सामग्री पर जाएँ

पृष्ठम्:वाग्व्यवहारादर्शः.djvu/४२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३८
वाग्व्यवहारादर्शः

९०।७०) । इतश्चतुर्दशं वर्षयन्नापश्यं युधिष्ठिरम् इति च ( उद्योग० ९०।४७)। संवत्सरः किञ्चिदूनो न निष्क्रान्ताहमाश्रमात् (भा० वन० २९६।२६) । केचिदुक्तेर्थे ऽद्य त्रीणि वासराणि वर्षतो देवस्येति संस्कृतं साधु पश्यन्ति । तन्न । अत्रानुकृतौ कालः प्रधानं क्रिया चोपसर्जनम् । वर्षणं हि कृत्प्रत्ययेन शत्रा कालसम्बन्धितयोक्तमिति व्यक्तमप्रधानम् । मूलहिन्दीवाक्येतु विपर्ययेणार्थोपन्यास इति मूलच्छाययोर्बिम्बप्रतिबिम्बभावो नास्ति ।

 इदं चापरमेतज्जातीयकं विवेच्यम् । ( आज से ) छः मास पूर्व एक भीषण भूकम्प आया, महमूद ने भारतवर्ष पर सहस्र वर्ष पूर्व आक्रमण किया, तथा दो सप्ताह पूर्व मुसलाधार वृष्टि हुई–-इत्यमीषां वाक्यानां किंरूपेणाञ्जसेन संस्कृतेन भवितव्यमिति । केचिदिमानीत्थं परिवर्तयन्ति संस्कृतेन--इतः षण्मासान्पूर्वं बलवद्भूरकम्पत, इतो वर्षसहस्रपूर्वं महमूदो भारतभुवमाचक्राम, इतः सप्ताहद्वयं पूर्वं धारासारैरवर्षद् देव इति । अपरे इतः षड्भ्यो मासेभ्यः पूर्वं बलवद्भूरकम्पत, इतो वर्षसहस्रात्पूर्वं महमूदो भारतभुवमाचक्राम, इतः सुप्ताहद्वयात्पूर्वं धारासारैरवर्षद् देव इति । इतरे च षण्मासा अतीता यदा बलवद्भूरकम्पत, वर्षसहस्रमतिक्रान्तं यदा महमूदो भारतभुवमाचक्राम, सप्ताहद्वयं गतं यदा धारासारैरवर्षद् देव इत्येवमुक्तमर्थमनुवदन्ति । सर्वोऽयं प्रकारो दुष्ट इति नाभिनन्दनीयो विदुषामिति सङ्ग्रहेणोपपादयामः । प्रकारत्रितये प्रथम: प्रकारस्त्वापाततोप्यरम्यः सुतराञ्च जघन्यः । इह षण्मासान् इत्यादिषु यथा द्वितीयाऽनन्वयिनी तथां प्रथमापि । द्वितीया ह्यत्यन्तसंयोगे विहिता । अत्यन्तसंयोगश्चात्र नेष्टः । तेन कुतोत्र द्वितीया सूपपादा स्यात् । सर्वथाऽनन्वितं पदकदम्बकमिहोपन्यस्तमिति वाक्यमपि न भवति । मूलानुकारिता तु दूरोत्सारिता । द्वितीयस्मिन्प्रकारे इतः षण्मासात् ( षड्भ्यो मासेभ्यः ) पूर्वमित्यादि सर्वथा संस्कारवत्तथापि विवक्षितमर्थं नार्पयतीति नैषाऽनुकृतिरनवद्या भवति । इदमत्रावद्यम् । मूले समयस्यैकोऽवधिरभिप्रेतः, संस्कृतच्छायायां त्ववधिद्वयं व्यक्तमुदितं भवति । द्विःपञ्चमीप्रयोगात् । यश्च क्रियाविशेषाभिव्याप्तः कालोऽत्यगान्नासौ परिच्छिन्नः । अत्र वाक्येषु त्विदमादिरर्थः प्रतीतिं याति । भूकम्पादिव्यतिकरो नामाऽयं मासषट्कादिकालात्यये नाभूदिति । ततः पूर्वं कदाऽभूदिति न सुज्ञानमस्ति । वक्तुश्च नैषां विवक्षेत्ययमपि प्रकारो हेयः । तृतीयस्मिन्प्रकारेपि दोषं विभावयामः । अत्र पूर्वत्र वाक्ये कालात्ययो निर्दिष्टः ।


१. अयमादिरस्य इति इदमादिः । आदिशब्दः प्रकारे । २. इममेव प्रकारमसाम्प्रतं साम्प्रतिका आ कन्यान्तरीपादा च काश्मीरेभ्यो वर्तमाना विपश्चितो जुषन्ते न च प्रत्यवायमीक्षन्त इति विस्मयसमीचीनो नः खेदः ।