पृष्ठम्:महाभास्करीयम्.djvu/७१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति


[महाभास्करीय ५२
भास्करेण परिचिन्य कृतोऽयं
मन्दबुद्धिपरिबोधसमर्थः ।
सम्यगार्यभटकर्मनिबन्धः
स्पष्टवाक्यकरणैः समवेतः ।२६।
स्पष्टार्थानेककरणैः छेद्यके ग्रहणे रवेः ।
यदिहास्ति तदन्यत्र यन्नेहास्ति न तत् क्वचित् ।।२७।

इति महाभास्करीयेऽष्टमोऽध्यायः ।


इति महाभास्करीयं समाप्तम्




१ ततो या C. २ कर्मनिबद्धः A, B. १ स्पष्टानेककरणे C. ॐ छेद्यकेन्द्रगणे A, B.