हरिवंशपुराणम्/पर्व ३ (भविष्यपर्व)/अध्यायः १०३

विकिस्रोतः तः
← अध्यायः १०२ हरिवंशपुराणम्/पर्व ३ (भविष्यपर्व)
अध्यायः १०३
[[लेखकः :|]]
अध्यायः १०४ →
हंसडिम्भकाभ्यां विषये जनमेजयस्य प्रश्नम्

त्र्यधिकशततमोऽध्यायः

जनमेजय उवाच
भूय एव द्विजश्रेष्ठ शङ्खचक्रगदाभृतः ।
चरितं श्रोतुमिच्छामि विस्तरेण तपोधन ।। १ ।।
न हि मे तृप्तिरस्तीह शृण्वतः कैशवीं कथाम् ।
को नु नाम हरेर्विष्णोर्देवदेवस्य चक्रिणः ।। २ ।।
शृण्वंस्तथा रमन् वापि तृप्तिं याति दिवानिशम् ।
पुरुषार्थोऽयमेवैको यत्कथाश्रवणं हरेः ।। ३ ।।
कथमासीज्जगद्धेतोर्हंसस्य डिम्भकस्य च ।
समितिः सर्वभूतानां सदा विस्मयदायिनी ।। ४ ।।
विचक्रस्य कथं युद्धं दानवस्य महात्मनः ।
स तयोर्मित्रतां यात इत्येवमनुशुश्रुम ।। ५ ।।
तौ सुतौ वीर्यसम्पन्नौ शिष्यौ भृगुसुतस्य ह ।
सर्वास्त्रकुशलौ वीरौ हराल्लब्धवरौ किल ।। ६ ।।
संग्रामः सुमहानासीदित्युक्तं भवता पुरा ।
तयोश्च नृपयोर्विप्र केशवस्य जगत्पतेः ।। ७ ।।
कस्य पुत्रौ समुत्पन्नौ यथाभूद् विग्रहो महान् ।
अष्टाशीतिसहस्राणि दानवानां तरस्विनाम् ।। ८ ।।
बलान्यथ विचक्रस्य शितशूलधराणि च ।
आसन् युद्धे महाराज दानवस्य जयैषिणः ।। ९ ।।
यदूनामन्तरं प्रेप्सुर्यदूनां युद्धकाङ्क्षया ।
देवासुरे महायुद्धे देवाञ्जयति दुर्धरः ।
तद्वधार्थं सदा यत्नमकरोच्चैव केशवः ।। 3.103.१० ।।
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि हंसडिम्भकोपाख्याने जनमेजयवाक्ये त्र्यधिकशततमोऽध्यायः ।।१ ०३।।