सामग्री पर जाएँ

पृष्ठम्:वाग्व्यवहारादर्शः.djvu/४३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३९
प्रकारद्वयस्य विषयप्रविवेकः

स किमवधिकः किंक्रियापेक्ष इति च नोक्तम् । यत्तदोर्नित्यसम्बन्धात्तदेत्यध्याहार्यं भवति । उत्तरत्र च क्रियोक्ता स्वातन्त्र्येण, न तु पूर्ववाक्यगतकालावधित्वेन । तेनोभयोर्वाक्यार्थयोरवध्यवधिमद्भावो नावगतो भवति । स च मूलवाक्येऽभिसन्धित्सितो वक्त्रेति दूरं सान्तरे छाया च मूलं चेति न दुरवधारं सुधीभिः ।

 तेनापहाय दुष्टमेतत्प्रकारत्रितयं निर्दुष्टमिदं प्रकारद्वयं परिगृह्णन्तु सन्तः । (१) अद्य षण्मासा भुवः कम्पितायाः । अद्य वर्षसहस्रं महमूदस्य भारतभुवमाक्रान्तवतः । अद्य सप्ताहद्वयं धारासारैर्वृष्टस्य देवस्य । (२) इतः षट्सु मासेषु ( षष्ठे मासे ) बलवद्भूरकम्पत । इतो वर्षसहस्रे (सहस्रतमे वर्षे ) महमूदो भारतभुवमाचक्राम । इतः सप्ताहद्वये ( चतुर्दशेऽहनि ) धारासारैरवर्षद् देव इति । अत्र प्रथमे प्रकारे षण्मासाः, वर्षसहस्रम्, सप्ताहद्वयमित्यतीतं कालं परिच्छिन्दन्ति । तत्र च सर्वत्रातीताः सन्तीत्यादेः क्रियाया गम्यमानायाः कर्तृतया प्रथमान्तानीमानि निर्दिष्टानि । भुव इत्यादौ षष्ठी शैषिकी । अयं च प्रकारः समा द्वादश तस्येह वेदानभ्यस्यतो मुनेः इति भारते ( सभा० ) प्रयोगेण समर्थनां लभते । द्वितीयस्मिन्प्रकारे इत इति पञ्चम्यर्थे तसिप्रत्ययान्तम् । पञ्चमी च यतश्चाध्वकालनिर्माणं तत्र पञ्चमीति वार्तिकेन कालमाने विहिता । ‘षट्सु मासेषु’ इत्यादिषु ‘षष्ठे मास’ इत्यादिषु च सप्तमी तु कालात्सप्तमीति वचनानुसारिणी । इतः स्थानेऽद्येत्यपि प्रयुज्यते । तत्र चायमस्मादह्न इत्यर्थमाचष्टेऽधिकरणवृत्तिरपि । तथा च कवेः प्रयोगः-- अद्य प्रभृत्यवनताङ्गि तवास्मि दास इति । अयं च द्वितीयः प्रकारो भारतेनानुगृह्यते शाबरभाष्येण च । पितृलोकं गतः पाण्डुरितः सप्तदशेऽहनि ( आदि० १२६।२९) । प्रतीयते हि गाव्यादिभ्यः सास्नादिमानर्थः । तस्मादितो वर्षशतेप्यस्यार्थस्य सम्बन्ध आसीदेव । ततः परेण ततश्च परतरेणेत्यनादिता इति शाबरभाष्ये । श्रीरामायणेप्यस्य व्यवहारस्यानुग्राहकं वचो दृश्यते—-मन्त्रं कृत्वा प्रसुप्तोऽयमितत्तु नवमेऽहनीति (६।६०।१७ )।

प्रकारद्वयस्य विषयप्रविवेकः

 इदं चात्र सम्प्रधार्यम् । किमेतौ प्रकारौ स्वच्छन्दतो यत्र तत्र शक्यावास्थातुमुत यथायथं प्रतिनियतविषयाविति । बाढं प्रतिनियतविषयाविति ब्रूमः । प्रथमः प्रकारस्तु क्वचिदेव सङ्गतः स्यात् । तत्र हि कालविशेषस्यातिक्रान्तस्य विशेषणीभूता क्रिया कृत्प्रत्ययान्तेन षष्ठ्यन्तेनोच्यत इति कालापेक्षया प्रव्यक्ता तस्या गौणता । तस्माद्यत्रैवंविधः क्रियाकालयोर्गुणप्रधानभावोऽभिप्रेयते तत्रैवैष प्रकार औपयिको नेतरत्र । यत्र तु क्रिया प्राधान्येन विवक्ष्यते तिङा चोच्यते तत्र कालनिर्देशः सप्तम्यैव युक्त इति द्वितीय एव प्रकारस्तत्र युक्तरूप इति पश्यामः ।