मैत्रायणीसंहिता/काण्डं २/प्रपाठकः ०६

विकिस्रोतः तः

राजसूयः

2.6.1 अनुवाकः1
अनुमत्या अष्टाकपालं निर्वपन्ति ये प्रत्यञ्चः शम्यामतिशीयन्ते, तन् नैर्ऋतमेककपालं, उभौ सह शृतौ कुर्वन्ति, नैर्ऋतेन पूर्वेण प्रचरन्ति, दक्षिणा परेत्य स्वकृता इरिण एकोल्मुकं निधाय विस्रंसिकायाः काण्डाभ्यां जुहोति ॥ जुषाणा निर्ऋतिर्वेतु स्वाहा ॥ वासः कृष्णँ भिन्नान्तं दक्षिणा, पुनरेत्यानुमत्या अष्टाकपालेन प्रचरन्ति, धेनुर्दक्षिणा , अथ य उदञ्चः शम्यामतिशीयन्ते तान् उदङ् परेत्य वल्मीकवपाम् उद्रुज्य जुहुयात् ॥ इदमहममुष्यामुष्यायणस्य क्षेत्रियम् अवयजे ॥ तत् पुनरपिदधाति ॥ इदमहममुष्यामुष्यायणस्य क्षेत्रियमपिदधामि ॥ श्वो भूत आदित्येभ्यो भुवद्वद्भ्यो घृते चरु , र्वरो दक्षिणा, श्वो भूत आग्नावैष्णव एकादशकपालो , अनड्वान् वामनो दक्षिणा, श्वो भूतेऽग्नीषोमीया एकादशकपालो , हिरण्यं दक्षिणा, श्वो भूत ऐन्द्राग्न एकादशकपालो , अनड्वान् ऋषभो दक्षिणा, श्वो भूत आग्नेयोऽष्टाकपालो , माहेन्द्रं दधि, वासः क्षौमं दक्षिणा ॥

2.6.2 अनुवाकः2
ऐन्द्राग्नमेकादशकपालं निर्वपेदाग्नेन्द्रं वा, वैश्वदेवश्चरुः, सौम्यः श्यामाकश्चरु , र्द्यावापृथिवीया एककपालो , वत्सः प्रथमजो दक्षिणा, सीरं द्वादशायोगं दक्षिणोष्टारो वानड्वान् ॥

2.6.3 अनुवाकः3
आग्नेयोऽष्टाकपालो , वारुणो यवमयश्चरू , रौद्रो गावीधुकश्चरु , रैन्द्रं दधि, धेनुरनड्वाही दक्षिणा , अपां न्ययनादपामार्गानाहरन्ति, तान्त्सक्तून् कृत्वा दक्षिणा परेत्य स्वकृता इरिण एकोल्मुकं निधाय पर्णमयेन स्रुवेण जुहोति ॥ देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां इन्द्रस्यौजसा रक्षोहासि, स्वाहा, हतं रक्षो , अवधिष्म रक्षः ॥ वरो दक्षिणा ॥ ये देवाः पुरःसदो अग्निनेत्रा रक्षोहणस्ते नोऽवन्तु, ते नः पान्तु, तेभ्यः स्वाहा, ये देवाः दक्षिणात्सदो यमनेत्रा रक्षोहणस्ते नोऽवन्तु, ते नः पान्तु, तेभ्यः स्वाहा, ये देवाः पश्चात्सदो मरुन्नेत्रा रक्षोहणस्ते नोऽवन्तु, ते नः पान्तु, तेभ्यः स्वाहा, ये देवा उत्तरात्सदो मित्रावरुणनेत्रा रक्षोहणस्ते नोऽवन्तु, ते नः पान्तु, तेभ्यः स्वाहा, ये देवा उपरिषदोऽवस्वद्वन्तः सोमनेत्रा रक्षोहणस्ते नोऽवन्तु, ते नः पान्तु, तेभ्यः स्वाहा , इदमहं रक्षोऽभिसमूहामि , अग्ने संदह रक्षः, संदग्धं रक्षो, अग्नये पुरःसदे स्वाहा, यमाय दक्षिणात्सदे स्वाहा, मरुद्भ्यः पश्चात्सद्भ्यः स्वाहा, मित्रावरुणाभ्यां उत्तरात्सद्भ्यां स्वाहा, सोमायोपरिषदेऽवस्वद्वते रक्षोघ्ने स्वाहा, रथः पञ्चवाही दक्षिणा ॥

2.6.4 अनुवाकः4
अनुमत्यै चरू , राकायै चरुः, सिनीवाल्यै चरुः, कुह्वै चरु , र्धात्रे द्वादशकपालः, पष्ठौही दक्षिणा , आग्नावैष्णव एकादशकपालो , ऐन्द्रावैष्णावश्चरु , र्वैष्णवो त्रिकपालो , वामनो दक्षिणा, सौमापौष्ण एकादशकपाल , ऐन्द्रापौष्णश्चरुः, पौष्णश्चरुः, श्यामो दक्षिणा , अग्नये वैश्वानराय द्वादशकपालो , वारुणो यवमयश्चरु , र्हिरण्यं चाश्वश्च दक्षिणा ॥

2.6.5 अनुवाकः5
बार्हस्पत्यश्चरुर्ब्रह्मणो गृहे, शितिपृष्ठो दक्षिणा , ऐन्द्र एकादशकपालो राज्ञो गृहे , ऋषभो दक्षिणा , आदित्यश्चरुर्महिष्या गृहे, धेनुर्दक्षिणा, नैर्ऋतश्चरुर्नखावपूतानां परिवृक्त्या गृहे, श्येनी वण्डापस्फुरा दक्षिणा ,आग्नेयोऽष्टाकपालः सेनान्यो गृहे, हिरण्यं दक्षिणा , आश्विनो द्विकपालः संग्रहीतुर्गृहे, सवत्यौ दक्षिणा, सावित्रोऽष्टाकपालः क्षत्तुर्गृहे, श्येतो दक्षिणा, वारुणो यवमयो दशकपालः सूतस्य गृहे, बभ्रुर्महानिरष्टो दक्षिणा, मारुतः सप्तकपालो वैश्यस्य ग्रामण्यो गृहे, पृश्निः पष्ठौही दक्षिणा, पौष्णश्चरुर्भागदुघस्य गृहे, श्यामो दक्षिणा, वैष्णवस्त्रिकपालस्तक्षरथकारयोर्गृहे, सर्वायसानि दक्षिणा, रौद्रो गावीधुकश्चरुरक्षावापस्य गृहे गोविकर्तस्य च , असिर्वालापितस्थो दक्षिणा शबलो वा त्रिवत्सोऽभिधानी वा केसरपाशा ॥

2.6.6 अनुवाकः6
इन्द्रायांहोमुचा एकादशकपालं निर्वपेत् , इन्द्राय सुत्राम्णा एकादशकपालं, ऋषभो दक्षिणा, स्वयंरुग्णाया अश्वत्थशाखायाः पात्रं भवति , अथ श्वेतां श्वेतवत्सां दुहन्ति, तत् स्वयं मूर्छति, स्वयं मथ्यते, स्वयंविलीनं आज्यं भवति , अथ मैत्राबार्हस्पत्यं हविर् निर्वपन्ति, ये क्षोदिष्ठास्तण्डुलास्तं बार्हस्पत्यं चरुं शृतं कुर्वन्ति, तत्र तत्पात्रं अपिधायाज्यमासिच्य ये स्थविष्ठास्तण्डुलास्तानावपन्ति , उभौ सह शृतौ कुर्वन्ति, मैत्रेण पूर्वेण प्रचरन्ति , अश्वो मैत्रस्य दक्षिणा, शितिपृष्ठो बार्हस्पत्यस्य , अग्नये गृहपतय आपतन्तानामष्टाकपालं निर्वपेत् , सोमाय वनस्पतये श्यामाकं चरुम् , सवित्रे प्रसवित्रे सतीनानामष्टाकपालं , बृहस्पतये वाचस्पतये नैवारं चरुम्, इन्द्राय ज्येष्ठाय हायनानां एकादशकपालं , मित्राय सत्यस्य पतये नाम्बानां चरुम् ,वरुणाय धर्मस्य पतये यवमयं चरुम् , रुद्राय पशुपतये गावीधुकं चरुम् ॥ सविता त्वा प्रसवानां सुवताम् , अग्निर् गार्हपत्यानां , सोमो वनस्पतीनां ,बृहस्पतिर्वाचाम्, इन्द्रो ज्यैष्ठ्यानां , मित्रः सत्यानां , वरुणो धर्मणां , रुद्रः पशूनां , ते देवा असपत्नं इमं सुवध्वं अमुमामुष्यायणं अमुष्याः पुत्रममुष्यां विशि महते क्षत्राय महते जानराज्याय, शुक्रज्योतिश्च चित्रज्योतिश्च सत्यज्योतिश्च ज्योतिष्माँश्च सत्यश्च ऋतपाश्चात्यंहा ऋतजिच्च सत्यजिच्च सेनजिच्च सुषेणश्च अन्तिमित्रश्च दूरे'मित्रश्च गण , ऋतश्च सत्यश्च ध्रुवश्च धरुणश्च धर्ता च विधर्ता च विधारयः ॥

2.6.7 अनुवाकः7
देवीरापो अपां नपात् राष्ट्रदाः स्थ, राष्ट्रं दत्त, स्वाहा, देवीरापो अपां नपात् , राष्ट्रदाः स्थ, राष्ट्रम् अमुष्मै दत्त, वृषोर्मिरसि, वृषसेनोऽसि , अपां पतिरसि , अप्रहावरीः स्थ, परिवाहिणीः स्थ , ओजस्विनीः स्थ, मान्दाः स्थ, व्रजक्षितः स्थ, सूर्यवर्चसः स्थ, सूर्यत्वचसः स्थ, मरुताम् ओजः स्थ, वशाः स्थ, शक्वरीः स्थ, विश्वभृतः स्थ जनभृतोऽपामोषधीनां रसः, श्रविष्ठाः स्थ, राष्ट्रदाः स्थ, राष्ट्रममुष्मै दत्त ॥

2.6.8 अनुवाकः8
देवीरापो मधुमतीः संसृज्यध्वं महि क्षत्रं क्षत्रियाय वन्वानाः ।
अनाधृष्टाः सीदतोर्जस्वतीर्महि वर्चः क्षत्रियाय दधतीः ॥
अपो देवीर्मधुमतीरगृभ्णाम् ऊर्जस्वती राजसूयाश्चितानाः ।
याभिर् मित्रावरुणा अभ्यषिञ्चँस्ताभिरिन्द्रमनयन्नत्यरातीः ।
अनिभृष्टमसि वाचो बन्धुस्तपोजाः सोमस्य दात्रम् ॥
शुक्रा वः शुक्रेण पुनामि चन्द्रा वश्चन्द्रेण पुनामि ॥
देवो वः सविता पुनात्वछिद्रेण पवित्रेण ।
वसोः सूर्यस्य रश्मिभिः ॥
स्वाहा राजसूयाः ॥
सधमादो द्युम्न्या ऊर्जा एका अनाधृष्टा अपस्यो वसानाः ।
पस्त्यासु चक्रे वरुणः सधस्थमपां शिशुर्मातॄतमास्व् अन्तः ॥
रुद्र यत्ते गिरिपरं नाम तस्मिन् हुतमसि, यमेष्टमसि, स्वाहा, सोमा इन्द्रो वरुणो मित्रो अग्निस्ते देवा धर्मधृतो धर्मं धारयन्तु ॥

2.6.9 अनुवाकः9
क्षत्रस्य योनिरसि, क्षत्रस्योल्बमसि, क्षत्रस्य नाभिरसि , आवित्तो अग्निर्गृहपति, रावित्ता इन्द्रो वृद्धश्रवाः , आवित्तौ मित्रावरुणौ धृतव्रतौ , आवित्ते द्यावापृथिवी ऋतावृधा , आवित्तः पूषा विश्ववेदा, आवित्ता देव्यदिति , रावित्तोऽयमसा आमुष्यायणोऽमुष्याः पुत्रोऽमुष्यां विशि महते क्षत्राय महते जानराज्यायै , ष ते जनते राजा, सोमोऽस्माकं ब्राह्मणानां राजा , इन्द्रस्य वज्रोऽसि वार्त्रघ्न, त्वयायं वृत्रं वध्यात् , शत्रुबाधनाः स्थ, पात प्राञ्चं , पात प्रत्यञ्चं , पात तिर्यञ्चं , पातान्वञ्चं , पातोर्ध्वं , दिग्भ्य एनं पात, मित्रोऽसि, वरुणोऽसि ॥
हिरण्यवर्णमुषसो व्युष्टा अयःस्थूणं उदितौ सूर्यस्य ।
आरोहथो वरुण मित्र गर्तं ततश्चक्राथे अदितिं दितिं च ॥

2.6.10 अनुवाकः10
समिधमातिष्ठ, गायत्री त्वा छन्दसामवतु, त्रिवृत् स्तोमो , रथन्तरं साम , अग्निर्देवता, ब्रह्म द्रविणं, उग्रामातिष्ठ, त्रिष्टुप् त्वा छन्दसामवतु, पञ्चदशः स्तोमः , बृहत् साम , इन्द्रो देवता, क्षत्रं द्रविणं , प्राचीमातिष्ठ, जगती त्वा छन्दसामवतु, सप्तदशः स्तोमो , वैरूपं साम, विश्वे देवा देवता, विड् द्रविणं, उदीचीमातिष्ठ , अनुष्टुप् त्वा छन्दसामवतु , एकविंशः स्तोमः , वैराजं साम, मित्रावरुणौ देवता, पुष्टं द्रविणं, ऊर्वां ट आतिष्ठ, पङ्क्तिस्त्वा छन्दसामवतु, त्रिणवत्रयस्त्रिंशौ स्तोमौ, शाक्वररैवते सामनी, बृहस्पतिर् देवता, फलं द्रविणं , सोमस्य त्विषिरसि त्विषिमत् तवेव मे त्विषिर्भूयात् ॥
प्रत्यस्तं नमुचेः शिरो , अवेष्टा दन्दशूकाः । मृत्योः पाहि दिदिवः पाहि ॥

2.6.11 अनुवाकः11
अग्नये स्वाहा, सोमाय स्वाहा, सवित्रे स्वाहा, सरस्वत्यै स्वाहा, पूष्णे स्वाहा, बृहस्पतये स्वाहा , इन्द्राय स्वाहा, घोषाय स्वाहा, श्लोकाय स्वाहा , अंशाय स्वाहा, भगाय स्वाहा, क्षेत्रस्य पतये स्वाहा, सोमस्य त्वा द्युम्नेनाग्नेस्तेजसेन्द्रस्येन्द्रियेण विश्वेषां त्वा देवानां क्रतुनाभिषिञ्चामि , इन्द्रस्य योनिरसि, जनयाति द्यून्पाहि ॥
समाववृत्रन्नधरागुदक् ता अहिं बुध्न्यमन्वीयमानाः ।
ताः पर्वतस्य वृषभस्य पृष्ठान्नावो वियन्ति सुसिचो न वाणीः ॥
इन्द्रस्य वज्रोऽसि वाजसनिः, त्वयायं वाजं सेत् , मित्रावरुणयोस्त्वा प्रशास्त्रोः प्रशिषा युनज्मि, विष्णोः क्रमोऽसि, सपत्नहा मरुतां प्रसवे जय , आप्तं मनः, समिन्द्रियेण , एष वज्रो वाजसातमस्तेन नौ पुत्रो वाजं सेत् ॥

2.6.12 अनुवाकः12
इयदसि , आयुरसि , आयुर्मे धेहि, युङ्ङ् असि, वर्चोऽसि, वर्चो मे धेहि , ऊर्गसि , ऊर्जं मयि धेहि, मित्रोऽसि, वरुणोऽसि, सदसि, समहं विश्वैर्देवै , र्नमो मात्रे पृथिव्यै, मा मां माता पृथिवी हिंसीत् ॥
प्रति त्यन्नाम राज्यमधायि स्वां तन्वं वरुणोऽसुषोत् ।
शुचेर् मित्रस्य व्रत्या अभूमामन्महि महद् ऋतस्य नाम ॥
सर्वे व्राता वरुणस्याभूम नि मित्रयुररतीनतारीत् ।
अशूशुभन्त यज्ञिया ऋतेन नि त्रितो जरिमाणं न आनट् ॥
स्योनासि सुषदा, स्योनामासीद, सुषदामासीद ॥
निषसाद धृतव्रतो वरुणः पस्त्यास्वा ।
साम्राज्याय सुक्रतुः ॥
अग्नये स्वाहा, सोमाय स्वाहा , इन्द्रस्यौजसे स्वाहा, मरुतां बलाय स्वाहा ॥
हंसः शुचिषद्वसुरन्तरिक्षसद्धोता वेदिषदतिथिर् दुरोणसत् ।
नृषद्वरसद् ऋतसद् व्योमसदब्जा गोजा ऋतजा अद्रिजा ऋतं ॥
ब्रह्माँ३स्त्वं ब्रह्मासि, सवितासि सत्यसवो , ब्रह्माँ३स्त्वं ब्रह्मासि, मित्रोऽसि सुशेवो , ब्रह्माँ३स्त्वं ब्रह्मासि , इन्द्रोऽसि सत्यौजा , ब्रह्माँ३स्त्वं ब्रह्मासि, वरुणोऽसि विश्वौजाः ॥
एष वज्रस्तेन मे रध्य, दिशो अभ्यभूदयम् ॥
प्रजापते न त्वदेतान्यन्यो विश्वा जातानि परि ता बभूव ।
यस्मै कं जुहुमस्तन् नो अस्तु ॥
असा अमुष्य पुत्रोऽमुष्यासौ पुत्रः ॥
वयं स्याम पतयो रयीणां ॥

2.6.13 अनुवाकः13
अपां नप्त्रे स्वाहा , ऊर्जो नप्त्रे स्वाहा , अग्नये गृहपतये स्वाहा ॥
सावित्रोऽष्टाकपालः, श्येतो दक्षिणा, सारस्वतश्चरु , र्धेनुर्दक्षिणा, पौष्णश्चरुः, श्यामो दक्षिणा, बार्हस्पत्यश्चरुः, शितिपृष्ठो दक्षिणा , ऐन्द्र एकादशकपाल , ऋषभो दक्षिणा,वारुणो यवमयो दशकपालो , बभ्रुर्महानिरष्टो दक्षिणा, त्वाष्ट्रोऽष्टाकपालो ,अंसेपाच् शुण्ठोऽधिरूढाकर्णो वा दक्षिणा , आग्नेयोऽष्टाकपालो , हिरण्यमष्टापृडं दक्षिणा, सौम्यश्चरु , र्बभ्रुर्दक्षिणा, वैष्णवस्त्रिकपालो , वामनो दक्षिणा , आग्नेयोऽष्टाकपालो , हिरण्यं दक्षिणा, बार्हस्पत्यश्चरुः, शितिपृष्ठो दक्षिणा , ऐन्द्र एकादशकपाल , ऋषभो दक्षिणा, वैश्वदेवश्चरुः, पिशङ्गो दक्षिणा, मैत्रावरुण्यामिक्षा, वशा दक्षिणा , आग्नेयोऽष्टाकपालः, सौम्यश्चरुः, सावित्रो द्वादशकपालो , बार्हस्पत्यश्चरु , रग्नये वैश्वानराय द्वादशकपाल, स्त्वाष्ट्रोऽष्टाकपालो , दक्षिणो रथवाहनवाहो दक्षिणा, सारस्वतश्चरुः, पौष्णश्चरु , र्मैत्रश्चरु , र्वारुणश्चरु , रदित्यै चरुः, क्षेत्रस्य पतये चरुः, सव्यो रथवाहनवाहो दक्षिणा, मारुती पृश्निः, पष्ठौही गर्भिणी आदित्या, जा मल्हा गर्भिणी सवित्रे प्रसवित्रे, सतीनानामष्टाकपालोऽश्विभ्यां , पूष्ण एकादशकपालः, सरस्वत्यै सत्यवाचे चरुर्दण्ड उपानहौ शुष्कदृतिः सा दक्षिणा ॥
इति मध्यमकाण्डे राजसूयो नाम षष्ठः प्रपाठकः।।