वृत्तरत्नाकरः/अध्यायः ६

विकिस्रोतः तः
← अध्यायः ५ वृत्तरत्नाकरः
अध्यायः ६

षष्ठोऽध्यायः[सम्पाद्यताम्]

[प्रस्तारः]

प्रस्तारो नष्टमुद्दिष्टमेकद्वयादिलगक्रिया ।
सङ्ख्यानमध्वयोगश्च षडेते प्रत्ययाः स्मृताः ॥ ६.१ ॥

पादे सर्वगुरावाद्याल्लघुं न्यस्य गुरोरधः ।
यथोपरि तथा शेषं भूयः कुर्यादमुं विधिम् ॥ ६.२ ॥

ऊने दद्याद्गुरूनेव यावत्सर्वलघुर्भवेत् ।
प्रस्तारोऽयं समाख्यातश्छन्दोविचितिवेदिभिः ॥ ६.३ ॥

[नष्टम्]

नष्टस्य यो भवेदङ्कस्तस्यार्धेऽर्धे समे च लः ॥
विषमे चैकमाधाय स्यादर्धेऽर्धे गुरुभवेत् ॥ ६.४ ॥

[उद्दिष्टम्]

उद्दिष्टं द्विगुणानाद्यादुपर्यङ्कान्समालिखेत् ।
लघुस्था ये च तत्राङ्कास्तैः सैकैर्मिश्रितैर्भवेत् ॥ ६.५ ॥

[एकद्वयादिलगक्रिया]

वर्णान्वृत्तभवान्सैकानौत्तराधर्यतः स्थितान् ।
एकादिक्रमतश्चैतानुपर्युपरि निक्षिपेत् ॥ ६.६ ॥

उपान्त्यतो निवर्तेत त्यजन्नेकैकमूर्ध्वतः ।
उपर्याद्याद्गुरोरेकमेकद्व्यादिलगक्रिया ॥ ६.७ ॥

[सङ्ख्यानम्]

लगक्रियाङ्कसन्दोहे भवेत्सङ्ख्या विमिश्रिते ।
उद्दिष्टाङ्कसमाहारः सैका वा जनयेदिमाम् ॥ ६.८ ॥

[अध्वयोगः]

सङ्ख्यैव द्विगुणैकोना सद्भिरध्वा प्रकीर्तितः ॥
वृत्तस्याङ्गुलिका व्याप्तिरधः कुर्यात्तथाङ्गुलिम् ॥ ६.९ ॥

वंशेऽभूत्कश्यपस्य प्रकटगुणगणः शैवसिद्धान्तवेत्ता
विप्रः पव्येकनामा विमलतरमतिर्वेदतत्त्वार्थबोधे ।
केदारस्तस्य सूनुः शिवचरणयुगाराधनैकाग्रचित्तश्छन्दस्तेनाभिरामं
वृत्तरत्नाकराख्यम् ॥ ६.१० ॥