सामग्री पर जाएँ

पृष्ठम्:वाग्व्यवहारादर्शः.djvu/११

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
वाक्ये पदक्रमः

इभस्य बन्धनमिभबन्धनमिति षष्ठीसमासः, ततस्तन्मध्यशब्देन विशिष्यते । एवं मालविकाग्निमित्रे सर्वान्तःपुरचनिताव्यापारप्रतिनिवृत्तहृदयस्येति प्रयोगेऽपि पूर्वमन्तःपुरवनितानां व्यापारं इति षष्ठीसमासः, ततः सर्वशब्देन कर्मधारयः। रघुकाव्येऽपि प्रौढप्रियानयनविंभ्रमचेष्टितानीति समासोऽप्येवंक्रमस्याभिव्यञ्जकः ।

 बहुव्रीहौ समासेऽपि पदानां क्रमो वाक्यगतस्य क्रमविशेषस्य समर्थकः । वृतः श्रिया भास्वरसर्वदेहः ( रा० ३ सर्वशब्दस्य विशेष्यादव्यवहितपूर्वं निपातः, ततो विशेषणान्तरस्य भास्वरस्य चारुणश्च । सर्वोपसर्जनो बहुत्रीहिरिति यस्य कस्यैकतरस्य पूर्वनिपातो न्याय्यो भाति, न चैवं भवति । लोको नानुजानाति । वाक्येनाभिधाने प्राप्त एव समास आरभ्यत इति वाक्यगतः पदक्रम एव समास आश्रीयते, तस्यैव न्याय्यत्वात् । तेन वाक्येऽपि भास्वरः सर्वो देहोऽस्येति क्रमः । चारूणि सर्वाण्यङ्गान्यस्या इति च । तस्माद्वाक्ये सर्वादिभिः सर्वनामभिर्विशेष्यादव्यवहितपूर्वे निपतितव्यं विशेषणान्तरैश्च गुणवचनैस्ततो व्यवहितैरिति क्रमनैयत्यं भाति । एवं परमः स्वो धर्मोऽस्येति परमस्वधर्मे इति समासान्तेषु दीक्षितवचोऽपि वाक्येऽमुमेव क्रममनुमापयतीति दिक् ।

 पूर्ववाक्यगतेन यच्छब्देन सम्बध्यमान उत्तरवाक्यगतस्तच्छब्दस्तु प्रथमं प्रयुज्यते नाम, ततश्च समानाधिकरणं विशेषणान्तरम् , तद्यथा-प्रकृतिप्रत्ययार्थयोः षष्ठ्यर्थमात्रं तत्सम्बन्धिमात्रं च विवक्षितं यदपरं लिङ्गसंख्याप्रत्यक्षपरोक्षादिकं तत्सर्वमविवक्षितम् इति तस्येदम् इति सूत्रे काशिका । एवं च युजविद (३।२।६१सूत्रे) इत्यकारान्तस्योपादानाद्गणे येऽकारान्ता विदधातवो विद ज्ञाने विद विचारणे विद सत्तायामिति ते सर्वे गृह्यन्त इति लुग्विकरणपरिभाषाव्याख्यायां सीरदेवः ।

 अव्ययेषु तुपुनःखल्वादयो वाक्यादौ निषिद्धाः । तं तु देशं न पश्यामि यत्र भ्राता सहोदर (रा) इति साध्वी पदानुपूर्वी । ये पुनरधर्मेणैधते जनो न धर्मेणेति मते स्थितास्ते भ्रान्ताः । न खलु न खलु बाणः संनिपात्योऽग्रमस्मिन् । विनीतवेषेण प्रवेष्टव्यानि तपोवनानि नाम । जघान कंसं किल वासुदेवः । अर्हति किल कितव उपद्रवम् । इमानि बक्यानि त्वादयो नारभन्त इति साधूनि भवन्ति । अत्र ‘न पादादौ खल्वादयः’ इति काव्यालङ्कारसूत्रमप्यनुकूलम् । न भवति । गुणानुरागः खलानां केवलं प्रसिद्धिशरणानाम् । किल प्रस्नौति शशिमणिश्चन्द्रे न प्रियामुखे दृष्टे । इत्यत्रार्यायां किलेति पदमादौ प्रयुक्तम् । तच्चिन्यम् । जातुंशब्दोऽपि वाक्यादौ न प्रयुज्यते प्रायेण-न जातु कामः कामानामुपभोगेन शाम्यति ( मनु० )। क्वचित्त्वादावपि शक्यमिदं प्रयोक्तुमित्यत्र . न जात्वपूर्वम्