सामग्री पर जाएँ

मैत्रायणीसंहिता/काण्डं २/प्रपाठकः १०

विकिस्रोतः तः

अग्निचितिः

2.10.1 अनुवाकः1
अश्मन्न् ऊर्जं पर्वते शिश्रियाणामद्भ्य ओषधीभ्यो वनस्पतिभ्योऽधि संभृताम् ।
तां ना इषं ऊर्जं धत्त मरुतः संरराणा, अश्मंस्ते क्षुत् , मयि ता ऊर्क् , यं द्विष्मस्तं ते शुग् ऋच्छतु ॥
समुद्रस्य त्वावकयाग्ने परिव्ययामसि ।
पावको अस्मभ्यं शिवो भव ॥
हिमस्य त्वा जरायुणाग्ने परिव्यायमसि ।
पावको अस्मभ्यं शिवो भव ॥
उप ज्मन्नुप वेतसेऽवतर नदीष्वा ।
अग्ने पित्तमपामसि मण्डूकि ताभिरागहि ।
सेमं नो यज्ञं पावकवर्णं शिवं कृधि ॥
अपामिदं न्ययनं समुद्रस्य निवेशनं ।
अन्यांस्ते अस्मत्तपन्तु हेतयः पावको अस्मभ्यं शिवो भव ॥
अग्ने पावक रोचिषा, स नः पावक दीदिवः ॥
पावकया यश्चितयन्त्या कृपा क्षामन् रुरुच उषसो न केतुना ।
आ यो घृणे न ततृषाणो अजरस् तूर्वन् न यामन्न् एतशस्य नू रणे ॥
नमस्ते हरसे शोचिषे चाथो ते अर्चिषे नमः ।
अन्यांस्ते अस्मत्तपन्तु हेतयः पावको अस्मभ्यं शिवो भव ॥
द्रुषदे वट् , नृषदे वट् , अप्सुषदे वट् , बर्हिषदे वट् , वनर्षदे वट्, स्वर्विदे वट् ॥
अन्नपते अन्नस्य नो देह्यनमीवस्य शुष्मिणः ।
प्रप्र दातारं तारिषा ऊर्जं नो धेहि द्विपदे चतुष्पदे ॥
ये देवा देवानां यज्ञिया यज्ञियानां संवत्सरीयम् उप भागं आसते ।
अहुतादो हविषो यज्ञे अस्मिन्त् स्वयं पिबन्तु मधुनो घृतस्य ॥
ये देवा देवेभ्यो अधि देवत्वमायन् ये ब्रह्मणः पुरएतारो अस्य ।
येभ्यो न ऋते पवते धाम किं चन न ते दिवो न पृथिव्या अधि स्नुषु ॥
प्राणदा अपानदा व्यानदा वर्चोधा वरिवोधाः ।
अन्यांस्ते अस्मत्तपन्तु हेतयः पावको अस्मभ्यं शिवो भव ॥

2.10.2अनुवाकः2
अग्निस्तिग्मेन शोचिषा यासद्विश्वं नि अत्रिणं ।
अग्निर् नो वनते रयिम् ॥
य इमा विश्वा भुवनानि जुह्वद् ऋषिर् होता न्यसीदत् पिता नः ।
स आशिषा द्रविणं इछमानः प्रथमछदवरं आविवेश ॥
किं स्विद्वनं क उ स वृक्ष आसीद्यतो द्यावापृथिवी निष्टतक्षुः ।
मनीषिणो मनसा पृछतेदु तद्यदध्यतिष्ठद् भुवनानि धारयन् ॥
किं स्विदासीदधिष्ठानं आरम्भणं कतमत् स्वित् कथासीत् ।
यतो भूमिं जनयन् विश्वकर्मा वि द्यामौर्णोन्महिना विश्वचक्षाः ।
यो विश्वचक्षुरुत विश्वतोमुखो विश्वतोहस्त उत विश्वतस्पात् ।
सं बाहुभ्यां अधमत् सं पतत्रैर् द्यावाभूमी जनयन् देव एकः ॥
या ते धामानि परमाणि यावमा या मध्यमा विश्वकर्मन्नुतेमा ।
शिक्षा सखिभ्यो हविषा स्वधावः स्वयं यजस्व तन्वं जुषाणः ॥
विश्वकर्मन् हविषा वर्धनेन त्रातारं इन्द्रमकृणोरवध्यम् ।
तस्मै विशः समनमन्त दैवीरयम् उग्रो विहव्यो यथासत् ॥
विश्वकर्मन् हविषा वावृधानः स्वयं यजस्व पृथिवीं उत द्यां ।
मुह्यन्त्वन्ये अभितो जनास इहास्माकं मघवा सूरिरस्तु ॥
वाचस्पतिं विश्वकर्माणं ऊतये मनोयुजं वाजे अद्याहुवेम ।
स नो नेदिष्ठा हवना जुजोष विश्वशंभूरवसे साधुकर्मा ॥

2.10.3 अनुवाकः3
चक्षुक्षः पिता मनसा हि धीरो घृतं एने अजनन् नम्नमाने ।
यदेदन्ता अददृहन्त पूर्वा आदिद् द्यावापृथिवी अप्रथेताम् ॥
विश्वकर्मा विममे यो विहाया धर्ता विधर्ता परमोत संदृक् ।
तेषामिष्टानि समिषा मदन्ति यत्रा सप्तऋषीन् पर एकमाहुः ।
त आयजन्त द्रविणा सं अस्मिन्न् ऋषयः पूर्वे जरितारो न भूना ।
असूर्ता सूर्ते रजसि निषत्ता ये भूतानि समकृण्वन्न् इमानि ॥
यो नः पिता जनिता यो विधर्ता यो नः सतो अभ्या सज्जजान ।
यो देवानां नामधा एक एव तं संप्रश्नं भुवना यन्त्यन्या ॥
परो दिवः पर एना पृथिव्याः परो देवेभ्यो असुरं यदस्ति ।
कं स्विद् गर्भं प्रथमं दध्रा आपो यत्र देवाः समगच्छन्त सर्वे ।
तं इद् गर्भं प्रथमं दध्रा आपो यत्र देवाः समपश्यन्त विश्वे ।
अजस्य नाभा अध्येकमर्पितं यस्मिन् विश्वा भुवनाधि तस्थुः ॥
विश्वकर्मा चेदजनिष्ट देव आदिद् गन्धर्वो अभवद् द्वितीयः ।
तृतीयः पिता जनितौषधीनामपां गर्भं व्यदधुः पुरुत्रा ॥
न तं विदाथ य इमा जजानान्यद् युष्माकमन्तरं बभूव ।
नीहारेण प्रावृता जल्प्या चासुतॄप उक्थशासश्चरन्ति ॥

2.10.4 अनुवाकः4
उदेनं उत्तरं नयाग्ने घृतेनाहुत ।
सं एनं वर्चसा सृज प्रजया च बहुं कृधि ॥
इन्द्रेमं प्रतरं नय सजातानामसद्वशी ॥
रायस्पोषेण संसृज देवेभ्यो भागदा असत् ॥
यस्य कुर्मो गृहे हविस्तमग्ने वर्धया त्वं ।
तस्मै देवा अधिब्रुवन्नयं च ब्रह्मणस्पतिः ॥
आशुः शिशानो वृषभो न युध्मो घनाघनः क्षोभनश्चर्षणीनां ।
संक्रन्दनोऽनिमिष एकवीरः शतं सेना अजयत् साकमिन्द्रः ॥
संक्रन्दनेनानिमिषेण जिष्णुना युत्कारेण दुश्च्यवनेन धृष्णुना ।
तदिन्द्रेण जयत तत्सहध्वं युधो नरा इषुहस्तेन वृष्णा ॥
स इषुहस्तैः स निषङ्गिभिर्वशी संसृष्टासु युत्स्विन्द्रो गणेषु ।
संसृष्ठजित् सोमपा बाहुशर्य्शी ऊर्ध्वधन्वा प्रतिहिताभिरस्ता ॥
बृहस्पते परिदीया रथेन रक्षोहामित्रं अपबाधमानः ।
प्रभञ्जन्त् सेनाः प्रमृणो युधा जयन्नस्माकं एध्यविता रथानां ॥
अभि गोत्राणि सहसा गाहमान आदायो वीरः शतमन्युरिन्द्रः ।
दुश्च्यवनः पृतनाषाडयोध्योऽस्माकं सेना अवतु प्र युत्सु ॥
बलविज्ञायः स्थविरः प्रवीरः सहस्वान् वाजी सहमान उग्रः ।
अभिवीरो अभिसत्वा सहोजिज्जैत्रं इन्द्र रथमातिष्ठ गोवित् ॥
गोत्रभिदं गोविदं वज्रबाहुं जयन्तमज्म प्रमृणन्तम् ओजसा ।
इमं सजाता अनुवीरयध्वं इन्द्रं सखायो अनु संरभध्वं ॥
इन्द्र एषां नेता बृहस्पतिर् दक्षिणा यज्ञः पुर एतु सोमः ।
देवसेनानामभिभञ्जतीनां जयन्तीनां मरुतो यन्तु मध्ये ॥
इन्द्रस्य वृष्णो वरुणस्य राज्ञ आदित्यानां मरुतां शर्ध उग्रम् ।
महामनसां भुवनच्यवानां घोषो देवानां जयताम् उदस्थात् ॥
अस्माकमिन्द्रः समृतेषु ध्वजेष्वस्माकं या इषवस्ता जयन्तु ।
अस्माकं वीरा उत्तरे भवन्त्वस्मान् उ देवा अवता भरेष्वा ॥

2.10.5 अनुवाकः5
उदु त्वा ॥
पञ्च दिशो दैवीर्यज्ञमवन्तु देवीरपामतिं दुर्मतिं बाधमानाः ।
रायश्पोषे यज्ञपतिम् आभजन्ती रायस्पोषे अधि यज्ञो अस्थात् ॥
समिद्धे अग्ना अधि मामहान उक्थपत्रा ईड्यो गृभीतः ।
तप्तं घर्मं परिगृह्यायजन्तोर्जा यद्यज्ञमशमन्त देवाः ॥
दैव्याय धात्रे देष्ट्रे देवश्रीः श्रीमनाः शतपात् ।
परिगृह्य यज्ञमायन् ॥
हरिकेशः सूर्यरश्मिः पुरस्तात् सविता ज्योतिरुदयं अजस्रम् ।
तस्य पूषा प्रसवे याति विद्वान्त्संपश्यन् विश्वा भुवनानि गोपाः ॥
देवा देवेष्वध्वर्यन्तो अस्थुर् वीतं शमित्रा शमितं यजध्यै ।
तुरीयो यज्ञो यत्र हव्यं एति ततो वाका आशिषो नो जुषन्ताम् ॥
इन्द्रं विश्वा अवीवृधन्त्समुद्रव्यचसं गिरः ।
रथीतमं रथीनां वाजानां सत्पतिं पतिम् ॥
विमान एष दिवो मध्य आस्त आपपृवान् रोदसी अन्तरिक्षम् ।
स विश्वाचीरभिचष्टे घृताचीरन्तरा पूर्वमपरं च केतुम् ॥
उक्षा समुद्रे अरुणः सुपर्णः पूर्वस्य योनिं पितुर् आविवेश ।
मध्ये दिवो निहितः पृश्निरश्मा विचक्रमे रजसस्पात्यन्तौ ॥
सुम्नहूर्यज्ञ आ च वक्षद्यक्षदग्निर्देवो देवं आ च वक्षत् ।
देवहूर्यज्ञ आ च वक्षद्यक्षदग्निर्देवो देवं आ च वक्षत् ॥
वाजस्य मा प्रसवेनेति द्वे ॥

2.10.6 अनुवाकः6
क्रमध्वं अग्निना नाकं उख्यं हस्तेषु बिभ्रतः ।
दिवः पृष्ठं स्वर्गत्वा मिश्रा देवेभिराध्वं ॥
प्राचीमनु ॥
अग्ने प्रेहि प्रथमो देवायतां चक्षुर्देवानां उत मर्त्यानां ।
इयक्षमाणा भृगुभिः सह स्वर्यन्तु यजमानाः स्वस्ति ॥
पृथिव्या अहं उदन्तरिक्षमारुहमन्तरिक्षाद्दिवमारुहं ।
दिवो नाकस्य पृष्ठात् स्वर् ज्योतिरगामहं ॥
स्वर्यन्तो नापेक्षन्ता आ द्यां रोहन्ति रोदसी ।
यज्ञं ये विश्वतोधारं सुविद्वांसो वितेनिरे ॥
नक्तोषासा, अग्ने सहस्राक्ष ॥
सुपर्णोऽसि गरुत्मान् पृष्ठे पृथिव्याः सीद ।
भासान्तरिक्षमापृण ज्योतिषा दिवं उत्तभान तेजसा दिशा उद्दृंह ॥
आजुह्वानः सुप्रतीकः पुरस्तादग्ने स्वं योनिमासीद साध्या ।
अस्मिन्त्सधस्थे अध्य् उत्तरस्मिन् विश्वे देवा यजमानश्च सीदत ॥
तां सवितुर्वरेण्यस्य चित्रामाहं वृणे सुमतिं विश्वजन्याम् ।
यामस्य कण्वो अदुहत् प्रपीनां सहस्रधारां पयसा महीं गां ॥
विधेम ते परमे जन्मन्नग्ने विधेम स्तोमैरवरे सधस्थे ।
यस्माद् योनेरुदारिथा यजा तं प्र त्वे समिद्धे जुहुरे हवींषि ॥
प्रेद्धो अग्ने दीदिहि पुरो नोऽजस्रया सूर्म्या यविष्ठ ।
तां शश्वन्ता उपयन्ति वाजाः ॥
अग्ने तमद्य, सप्त ते अग्ने ॥
चितिं जुहोमि मनसा यथा देवा इहागमन् ।
वीतिहोत्रा ऋतावृधः ॥
समुद्रस्य वो वयुनस्य पत्मन् जुहोमि विश्वकर्मणे ।
विश्वाहादाभ्यं हविः ॥
इति मध्यमकाण्डे दशमः प्रपाठकः