वृत्तरत्नाकरः/अध्यायः ५

विकिस्रोतः तः
← अध्यायः ४ वृत्तरत्नाकरः
अध्यायः ५
अध्यायः ६ →

पञ्चमोऽध्यायः[सम्पाद्यताम्]


[पदचतुरूर्ध्व-प्रकरणम् (१-५)]

मुखवादोऽष्टभिर्वर्णैः परे स्युर्मकरालयैः क्रमाद्वृद्धैः ॥
सततं यस्य विचित्रैः पादैः सम्पन्नसौन्दर्यं
तदुदितममलमतिभिः पदचतुरूर्ध्वाभिधं वृत्तम् ॥ ५.१ ॥

प्रथममुदितवृत्ते विरचितविषमचरणभाजि ॥
गुरुकयुगलनिधन इह सहित आङा
लघुविरतपदविततियतिरिति भवति पीडः ॥ ५.२ ॥

प्रथममितरचरणसमुत्थं श्रयति स यदि लक्ष्म ।
इतरदितरगतितमपि यदि च तुर्यं
चरणयुगलकमिति कलिका सा ॥ ५.३ ॥

द्विगुरुयुतसमलचरणान्ता मुखचरणगतमनुभवति च तृतीयः ।
अपरमिह लक्ष्म प्रकृतमखिलमपि यदिदमनुभवति लवली सा ॥ ५.४ ॥

प्रथमधिवसति यदि तुर्यं, चरमचरणपदमवसितगुरुयुग्मम् ।
निखिलमपरमुपरिगतमिति ललितपदयुक्ता, तदिदममृतधारा ॥ ५.५ ॥

[उद्गता-प्रकरणम् (६-८)]

सजादिमे सलघुकौ च नसजगुरुकैरथोद्गता ।
त्र्यङ्घ्रिगतभनजला गयुताः सजसा अगौ चरणमेकतः पठेत् ॥ ५.६ ॥

चरणत्रयं व्रजति लक्ष्म यदि सकलमुद्गतागतम् ।
ना भगौ भवति सौरभकं चरणे यदीह भवतस्तृतीयके ॥ ५.७ ॥

नयुगं सकारयुगलं च भवति चरणे तृतीयके ।
तदुदितमुरुमतिभिर्ललितं यदि शेषमस्य खलु पूर्वतुल्यकम् ॥ ५.८ ॥

[उपस्थितप्रचुपित-प्रकरणम् (९-११)]

म्सौ ज्भौ गौ प्रथमाङ्घ्रिरेकतः पृथगन्यत्त्रितयं सनजरगास्ततो ननौ सः ।
त्रिनपरिकलितजयौ प्रचुपितमिदमुदितमुपस्थितपूर्वम् ॥ ५.९ ॥

नौ पादेऽथ तृतीयके सनौ नसयुक्तौ प्रथमाङ्घ्रिकृतयतिस्तु वर्धमानम् ।
त्रितयमपरमपि पूर्वसदृशमिह भवति प्रततमतिभिरिति गदितं लघु वृत्तम् ॥ ५.१० ॥

प्रथमे च विरतिरार्षभं ब्रुवन्ति ॥
तच्छुद्धविराट्पुरः स्थितं त्रितयमपरमपि यदि पूर्वसमं स्यात् ॥ ५.११ ॥

विषमाक्षरपादं वा पादैरसमं दशध्र्मवत् ।
यच्छन्दो नोक्तमत्र गाथेति तत्सूरिभिः प्रोक्तम् ॥ ५.१२ ॥