सामग्री पर जाएँ

अथर्ववेदः/काण्डं २०/सूक्तम् ०११

विकिस्रोतः तः
← सूक्तं २०.०१० अथर्ववेदः - काण्डं २०
सूक्तं २०.०११
विश्वामित्रः।
सूक्तं २०.०१२ →
दे. इन्द्रः। त्रिष्टुप्

[]इन्द्रः पूर्भिदातिरद्दासमर्कैर्विदद्वसुर्दयमानो वि शत्रून् ।
ब्रह्मजूतस्तन्वा वावृधानो भूरिदात्र आपृणद्रोदसी उभे ॥१॥
मखस्य ते तविषस्य प्र जूतिमियर्मि वाचममृताय भूषन् ।
इन्द्र क्षितीनामसि मानुषीणां विशां दैवीनामुत पूर्वयावा ॥२॥
इन्द्रो वृत्रमवृणोच्छर्धनीतिः प्र मायिनाममिनाद्वर्पणीतिः ।
अहन् व्यंसमुशधग्वनेष्वाविर्धेना अकृणोद्राम्याणाम् ॥३॥
इन्द्रः स्वर्षा जनयन्न् अहानि जिगायोशिग्भिः पृतना अभिष्टिः ।
प्रारोचयन् मनवे []केतुमह्नामविन्दज्ज्योतिर्बृहते रणाय ॥४॥
इन्द्रस्तुजो बर्हणा आ विवेश नृवद्दधानो नर्या पुरूणि ।
अचेतयद्धिय इमा जरित्रे प्रेमं वर्णमतिरच्छुक्रमासाम् ॥५॥
महो महानि पनयन्त्यस्येन्द्रस्य कर्म सुकृता पुरूणि ।
वृजनेन वृजिनान्त्सं पिपेष मायाभिर्दस्यूंरभिभूत्योजाः ॥६॥
युधेन्द्रो मह्ना वरिवश्चकार देवेभ्यः सत्पतिश्चर्षणिप्राः ।
विवस्वतः सदने अस्य तानि विप्रा उक्थेभिः कवयो गृणन्ति ॥७॥
सत्रासाहं वरेण्यं सहोदां ससवांसं स्वरपश्च देवीः ।
ससान यः पृथिवीं द्यामुतेमामिन्द्रं मदन्त्यनु धीरणासः ॥८॥
ससानात्यामुत सूर्यं ससानेन्द्रः ससान पुरुभोजसं गाम् ।
हिरण्ययमुत भोगं ससान हत्वी दस्यून् प्रार्यं वर्णमावत्॥९॥
इन्द्र ओषधीरसनोदहानि वनस्पतींरसनोदन्तरिक्षम् ।
बिभेद बलं नुनुदे विवाचोऽथाभवद्दमिताभिक्रतूनाम् ॥१०॥
शुनं हुवेम मघवानमिन्द्रमस्मिन् भरे नृतमं वाजसातौ ।
शृण्वन्तमुग्रमूतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम् ॥११॥

  1. तु. ऋग्वेदः ३.३४
  2. केतु उपरि टिप्पणी, आरुणकेतुक उपरि टिप्पणी। बृहद्दैवज्ञरञ्जने ३२.६ कथनमस्ति यत् केतुग्रहस्य पूर्णरूपः मीनावतारः अस्ति - केतोर्मीनावतारश्च ये चान्ये तेपि खेटजाः । पुराणेषु मत्स्यावतारस्य एकं वैशिष्ट्यं जलप्रलयतः मनोः रक्षणमस्ति।