हरिवंशपुराणम्/पर्व ३ (भविष्यपर्व)/अध्यायः ०८४

विकिस्रोतः तः
← अध्यायः ०८३ हरिवंशपुराणम्/पर्व ३ (भविष्यपर्व)
अध्यायः ०८४
[[लेखकः :|]]
अध्यायः ०८५ →
श्रीकृष्णस्य कैलासं प्रापयित्वा तत्र द्वादशवर्षेभ्यः कठोरतपश्चरणम्

चतुरशीतितमोऽध्यायः

वैशम्पायन उवाच
ततः स भगवान्विष्णुर्मुनिभ्यस्तत्त्वमादितः ।
कथयामास यद् वृत्तं पिशाचस्य महात्मनः ।। १ ।।
तच्छ्रुत्वा मुनयः सर्वे विस्मयं परमं गताः ।
अहोऽस्य कर्मणः पाकस्तव संदर्शनात्तत ।। २ ।।
अर्चितो मुनिभिः सर्वैः प्रीतः प्रीतिमतां प्रियः ।
ततः प्रभाते विमले सूर्ये चाभ्युदिते सति ।। ३ ।।
आरुह्य गरुडं विष्णुर्ययौ कैलासमुत्तमम् ।
भवद्भिस्तत्र गन्तव्यमित्युक्त्वा मुनिसत्तमान्।। ४ ।।
यत्र विश्वेश्वराः सिद्धास्तपस्यन्ति यतव्रताः ।
यत्र वैश्रवणः साक्षादुपास्ते शंकरं सदा ।। ५ ।।
यश्च तन्मानसं नाम सरो हंसालयं महत् ।
यत्र भृङ्गीरिटिर्देवमुपास्ते शंकरं शिवम् ।। ६ ।।
गाणपत्यमवाप्याथ हरपार्श्वचरः सदा ।
यत्र सिंहा वराहाश्च द्विपद्वीपिमृगैः सह ।। ७ ।।
क्रीडन्ति वन्यरतयः परस्परहिते रताः ।
यत्र नद्यः समुत्पन्ना गङ्गाद्याः सागरंगमाः ।। ८ ।।
यत्र विश्वेश्वरः शम्भुरच्छिनद् ब्रह्मणः शिरः ।
यत्रोत्पन्ना महावेत्रा भूतानां दण्डतां ययुः ।। ९ ।।
उमया यत्र सहितः शंकरो नीललोहितः ।
ऋषिभिः प्रार्थितः पूर्वं ददौ यत्र गिरिः सुताम् ।। 3.84.१० ।।
शंकराय जगद्धात्रे शिवाय जगतीपते ।
यत्र लेभे हरिश्चक्रमुपास्य बहुभिर्दिनैः ।। ११ ।
पुष्करैः शतपत्रैश्च नेत्रेण च जगत्पतिम् ।
गुहां यत्र समाश्रित्य क्रीडन्ते सिद्धकिन्नराः ।। १२ ।
प्रियाभिः सह मोदन्ते पिबन्ते मधु चोत्तमम् ।
यमुद्धृत्य भुजैः सर्वैः पौलस्त्यो विरराम ह ।। १३ ।
तमारुह्य महाशैलं देवकीनन्दनो हरिः ।
मानसस्योत्तरं तीरं जगाम यदुनन्दनः ।। १४ ।
तपश्चर्तुं किल हरिर्विष्णुः सर्वेश्वरः शिवः ।
जटी चीरी जगन्नाथो मानुषं वपुरास्थितः ।। १५ ।।
तपसे धृतचित्तस्तु शुचौ भूमावुपाविशत् ।
अवरुह्य ततो यानाद् गरुडाद्वेदसम्मितात् ।। १६ ।।
द्वादशाब्दं तपश्चर्तुं मनो दध्रे ततो हरिः ।
फाल्गुनेन तु मासेन समारेभे जगत्पतिः ।। १७ ।।
शाकभक्षः कृतजपो वेदाध्ययनतत्परः ।
किमुद्दिश्य जगन्ताथस्तपश्चरति मानवः ।। १८ ।।
तं न विद्मो यथाकामं दुर्ज्ञेयेश्वरचिन्तना ।
तपस्यति तदा विष्णौ पर्वते भूतसेविते ।। १९ ।।
गरुडः कश्यपसुत इन्धनानि समाचिनोत् ।
होमार्थं वासुदेवस्य चरतस्तप उत्तमम् ।। 3.84.२० ।।
चक्रराजोऽथ पुष्पाणि संचिनोति तदा हरेः ।
दिक्षु सर्वासु सर्वत्र ररक्ष जलजस्तदा ।। २१ ।।
खड्ग आहृत्य यत्नेन कुशान् सुबहुशस्तदा ।
गदा कौमोदकी चैव परिचर्या चकार ह ।। २२ ।।
धनुःप्रवरमत्युग्रं शार्ङ्ग दानवभीषणम् ।
स्थितं हि पुरतस्तस्य यथेष्टं भृत्यवत् स्वयम् ।।२३।।
जुहोति भगवान् विष्णुरेधोभिर्बहुभिः सदा ।
आज्यादिभिस्तदा हव्यैरग्निं सम्पूज्य माधवः ।।२४।।
सप्तार्चिषः समाप्तिं च समस्तव्यस्ततः कृती ।
एकस्मिन्नेकदा मासे भुञ्जानो नियतात्मवान् ।।२५।
द्वितीये त्वथ पर्याये भुञ्जन्नेकेन केशवः ।
एकस्मिन् वत्सरे भुञ्जंस्तथैवैकेन केनचित् ।।२६।।
समाप्य तत् तपः सर्वमेवमेव जगत्पतिः ।
द्वादशाब्दे तथा पूर्णे ऊनमासे जगत्पतिः ।।२७।।
जुह्वन्नग्निं समास्थाय पठन् मन्त्रं जनार्दनः ।
आरण्यकं पठन् विष्णुः साक्षात् सर्वेश्वरो हरिः ।
आस्ते ध्यानपरस्तत्र पठन् प्रणवमुत्तमम् ।।२८।।
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि कैलासयात्रायां
कृष्णतपोवर्णने चतुरशीतितमोऽध्यायः ।। ८४ ।।