समानार्थकं स्यात् स्यात्तत्र चतुर्थीप्रक्लृप्तिः | न च परिवेषयतीत्यस्याभ्यवहारयतीत्यर्थो यद् भोजनमिति कर्मणि द्वितीया साध्वी स्यात् । तत् किं नाम परिवेषणं भवति ? व्याप्तिः। भोजना त्वार्थिकी । परिपूर्वो विष्लृधातुः स्वार्थमजहदेव भोजनामाह । सा किल व्याप्तिर्भोजनार्था भवतीति परिवेषणं भोजनेत्युपचारः । केन चात्र व्यप्तिरभिप्रेयते। अन्नेन भोजनेन वा । यो नाम भोजयितुमिष्टः स परिविष्यते । तेन ब्राह्मणान्भोजनेन परिवेविष्टे (परिवेषयति ) इत्येव शिष्टजुष्टः प्रकारः । प्रकारान्तरं तु दुरुपपादमव्यवहृतपूर्वं चेति परिहेयम् । प्रकृते प्रकारे भारतं प्रमाणम्। तथा च ब्राह्मणान्परिवेष्टुमिच्छामीतिं ( आदिपर्वणि ३।९७ ) । पूर्णे शतसाहस्रे विप्राणां परिविष्यताम् (=परिविष्यमाणानाम् ) इति च (सभा० ४९।३१) प्रयोगः । सूत्राणि खल्वपीमं व्यवहारं प्रमाणयन्ति । एवं ह्यग्निवेशसूत्रे (१।१)स्मर्यते--आपूर्यमाणपक्षे पुष्ये नक्षत्रे विशेषेण पुंनामधेये युग्मान्ब्राह्मणानन्नेन परिविष्येत्यादि । असकृदावृत्तश्चैष ब्राह्मणानित्यादिः पाठः सूत्र इत्यस्य यादृच्छिकत्वं वारयति, अपपाठकल्पनां च व्यपोहति । ब्राह्मणानन्नेन परिवेषयेद् इति भारद्वाजगृह्यसूत्रे (१।६॥) चापि । यद्वा अतिथिपतिरतिथीन्परिविष्येति च शौनकसंहितायाम् (९।६।५३ ) ।
इदमपरविधं विमृश्यम् । 'तीन दिन से मेह बरस रहा है' अस्य वाक्यस्य किमात्मकं संस्कृतमिष्यते । (अद्य) त्रीणि वासराणि वर्षति देव इत्येवास्य संस्कृतं शिष्टजुष्टं विभावयामः। अत्रार्थे पञ्च वर्षाण्यहं वीरं सत्यसन्धं धनञ्जयम् । यन्न पश्यामि बीभत्सुं तेन तप्ये वृकोदर ॥ इति भारते (वन० १४१।७)। इयन्ति वर्षाणि तया सहोग्रमभ्यस्यतीव व्रतमासिधारम् (१३।७६) इति रघुवंशे । दश वर्षाणि सततमयं नः शास्ति भार्गवः (४।५।१२) इति देवीभागवते । भयाद्यस्य महाबाहो न शेते बहुलाः समा इति च भारते (द्रोण० १३१।६॥)। स विगाढरसो विलासिनां परिहासः स्मरणीयतां गतः। पुरिं नः परमेधतेऽधुना गणरात्रं परिदेवितध्वनिः ॥ इति चाभिनन्दकृते रामचरिते (३३।२० )। अत्र गणरात्रमित्यत्यन्तसंयोगे द्वितीया । इत्यादिषु रचनासंवादात् । अद्य कतिपयान्यहानि नैवागच्छति,अद्य बहूनि दिनानि नावर्तते इति च उभयाभिसारिकायां धूर्त्तविटसंवादे च सन्निवेशसादृश्याच्च । प्रकृते वासराणीत्यत्र द्वितीयाऽत्यन्तसंयोगे । कालो ह्यत्र वर्तमानकालिक्या क्रियया साकल्येनाभिव्याप्त इति तदुपपत्तिः। नायमर्थो विभक्त्यन्तरेण शक्यो वक्तुमिति न तिरोहितं सताम् । वाक्यभेदेन त्वयमर्थः प्रकान्तरेणापि शक्यो वक्तुम्--अद्य (इदम्, इत इति वा ) तृतीयं वासरं यद्वर्षति देवः । अत्रार्थे प्रमाणमप्युपस्तम्भकमस्ति । चतुर्दशमिदं वर्षं यन्नापश्यमरिन्दम इति भारते ( उद्योग०
१. यमोऽपरिवेषणे इति गणसूत्र व्याख्यायां परिवेषण भोजनेति दीक्षितः । स आर्थिकोऽर्थ इति वेद्यम् ।