हरिवंशपुराणम्/पर्व ३ (भविष्यपर्व)/अध्यायः १०२

विकिस्रोतः तः
← अध्यायः १०१ हरिवंशपुराणम्/पर्व ३ (भविष्यपर्व)
अध्यायः १०२
[[लेखकः :|]]
अध्यायः १०३ →
एकलव्यस्य द्वीपान्तरगमनं, भगवता श्रीकृष्णेन यादवानां स्वयात्रायाः संक्षिप्त वृत्तान्तकथनं, अन्तःपुरे रुक्मिणीं सत्यभामां च मिलित्वा ताभ्यां संतोषप्रदानम्

द्व्यधिकशततमोऽध्यायः

वैशम्पायन उवाच
निषादेशं ततो रामः शक्त्या वीर्यवतां वरः ।
आजघान स्तनद्वन्द्वे सिंहनादं व्यनीनदत् ।। १ ।।
ततः क्रुद्धो निषादेशो रामं मत्तं महाबलम् ।
गदया लोकविख्यातो जघान स्तनवक्षसि ।। २ ।।
आहतः स तु तेनाशु बलभद्रो महाबलः ।
उभाभ्यां चैव रामस्तु कराभ्यां वृष्णिपुङ्गवः ।। ३ ।।
गदां गृह्य महाघोरामायान्तीं प्राणहारिणीम् ।
दुद्रावाथ निषादेशः समुद्रं मकरालयम् ।। ४ ।।
धावत्येवं तदा राज्ञि एकलव्ये निषादपे ।
धावत्येवं च रामोऽपि यत्र यातो निषादपः ।। ५ ।।
सागरं स प्रविश्याशु गत्वा योजनपञ्चकम् ।
भीत एव तदा राजन्नेकलव्यो निषादपः ।। ६ ।।
कंचिद् द्वीपान्तरं राजन् प्रविश्य न्यवसत् तदा ।
इत्थं रामो निषादेशं जिगाय यदुनन्दनः ।। ७ ।।
तां सभां मणिरत्नाढ्यां प्रविवेश हलायुधः ।
सात्यकिर्युद्धसंसक्तस्तां सभां प्रविवेश ह ।। ८ ।।
अन्ये च यादवा राजन् यथायोगमुपस्थिताः ।
आसीनेषु च सर्वेषु वृष्णिवीरेषु सर्वतः ।। ९ ।।
अभिवाद्य यथायोगं वृष्णीन् सर्वांश्च केशवः ।
उवाच वचनं काले भगवान् देवकीसुतः ।। 3.102.१० ।।
दृष्टं कैलासशिखरं शंकरो नीललोहितः ।
स तु मह्यं यदुवराः प्रीतिमांश्च ददौ वरम् ।। ११ ।।
तत्र देवाः समायाता मुनयश्च तपोधनाः ।
दृष्ट्वा मां शंकरश्चैव प्रीतः स्तुत्वा समाययौ ।। १२ ।।
अत्यद्भुतं मया दृष्टं रात्रौ यादवसत्तमाः ।
पिशाचौ द्वौ महाघोरौ वदन्तौ मामिकां कथाम् ।। १३ ।।
मृगयां चक्रतुस्तौ तु चिन्तयन्तौ तु मां सदा ।
दृष्ट्वा मां तौ तु राजेन्द्राः प्रीतिमन्तौ तपस्विनौ ।। १४ ।।
भक्तिनम्रौ महात्मानौ प्रणामं चक्रतुस्तदा ।
ततोऽहं सर्वथा प्रीतस्तौ नीतौ स्वर्गमुत्तमम् ।। १५ ।।
तोषयित्वा महादेवं मया चाद्य समागतम् ।
वैशम्पायन उवाच
ततस्ते वृष्णयः सर्वे देवदेवं शशंसिरे ।। १६
सर्वथा कृतकृत्यास्ते वृष्षयः केशवाश्रयाः ।
यादवाः सर्व एवैते स्वं स्वं जग्मुर्यथालयम् ।। १७ ।।
अभ्यन्तरे जगन्नाथः प्रविश्य हरिरीश्वरः ।
रुक्मिणीसत्यभामाभ्यामाचचक्षे यथाभवत् ।। १८ ।।
ते प्रीते प्रीतियुक्तेन केशवेन समन्विते ।
एतत् ते सर्वमाख्यातं केशवस्य विचेष्टितम् ।। १९ ।।
शशास पृथिवीं कृत्स्नां दुष्टान् हत्वा महाबलान् ।
नरकं घोरकर्माणं पौण्ड्रकं नृपसत्तमम् ।। 3.102.२० ।।
हयग्रीवं निशुम्भं च तथा सुन्दोपसुन्दकौ
ररक्ष विप्रान् देवेशो मुनीन् मुनिवरार्चितः ।। २१ ।।
विप्रेभ्यश्च ददौ वित्तं गाश्च दत्त्वा स केशवः ।
अग्निहोत्रं प्रयुञ्जानो ब्राह्मणांश्च सुतपर्यन् ।। २२ ।।
मुनींश्च ब्रह्मचर्येण देवान् यज्ञैरनेकधा ।
स्वधया च पितॄन् सर्वान् प्रीणयन्नेव सर्वदा ।। २३ ।।
तस्मिञ्छासति देवेशे राज्यं निष्कण्टकं प्रभो ।
सुखमेव प्रजाः सर्वा जीवन्ति ब्राह्मणादयः ।।२४ ।।
इति श्रोमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि कैलासयात्रायां पौण्ड्रकवधसमाप्तौ द्व्यधिकशततमोऽध्यायः ।। १०२ ।।