सामग्री पर जाएँ

पृष्ठम्:वाग्व्यवहारादर्शः.djvu/४७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४३
उद्देश्यविधेयभावः

( बृहस्पतिः )। विषयो विशयश्चैव पूर्वपक्षस्तथोत्तरः । सिद्धान्तश्चेति पञ्चैते शास्त्रेऽधिकरणं स्मृतम् ॥ ओंकारपूर्विकास्तिस्रो महाव्याहृतयोऽव्ययाः । त्रिपदा चैव सावित्री विज्ञेयं ब्रह्मणो मुखम् ॥ (मनु. २।८१)। एको भिक्षुर्यथोक्तस्तु द्वौ भिक्षू मिथुनं स्मृतम् । त्रयो ग्रामः समाख्यात ऊर्ध्वं तु नगरायते ॥ इति दक्षस्मृतौ ( ७।३४ )। सुवर्णपिण्डः खदिराङ्गारसवर्णे कुण्डले भवत इति पस्पशायां भाष्ये । द्वौ द्वौ माघादिमासौ स्यादृतुरित्यमरः । द्वौ द्वौ मासावृतुः स्मृत इति क्षीरस्वामिनोद्धृतं कात्यवचनम् । आचितो दशभाराः स्युरिति चामरः । पक्षसी तु स्मृतौ पक्षाविति पचिवचिभ्यां सुट् चेत्युणादिसूत्रव्याख्यायां दीक्षितोद्धृतः कोषः । भिन्नो भयाद्वा शोकाद्वा ध्वनिः काकुरुदाहृतेति श्रीहर्षचरिते प्रथमोच्छ्वासे शङ्करोद्धृतकोषः । अक्षरेभ्यः संस्कारः संस्कारार्थप्रतिपत्तिरिति सम्भवत्यर्थप्रतिपत्तावक्षराणि निमित्तमिति शाबरभाष्ये (१।१।५)। मिथुनं परिकल्पितं त्वया सहकारः फलिनी च नन्विमाविति रघौ (८।६१)। यत्र द्वे ऋचौ प्रग्रथनेन तिस्रः क्रियन्त इति काशिकायाम् (४।२।५५ )। तत्र पूर्वं द्वे अक्षरे एकमक्षरं क्रियत इति क्षैप्रसंयोगैकाक्षरीभावान् व्यूहेत् इति सूत्रव्याख्यायां वेदार्थदीपिकायां षड्गुरुशिष्यः । साक्षिणः साधनं प्रोक्तं दिव्यं न च लेख्यकमिति मिताक्षरायाम् ( २।२२)। अग्न्यधिष्ठानमग्नस्य ग्रहणाद् ग्रहणी मता । इति चरके ( चिकि० १५।५३ )। खादयश्चेतनाषष्ठा धातवः पुरुषः स्मृतः । इति च ( शारीर० १।१६ )। कार्तिकस्य दिनान्यष्टावष्टावग्रहणस्य च । यमदंष्ट्रा समाख्याता अल्पाहारः स जीवति ॥ इति शार्ङ्गधरसंहितायाम् (१।२।२४)। कोषो दण्डो बलं चैव प्रभुशक्तिः प्रकीर्तिता । इति मिताक्षरायाम् । शब्दाः समानानुपूर्व्या यमकं कीर्तितं पुनः ( विष्णुधर्म० पु० ३।१४।२)। एवमग्रेऽपि श्लोके कतिपयपदान्येव म्लेच्छभाषा भवति न सर्वः श्लोक इति भारतभावदीपे नीलकण्ठः । अतप्ततण्डुला धौताः परिमृष्टा घृतेन च । खण्डयुक्तेन दुग्धेन पाचिताः पायसं भवेत् ॥ इष्टापूर्ते द्विजातीनां सामान्यो धर्म उच्यते ( लि० स्मृ० श्लोक ६ )। यथार्थकथनाचारः सत्यं प्रोक्तं द्विजातिभिरिति ( कूर्म० उत्तरा० ११।१६ )। आहारमकरोद्राजा मूलानि च फलानि चेति ( भा० आदि० २२३।३८ )। ये स्राक्त्यं मणिं जना वर्माणि कृण्वत इति शौनकसंहितायाम् ( ८।५।७ )। ननु यदि पदान्येव संहितानि वाक्यमुच्यत इत्युवटभाष्योपक्रमे । आपो ह श्लेष्म प्रथमं संबभूवेति ( आप० श्रौ० ६|४|१४।७ )।

 अत्र दुष्करं व्यवस्थापयितुम् । एवं हि प्रतिभाति प्राय उद्देश्यविधेययोः प्राधान्याप्राधान्यविवक्षाया व्यवस्थितिर्नास्ति । तत्र खलु कामचारः प्रयोक्तॄणाम्।