हरिवंशपुराणम्/पर्व ३ (भविष्यपर्व)/अध्यायः ०८३

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ०८२ हरिवंशपुराणम्/पर्व ३ (भविष्यपर्व)
अध्यायः ०८३
[[लेखकः :|]]
अध्यायः ०८४ →
घण्टाकर्णेन भगवन्तं श्रीकृष्णं उपहारसमर्पणं, भगवता तं वरप्रदानं, मृतस्य ब्राह्मणस्य जीवनदानम्

त्र्यशीतितमोऽध्यायः

वैशम्पायन उवाच
विहस्य विकृतं भूयः प्रनृत्य च यथाबलम् ।
ब्राह्मणस्य हतस्याथ शवमादाय सत्वरः ।। १ ।।
द्विधाकृत्य महाघोरं पिशितं केशशाड्वलम् ।
ततः खण्डं समादाय अद्भिरभ्युक्ष्य यत्नतः ।। २ ।।
विधाय पात्रे सुशुभे नमस्कृत्य जनार्दनम् ।
इदं प्रोवाच देवेशं प्राञ्जलिः प्रणतः स्थितः ।। ३ ।।
गृहाण मे जगन्नाथ भक्ष्यं योग्यं तव प्रभो ।
भवादृशैर्जगन्नाथ ग्राह्यं सर्वात्मना हरे ।। ४ ।।
भक्तिनम्रा वयं विष्णो नात्र कार्या विचारणा ।
दत्तं यद् भक्तिनम्रेण ग्राह्यं तत् स्वामिना हरे ।। ५ ।।
नवं सुसंस्कृतं भक्ष्यं ब्रह्मण्यं शवमुत्तमम् ।
अस्माकं पिशिताशानां शास्त्रे नियतमेव हि ।। ६ ।।
तस्माद् गृहाण भगवन् यदि दोषो न विद्यते ।
इत्युक्त्वा विकृतं भूयो विहस्य स तु कामतः ।। ७ ।।
दातुमैच्छत् तदा खण्डमस्पृश्यं तु शवस्य ह ।
ततः प्रीतोऽभवत् तस्मै मनसा पूजयच्च तम्।। ८ ।।
अहोऽस्य स्नेहकारुण्यं मयि सर्वत्र वर्तते ।
इति संचिन्त्य मनसा प्रोवाच यदुपुङ्गवः ।। ९ ।।
अलमेतेन सर्वत्र पिशाच पिशिताशन ।
अस्पृश्य मादृशैरेतद् ब्राह्मण्यं शवमुत्तमम् ।। 3.83.१० ।।
ब्राह्मणः सर्वथा पूज्यो जन्तुभिर्धर्मकाङ्क्षिभिः ।
पिशाचा घोरकर्माणो यतन्ते ब्रह्महिंसने ।। ११ ।।
न हन्तव्याः सदा विप्रास्तद्धिंसा नरकावहा ।
तस्मादस्पृश्यमस्माभिर्नात्र कार्या विचारणा ।। १२ ।।
भक्त्या प्रीतोऽस्मि भद्रं ते मनो निर्मलमेतया ।
मनःशुद्ध्यै कृतो यत्नस्ततः प्रीतोऽस्मि मांसप।। १३ ।।
अस्मत्संकीर्तनाच्छश्वच्छुद्धं हि करणं तव ।
अतीव मनसा प्रीत इत्युक्त्वा भगवान्हरिः ।। १४ ।।
पस्पर्शाङ्गं तदा विष्णुः पिशाचस्याथ सर्वतः ।
करेण मृदुना देवः पापान्निर्मोचयद्धरिः ।। १५ ।।
ततस्तस्याभवद् रूपं कामरूपसमप्रभम् ।
दीर्घकुञ्चितकेशाढ्यो दीर्घबाहुः सुलोचनः ।। १६ ।।
समाङ्गुलिः समनखः समवक्त्रः समुन्नसः ।
पद्माक्षः पद्मवर्णाभः पद्मकेशरभूषणः ।। १७ ।।
केयूरी चाङ्गदी चैव कौशेयवसनस्तदा ।
ज्ञानवान्सत्त्वसम्पन्नः साक्षादिन्द्र इवापरः ।। १८ ।।
गन्धर्व इव गायंस्तु सिद्धः सिद्ध इव स्वयम् ।
साक्षात्स्पृष्टं तदा विष्णोः करेण मृदुपूर्वकम्।। १९ ।।
न नूनं तादृशं रूपमासीत् कालान्तरेष्वपि ।
अद्यापि नैव मुनयो लभन्ते तादृशं वपुः ।। 3.83.२० ।।
कृत्वा सुबहुशो घोरं तपः परमदारुणम् ।
यच्च लब्धं तदा तेन पिशाचेन नृपोत्तम ।। २१ ।।
को नु नाम जगन्नाथमाश्रितः सीदते नृप ।
स हि सर्वत्र कल्याणो यो हि नित्यं जनार्दनम्।। २२ ।।
ध्यायन् पठञ्जपन्वापि तस्य किं नास्ति भूपते ।
ततः प्रोवाच भगवान् स्थितं काममिवापरम् ।। २३ ।।
अक्षयः स्वर्गवासस्ते यावदिन्द्रो वसिष्यति ।
तावत् स्वर्गी भवानस्तु शासनान्मम नान्यतः ।। २४ ।।
नष्टे शक्रे ततः स्वर्गात्सायुज्यं मम गच्छतु ।
योऽयं भ्राता तव स्वर्गी यावदिन्द्रो भवेत्तदा।। २५ ।।
वरं वरय भद्रं ते यस्ते मनसि वर्तते ।
दातास्मि सर्वं सर्वत्र नात्र कार्या विचारणा ।।२६ ।।
घण्टाकर्ण उवाच
यश्चेमं संगमं देव संस्मरेन्नियतात्मवान् ।
भक्तिस्तस्याचला देव त्वयि भूयाज्जनार्दन ।। २७ ।।
मनःशुद्धिर्भवेत्तस्य मा भूत् कलुषता हरे ।
कालुष्यं मनसस्तस्य मा भूदेष वरो मम ।। २८ ।।
एवमस्त्विति देवेशः स्वर्गं गच्छेति केशवः ।
इन्द्रातिथिर्भवानस्तु त्वां प्रतीक्ष्य हरिः स्थितः।। २९ ।।
इत्युक्त्वा भगवान् कृष्ण उत्थाप्य ब्राह्मणं तदा ।
तेन स्तुतो जगन्नाथः पूजयित्वा च तं द्विजम्।। 3.83.३० ।।
ततो विसृज्य गोविन्दस्तस्माद् देशादुपागमत् ।
यत्र ते मुनयः सिद्धा अग्निहोत्रसमन्विताः ।। ३१ ।।
स च स्वर्गी गतः स्वर्गमाज्ञया केशवस्य ह ।
तस्मात्पठ सदा राजन्मनःशुद्धिं यदीच्छसि।
मनश्च शुद्धं भवति पठतस्ते जगत्पते ।। ३२ ।।
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि घण्टाकर्णमुक्तिप्रदाने त्र्यशीतितमोऽध्यायः ।। ८३ ।।