पृष्ठम्:वाग्व्यवहारादर्शः.djvu/४०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३६
वाग्व्यवहारादर्शः

द्वादश समा व्याप्येरन्, अव्याप्तेश्च कथं नाम वर्षशब्दादत्यन्तसंयोगे विहिता द्वितीयोपपत्तिमती स्यात् । एवमन्यत्रापि भारते—-आत्मनो हि वयं दोषाद् विनष्टाः शाश्वतीः समाः ( शां० ७।३२ ) इत्यत्र नाशलक्षणायाः क्रियायाः क्षणिकत्वेपि तद्विशिष्टाया अवस्थाया अभिधानादस्तिं तया शाश्वतीनां समानामभिव्याप्तिरित्यत्यन्त संयोगे द्वितीया सूपपन्ना भवति । एवमादिविषये चतुर्थी प्रयुञ्जानो बाढं भवत्यप शब्दभागिति शश्वत्स्मार्यम् । इहोदाहरणेषु कथंचिद्द्वितीयानिर्वाहेपीमासु दिक्ष्व न्त्यसंयोगस्यात्यन्तमसत्वाद्द्वितीयाप्रयुक्तिः सर्वथा दुःसमाधानेति व्यवहारमात्रं तत्र शरणम्—ते प्रवृतिं पृच्छन्ति ममेमां व्युषितां (=व्युष्टा) निशाम् (भा० उद्योग० १९४।२) । इमां व्युषितां निशाम् इत्यद्य प्रभातकाल इत्याह । इमां तु रजनीं प्राप्तामप्रभातां सुदुर्मते । निहत्य पितरं (भा० द्रोण० १६०।३६)॥ यावदियं रजनी प्रभाता भवति ततः प्रागित्यर्थः। अनतीतामिमां रात्रिं यदि त्वां वीरमा निनम् । न हन्यां नरके घोरे पतेयं वृष्णिपांसन ( द्रोण० १५६।७-८) । अस्या वर्तमानाया रात्रेरत्ययादर्वागित्यर्थः । यदीमां रजनीं व्युष्टां न हि हन्मि परान्रणे ( शल्य० ३०।२१) यावदियं रजनी व्युच्छति तावत् । श्वोभूत इत्यर्थः ।

 अयमपि सप्तमीप्रयोगः परीक्ष्यः परीक्षकैः—एताभ्यां रंस्यसे सार्धं वस वै मयि बाहुकेति भारते ( वन० ६७|७ ) नाब्राह्मणे गुरौ शिष्यो वासमात्यन्तिकं चरेदिति मनौ (२-२४२)। याच्ञा मोघा वरमधिगुणे नाधमे लब्धकामेतिं मेघे । अस्ति मे त्वयि प्रार्थनेति चान्यत्र भारते । अत्र सर्वत्र सामीपिकेधिकरणे सप्तमी बोध्या । सप्तम्यैव च शिष्टा एतमर्थमभिदधति । तदेषां शीलम् । नव्यास्तु यदि पथि विपथे वा वर्तयामः स पन्था इत्यभिमन्यमाना मत्पार्श्वे वस, गुरोः सन्निधौ वसति, अस्ति मे त्वत्तः प्रार्थनेत्येवं विवक्षितमर्थमर्पयन्ति । यद्यपि पार्श्वादिप्रयोगे कश्चिद्दोषो न, गुणोपि सुतरां न । अधिकपदत्वं तु भवति, स रुचिविषयः शारदा नामेव न विशारदानाम् ।

 अयमपि तृतीयाव्यवहारोऽनुचिन्त्यताम्-निमन्त्रयामास तदा फलमूला शनादिभिः ( भारते वन० २७८।३३ )। भरतं केकयीपुत्रमातिथ्येन न्यमन्त्रयत् ( रा० २।९१।१ )। स्थानिनो देवाः स्थानैरुपनिमन्त्र्यन्ते भो इहास्यताम् इह रम्यतामिति (योगभा० ३।५१) । लक्ष्म्या निमन्त्रयाञ्चक्रे तमनुच्छिष्टसम्पदा ( रघौ १२।१५ )। अत्र सर्वत्र तादर्थ्ये सत्यपि हेतुतृतीयां प्रयुञ्जते शिष्टा न चतुर्थीम् । तेन भोजनेन निमन्त्रयते विप्रमिति वक्तव्यं न तु भोजनायेति ।

 इदं चेह मीमांस्यं किं शक्यं नाम ब्राह्मणेभ्यो ब्राह्मणान्वा भोजनं परिवेविष्टे परिवेषयति वेति वक्तुम् । नेत्याह । यद्यत्र परिवेषणं समर्पणं निवेदनं वेत्यनेन