३१।२) । अत्राद्यशब्दविनाभावेऽपि निरुक्तस्य पदक्रमस्यानुसारः प्रव्यक्तः। अन्यत्रापि भारतेऽयमेव क्रमोऽनुसृतो भवति ।अष्टादश दिनान्यथ युद्धस्यास्य जनार्दन । वर्तमानस्य ॥ (शल्य७ २४।१७ ) । चत्वारिंशदहान्यद्य द्वे च मे निःसृतस्य वै ॥ .( शल्य० ३४।६ )। अत्र पद्यरचनावशादद्यशब्दस्य वाक्यादौ न्यासो न । एतद्वाक्यगतोऽपि पदक्रमो नियतप्राय इत्यवश्यमुररीकरणीयम् । अयमेव च क्रमोऽपरपञ्चालेषु (पञ्चापदेशे ) लोकभाषायामित्यस्य न्याय्यत्वे दृढं लिङ्गम् । अत्र हि संस्कृतं सर्वप्रथमं चिरतरं च प्रचचार । अत्रैव पाणिन्यादयो मुनयो जनिं लेभिरे । इदमेव च सारस्वतं धाम पूर्वे प्रपेदिरे वाच्यभिविनयस्य कामुकाः । तथा च कौषीतकिन आमनन्ति तस्मादुदीच्यां दिशि प्रज्ञाततरा वागुद्यते । उदञ्च उ एव यन्ति वाचं शिक्षितुं यो वा तत आगच्छति तस्य वा शुश्रूषन्त इति ( कौ० ७।६ ) । तस्मादिहत्या वाक्छैली प्रकृतं क्रमं चेदुपोद्बलयति नूनं बद्धभूमिरयं भवति ।
यद्यपि ’यस्य येनास्ति सम्बन्धो दूरस्थेनापि तस्य सः’, इति व्यवहितविप्रकृष्टोऽपि सोऽवगम्यते, तथापि नेह निरवग्रहं प्रभवन्ति वक्तारो बक्तुम् । लोको हि वारयति । इच्छति च क्रमं कञ्चित् । अत एवाक्रमताऽस्थानस्थपदता संकीर्णता चेति दोष त्रितयं वाक्यगतं निर्दिशन्त्यालङ्कारिकाः । अक्रमता -यथा-कला च सा कान्तिमती कलावत्तस्त्वमस्य लोकस्य च नेत्रकौमुदी ( कुमार० ) । अत्र त्वमित्यस्यानन्तरं चकारो युक्तः । अस्थानस्थपदता यथा—हिंतान्न यः संश्रुणुते स किंप्रभुः ( किरात० ) । अत्र संशृणुत इत्यतः पूर्वे नञः स्थितिरुचिता । संकीर्णता यथा–चन्द्रं मुञ्च कुरङ्गाक्षि मानं पश्य नभोऽङ्गने । अत्र नभोऽङ्गने चन्द्रं पश्य मानं मुञ्चेति क्रमो युक्तः।
वाक्ये षष्ठयन्तं विशेषणं विशेषणांन्तरेणाव्यवहितं विशेष्यात्पूर्वे प्रयुज्यत इति शिष्टव्यवहारः । सर्वगुणसम्पन्नंस्तस्य सुतः कस्य स्पृहां न जनयति । एकातपत्रं जगतः प्रभुत्वमिति कालिदासश्च । न ह्यत्र ‘जगत एकातपत्त्रं प्रभुत्वमित्येवं क्रमः शक्यो विपर्यासयितुम् । न ब्रूमो वृत्तभङ्गभयादिति। किन्तर्हि व्यवहारातिक्रमादिति। एवं हि' व्युत्क्रमेणोच्यमाने व्यवहारोऽतिक्रान्तो भवतीति । एवं सर्वैर्योषितां गुणै. रलंकृतेत्यनुक्त्वा योषितां सर्वैर्गुणैरलंकृतैति न युज्यते वक्तुंम् । किं च भवति यद्युच्येत । वैरस्यमुद्वेगो वा । स नेष्यते। अयमेवेष्टः पदक्रम इत्यत्र समासक्रमोऽपि ज्ञापकः । स्याद्भाण्डमश्वाभरणेऽमग्रे मूलवणिग्धने इति नानार्थवर्गेऽमरः । तत्र वणिजो धनं वणिग्धनमिति पूर्वं षष्ठीसमासः । ततः किंलक्षणं तदित्याकाङ्क्षायां मूलं च तद्वणिग्धनं चेति मूलवणिग्धनमिति विशेषणसमासः । अन्यत्रापि स एव ‘कक्ष्या प्रकोष्ठे हर्म्यादेः काञ्च्यां मध्येभबन्धने’ इति पठति । तत्रापि पूर्वम्