अथर्ववेदः/काण्डं ६/सूक्तम् ०१५
दिखावट
← सूक्तं ६.०१४ | अथर्ववेदः - काण्डं ६ सूक्तं ६.०१५ ऋषिः - उद्दालकः |
सूक्तं ६.०१६ → |
दे. वनस्पतिः। |
उत्तमो अस्योषधीनां तव वृक्षा उपस्तयः ।
उपस्तिरस्तु सोऽस्माकं यो अस्मामभिदासति ॥१॥
सबन्धुश्चासबन्धुश्च यो अस्मामभिदासति ।
तेषां सा वृक्षाणामिवाहं भूयासमुत्तमः ॥२॥
यथा सोम ओषधीनामुत्तमो हविषां कृतः ।
तलाशा वृक्षाणामिवाहं भूयासमुत्तमः ॥३॥