सामग्री पर जाएँ

पृष्ठम्:वाग्व्यवहारादर्शः.djvu/४८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४४
वाग्व्यवहारादर्शः

यत्रोद्देश्यस्य प्राधान्यं विवक्षन्ति वाग्विदस्तत्र तस्य कर्तृकर्मत्वे भवतोऽन्यत्र विधेयस्य । वाक्ये विधेयस्य प्राधान्यं तावन्न्यायप्राप्तम् । यत्किञ्चिदुद्दिश्य यत्किमपि विधातुमेव तत्प्रणीतेः । वाक्यार्थः क्रियेति सा प्रधानं वाक्ये तदङ्गभूतं चान्यदपि तत्समकक्षमेव । तथापि न ह्युपपत्तिमान्सर्वः प्रयोगप्रकारः, रुचिवशश्चापि कश्चिद् भवति । उद्देश्यस्य प्राधान्यं प्रायेण रोचयन्ते शिष्टा इति किं कुर्मः । यदि तर्कयामहे यत्र हि विधेयं संज्ञा भवति (संज्ञि वा ), यथाऽन्नं प्रजापतिश्चोक्तः, त्रिंशत्कला मुहूर्तः स्याद् इत्यादिषु, यत्र वाऽजहल्लिङ्गानि पदानि विधेयानि भवन्ति, यथा मिथुनं परिकल्पितं त्वयेत्यादिषु, तत्र विधेयस्य प्राधान्यं विवक्षन्ति तदनुरोधाच्च कर्तृकर्मत्वेन तत्प्रतीच्छन्तीति तदपि न व्यवतिष्ठते, तत्राप्युभयथा प्रयोगा दृश्यन्ते । भारः स्याद् विंशतिस्तुला इत्युद्देश्यस्य कर्तृत्वेऽमरप्रयोगः । आचितो दश भाराः स्युरिति च तस्यैव विधेयस्य कर्तृत्वे । प्राची बालविडाललोचनरुचां जाता च पात्रं ककुप् इत्यत्र बालरामायणे, हारः स एव प्राभृतमत्रजात इत्यत्र विद्धशालभञ्जिकायां चाजहल्लिङ्गपदोपात्ते विधेयेऽप्युद्देश्यस्य कर्तृत्वम् । तथापीदं व्यवसितं भाति पात्रप्रमाणभाजनस्थानास्पदादिषु विधेयेषूद्देश्यस्यैव कर्तृतेति । तेन वेदाः प्रमाणं सन्तीत्येव साधु, न तु वेदाः प्रमाणमस्तीति । एवं पात्रादिष्वपि बोध्यम् । इदं चाभासते क्वचित्क्रियापदस्य सान्निध्यमप्युद्देश्यविधेययोः कर्तृत्वकर्मत्वयोर्व्यवस्थापकं भवति । यथा ‘एवमग्रेऽपि श्लोके कतिपयपदान्येव म्लेच्छभाषा भवति न सर्वः श्लोक' इति नीलकण्ठप्रयोगे म्लेच्छभाषेति विधेयं तिङन्तस्य संनिहितमिति तस्य कर्तृत्वम् । उद्देश्यं हि विधेयेन व्यवायात् ततो विप्रकृष्टमिति न तस्य तत् । यदि च विपर्ययेणोद्देश्यं तिङन्तादव्यवहितपूर्वं स्यात् तदा तस्यैव कर्तृत्वमभिमतं स्याद् वाक्यं चैवंविन्यासं स्यात्-- म्लेच्छभाषा कतिपय-पदान्येव भवन्तीत्यादि । एवमपि संभवत्यर्थप्रतिपत्तावक्षराणि निमित्तम् इति शाबरभाष्ये संभवतीत्येकवचनं विरुध्येत । एतच्च दृढतरं प्रतिभाति यत्र विधेयं विकृतिवाचकं कृभ्वस्तीनां च प्रयोगः, च्वेश्चाप्रयोगस्तत्र विधेयस्यैव प्राधान्यविवक्षया कर्तृत्वकर्मत्वे व्यवस्थिते । अत्र सुवर्णपिण्डः खदिराङ्गारसवर्णे कुण्डले भवत इति भाष्यमेव लिङ्गम् । तत्र नागेशोक्तिरप्यस्मदुक्तस्योपस्तम्भिका-खदिराङ्गारसवर्णे कुण्डले भवत इति प्रयोगादच्व्यन्ते विकृतेः कर्तृत्वं बोध्यमिति । तथा चैतरेयब्राह्मणे 'तादृशे विषये विकृतेः कर्तृता दृश्यते-- तेषां ( देवानां ) या एव घोरतमास्तन्व आसंस्ता


१. विकारो जन्मनः कर्ता प्रकृतिर्वेति संशये । भिद्यते प्रतिपत्तॄणां दर्शनं लिङ्गदर्शनैः ॥ कलृपि सम्पद्यमाने या चतुर्थी सा विकारतः । सुवर्णपिण्डे प्रकृतौ वचनं कण्डलाश्रयम् ॥ ( वाक्य० ३।७।११४-१५ )।