटनाभावात् ।
तथापि ।
तरुणं सर्षपशाकं नवोदनं पिच्छलानि दधीनि ।
अल्पव्ययेन सुंदरि ग्राम्यजनो मिष्टमश्नाति । इत्युदाहरणमार्यया प्रदर्शितम् । आर्यायां पादव्यवस्था नास्ति । पूर्वार्धोत्तरार्धग्रहणात् पूर्वार्धोत्तरार्धमित्यार्यालक्षणं कुर्वाणो ग्रन्थकार एवं ज्ञापयति । तावदार्यायां पादव्यवस्था नास्ति पैंगलीयसूत्रपाठाच्च । स्वराऽर्धञ्चार्यार्धमिति । तस्मात्पदादाविति पाठः । श्रेयानित्यलमिति प्रसंगेन ॥ ११
अथ संज्ञामाह ।
अब्धिभूतरसादीनां ज्ञेयाः संज्ञास्तु लोकतः ।
ज्ञेयः पादः चतुर्थांशो यतिर्विच्छेदसंज्ञिता ॥ १२
तद्यथा । चत्वारोऽब्धिवेदाः । पञ्च शरेन्द्रियाणि । षट्चर्तवः । सप्त स्वरर्षयः । अष्टौ वसवः । नव नंदरन्ध्राणि । दश दिशाः । एकादश रुद्राः । द्वादशादित्याः । त्रयोदश विश्वेदेवाः । चतुर्दश भुवनानि । पञ्चदश तिथय इत्यादि ।
पादलक्षणमाह ।
ज्ञेयो पादः चतुर्थांशो । वक्ष्यमाणलक्षणस्य वृत्तस्य चतुर्थांशो भागः पादसंज्ञो भवेत् ।
अथ यतिमाह ।
यतिर्विच्छेदसंज्ञिता । यतिर्विरामादिराचार्यपारंपर्यागता संज्ञेयमध्यात्पदच्छिन्नाक्षरेषु कर्तव्या । अब्ध्यादि शब्दाद्धि सांकाः कृत्वा यतिरित्यनेन सह संबध्यन्ते । इत्ययमर्थः शिष्यन्ति ।
तत्राहुराचार्याः ।
“यतिः सर्वत्र पादान्ते श्लोकार्धे तु विशेषतः ।
समुद्रादिपदान्ते च व्यक्ताव्यक्तविभक्तिके ॥
क्वचित्तु पदमध्येऽपि समुद्रादौ यतिर्भवेत् ।
यदि पूर्वापरौ भागौ न स्यातामेकवर्णकौ ॥
पूर्वांतवत्स्वरः संधौ क्वचिदेव परादिवत् ।
दृष्टव्यो यतिचिन्तायां यद्यादेशः परादिवत् ॥
[नित्यं प्राक्पदसंबद्धाश्चादयः प्राक्पदान्तवत् ।
परेण नित्यसंबद्धाः प्रादयश्च परादिवत् ॥] ”
यतिः सर्वत्र पादान्ते ।
यथा ।
श्रियः श्रेयकपोलौ तु सम्पूर्णेन्दुसमप्रभौ
प्रतिबिम्बं हरेर्यत्र कस्तूरी मण्डनायते । इत्यादिनेत्वेवं यथा ।
नमस्तस्मै महादेवाय शशिखण्डधारिणे । इति ।
श्लोकार्धे तु विशेषतः ।
यथा ।
राजसेवां विनाऽस्माकं गुणो निष्फलतामगात् ।
अंतःपुरपुरन्ध्रीणां अनर्घ्यामिव मण्डनम् ॥ इति ।
अगादित्यंत्यव्यञ्जनस्यांतःपुरेणेत्यकारेण सह संधिर्न भवति ।
समासेऽपि न त्वेवं यथा ।
सुरासुरशिरोरत्नस्फुरच्चरणमञ्जरी-
पिंजरीकृतपादाब्जद्वन्द्वं वन्दामहे शिवमिति ।
समुद्रादिपदान्ते च व्यक्ताव्यक्तविभक्तिके ।
व्यक्तविभक्तिके प्रकटविभक्तिके । अव्यक्तविभक्तिके समासान्तविभक्तिके । तयोरुदाहरणं यथा ।
‘यक्षश्चक्रे जनकतनयास्नानपुण्योदकेषु’ इति ।
व्यक्ताव्यक्तविभक्तिक इति यतिः सर्वत्र पादान्त इत्यनेन सह संबध्यते । वस्त्रीकृतजगत्कालं कण्ठेकालं नमाम्यहम् ।
महाकालं कलाशेषं शशिलेखाशिखामणिम् ॥
अपि च ।
नमस्तुंगशिरश्चुम्बिचन्द्रचामरचारवे ।
त्रैलोक्यनगरीरंभमूलस्तम्भाय शम्भवे ॥
क्वचित्तु पदमध्येऽपि समुद्रादौ यतिर्भवेत् ।
यदि पूर्वापरौ भागौ न स्यातामेकवर्णकौ ॥
यथा ।
‘पर्याप्तं तप्तचामीकरकटकतटे श्लिष्टशीतेतराशा’विति ।
समुद्रादाविति किम् । पदमध्ययतिर्पदान्ते मा भूत् । यथा ।
‘प्रणमत भवबंधक्लेशनाशाय नारायणचरणसरोजद्वन्द्वमानं दहेतु’रिति ॥
पूर्वोत्तरभागयोरेकाक्षरत्वे तु पदमध्ये यतिर्दुष्यति । यथा ।
‘एतस्या गण्डतलममलं गाहवे चन्द्रकक्षा’मिति ।
‘एतासां राजति सुमनसां दामकण्ठावलम्बी’ति ।
‘संतापं मे जनयति नितम्बोऽयमिन्दीवराक्ष्या’ इति ।
पूर्वान्तवत्स्वरः संधौ क्वचिदेव परादिवत् ।
अस्यार्थः । यो यं पूर्वपरयोरेकदेशः स्वरसंधौ विधीयते स क्वचित्पूर्वान्तवद्भवति क्वचित्परस्यादिवत् ।
पूर्वान्तवद्यथा ।
स्यादस्थानेऽपगतयमुनासंगमे वाऽभिरामा । तथा ।
जम्भारातीभकुम्भोद्भवमिव दधतः सान्द्रसिन्दूररेणुम् इति ।
परादिवद्भावो यथा । ममैव व्यायोगे ।
ये स्वारातिविदारितास्यसहसैवाभूद्विभिन्नं रणे
वामांगं कलकिंकणीफलकवन्निस्तृंशवद्दक्षिणम् ।
एकं घातनिपातदत्तमितरद्घातप्रतीकारकृद्-
धन्यः पश्यति युध्यमानमिति सस्वांगं विमानस्थितः ॥ इत्यादि ।
यद्यादेशः परादिवद् ।
यथा ।
‘सप्तर्षिहस्तावचितावशेषण्येऽधो विवस्वानि’ति ।
आदिशब्दात् ‘विततघनतुषारः क्षोदशुभ्रांशुवर्त्म स्वविरले’त्यादि ।
नित्यं प्राक्पदसंबद्धाश्चादयः प्राक्पदान्तवत् ।
तेभ्यः पूर्वा यतिर्न कर्तव्येत्यर्थः । यथा ।
‘स्वादुःस्वच्छंदसलिलमिदं प्रीतये कस्य न स्यादि’ति ।
परेण नित्यसंबद्धाः प्रादयश्च परादिवत् ।
तेभ्यः परा यतिर्न कर्तव्येत्यर्थः । यथा ।
‘दुःखं मे प्रक्षिपति हृदये दुःसहस्तद्वियोगः’ इत्यादि सर्वमूह्यम् ॥ १२
युक्समं विषमं चायुक्स्थानं सद्भिर्निगद्यते । १३(१)
प्रथमतृतीयादिकं स्थानं अयुक् विषमं द्वितीयचतुर्थादिकं स्थानं युक्सममिति ।
अथ वृत्तभेदानाह ।
सममर्धसमं वृत्तं विषमं च तथा परम् ॥ १३(२)
छन्दसि वर्तत इति । वृत्तं वक्ष्यमाणलक्षणं त्रिधा भवति । सममर्धसमं विषमं चेति । तत्र समं सर्वावयवत्वात्समम् श्रीप्रभृति अर्धसममुपचित्रादि विषमं पदचतुरूर्धादि ।
एतेषां प्रत्येकं लक्षणमाह ।
अङ्ध्रयो यस्य चत्वारस्तुल्यलक्षणलक्षिताः ।
तच्छंदशास्त्रतत्त्वज्ञा समं वृत्तं प्रचक्ष्यते ॥ १४
यस्य वृत्तस्य चत्वारोऽपि पादाः समलक्षणभाजो भवन्ति । तद्वृत्तं समं छन्दोविद्भिराचक्ष्यते ।
अथार्धसममाह ।
प्रथमाङ्ध्रिसमो यस्य तृतीयश्चरणो भवेत् ।
द्वितीयस्तुर्यवद्वृत्तं तदर्धसममुच्यते ॥ १५
यस्य वृत्तस्य प्रथमतृतीयपादौ तुल्यलक्षणौ भवतः । द्वितीयचतुर्थौ च । तद्वृत्तं अर्धसममुच्यते ।
विषमलक्षणमाह ।
यस्य पादचतुष्केऽपि लक्ष्म भिन्नं परस्परम् ।
तदाहुर्विषमं वृत्तं छन्दःशास्त्रविशारदाः ॥ १६
यस्य वृत्तस्य चतुर्ष्वपि पादेषु भिन्नमन्यादृशं परस्परं लक्षणं भवति तद्विषममित्याहुराचार्याः ।
अथ वृत्तानां पादं नियमन्नाह ।
आरभ्यैकाक्षरात्पादादेकैकाक्षरवर्धितैः ।
पृथक्छन्दो भवेत्पादैर्यावत्षड्विंशतिं गतम् ॥ १७
एकाक्षरात्पादादेकैकाक्षरवृद्ध्या पादैः छन्दः स्यात् । किं यावद्गतं षट्विंशत्यक्षरमुत्कृतिं यावत् ।
तदूर्ध्वं चण्डवृष्ट्यादि दण्डकाः परिकीर्तिताः । १८(१)
षड्विंशत्याक्षरोत्कृतिजातेरूर्ध्वं चण्डवृष्टिप्रभृतयो दण्डकाः भवन्ति । शेषमिति प्रकरणम् । तच्च शास्त्रान्तरेभ्योऽवगन्तव्यम् । ग्रन्थगौरवभयात्केदारेणात्र नोक्तम् ।
गाथास्त्रिभिः षड्भिश्चरणैश्चोपलक्षिताः ॥ १८(२)
शेषं जातिप्रकरणानन्तरं त्रिपद्यः षट्पद्यो गाथाः स्युः ।
अथ छन्दसां जातीराह ।
उक्तात्युक्ता तथा मध्या प्रतिष्ठाऽन्या सुपूर्विका ।
गायत्र्युष्णिगनुष्टुप् च बृहती पंक्तिरेव च ॥ १९
त्रिष्टुप् च जगती चैव तथाऽतिजगती मता ।
शर्करी सातिपूर्वा स्यादष्ट्यत्यष्टी ततः स्मृतेः ॥ २०
धृतिश्चातिधृतिश्चैव कृतिः प्रकृतिराकृतिः ।
विकृतिः सङ्कृतिश्चैव तथाभिकृतिरुत्कृतिः ॥ २१
इत्युक्ता छंदसां संज्ञाः क्रमशो वच्मि साम्प्रतम् ।
लक्षणं सर्ववृत्तानां मात्रावृत्तानुपूर्वकम् ॥ २२
एकाक्षरा उक्ता । द्व्यक्षरा अत्युक्ता । त्र्यक्षरा मध्या । चतुरक्षरा प्रतिष्ठा । पंचाक्षरा सुप्रतिष्ठा । षडक्षरा गायत्री । सप्ताक्षरा उष्णिक् । अष्टाक्षरा अनुष्टुप् । नवाक्षरा बृहती । दशाक्षरा पंक्तिः । एकादशाक्षरा त्रिष्टुप् । द्वादशाक्षरा जगती । त्रयोदशाक्षराऽतिजगती । चतुर्दशाक्षरा शर्करी । पंचदशाक्षरा अतिशर्करी । षोडशाक्षरा अष्टिः । सप्तदशाक्षरा अत्यष्टिः । अष्टादशाक्षरा धृतिः । एकोनविंशत्यक्षरा अतिधृतिः । विंशत्यक्षरा कृतिः । एकविंशत्यक्षरा प्रकृतिः । द्वाविंशत्यक्षरा आकृतिः । त्रयोविंशत्यक्षरा विकृतिः । चतुर्विंशत्यक्षरा संकृतिः । पंचविंशत्यक्षरा अभिकृतिः । षड्विंशत्यक्षरा उत्कृतिः । इति छंदसां संज्ञा उक्ताः ।
अधुना सर्वेषां वृत्तानां लक्षणमभिधास्यामि । लक्ष्यते ज्ञायते अनेनेति लक्षणम् । परं मात्रावृत्तानुपूर्वकम् । मात्रावृत्तान्यार्याप्रभृतीनि प्रथममुक्त्वेत्यर्थः । १९-२२
इति सुल्हणविरचितायां सुकविहृदयानंदिन्यां वृत्तरत्नाकरछंदोवृत्तौ प्रथमोऽध्यायः ॥