हरिवंशपुराणम्/पर्व ३ (भविष्यपर्व)/अध्यायः ०८०
← अध्यायः ०७९ | हरिवंशपुराणम्/पर्व ३ (भविष्यपर्व) अध्यायः ०८० [[लेखकः :|]] |
अध्यायः ०८१ → |
घण्टाकर्णेन भगवतः श्रीकृष्णेन च अन्योन्यं परिचयदानं, घण्टाकर्णेन भगवतः विष्णोः स्तवनं समाधिलाभं च। |
अशीतितमोऽध्यायः
वैशम्पायन उवाच
ततः स भगवान् विष्णुः पिशाचौ मांसभक्षकौ ।
ददर्शाथ महाघोरौ दीपिकाधारिणौ हरिः ।। १ ।।
विलोकयांचक्रतुस्तौ पिशाचौ देवकीसुतम् ।
स्थितं सुखासने विष्णुं दृष्ट्वा लोकेश्वरेश्वरम् ।। २ ।।
तौ च गत्वा समुद्देशं पिशाचौ केशवस्य ह ।
ततस्तावूचतुर्विष्णुमन्तरीकृत्य केशवम् ।। ३ ।।
कौ भवान् कस्य वा मर्त्य कुतश्चागम्यते त्वया ।
किमर्थमिह सम्प्राप्तो वने घोरे मृगाकुले ।। ४ ।।
निर्मनुष्ये द्वीपिवृते पिशाचगणसेविते ।
श्वापदैः सेव्यमाने च विपिने व्याघ्रसंकुले ।। ५ ।।
सुकुमारोऽनवद्याङ्गः साक्षाद् विष्णुरिवापरः ।
पद्मपत्रेक्षणः श्यामः पद्माभः श्रीपतिः स्वयम् ।। ६ ।।
अस्मत्प्रीतिकरः साक्षात् प्राप्तो विष्णुरिवापरः ।
देवो वा यदि वा यक्षो गन्धर्वः किन्नरोऽपि वा ।। ७ ।।
इन्द्रो वा धनदो वापि यमोऽथ वरुणोऽपि वा ।
एकाकी विपिने घोरे ध्यानार्पितमना इव ।। ८ ।।
ब्रूहि मर्त्य यथातत्त्वं ज्ञातुमिच्छामि मानद ।
एवं पृष्टः पिशाचाभ्यामाह विष्णुरुरुक्रमः ।। ९ ।।
क्षत्रियोऽस्मीति मामाहुर्मानुष्याः प्रकृतिस्थिताः ।
यदुवंशे समुत्पन्नः क्षात्रं वृत्तमनुष्ठितः ।। 3.80.१० ।।
लोकानामथ पातास्मि शास्ता दुष्टस्य सर्वदा ।
कैलासं गन्तुकामोऽस्मि द्रष्टुं देवमुमापतिम् ।। ११ ।।
इत्येवं मम वृत्तान्तः कथ्यतां कौ युवामिति ।
युवामिह समायातौ किमर्थं ब्राह्मणाश्रमम् ।। १२ ।।
एषा हि महती पुण्या नानाविप्रनिषेविता ।
बदरीयं समाख्याता न क्षुद्रैराश्रिता क्वचित् ।। १३ ।।
तपस्विभिस्तपोयुक्तैर्जुष्टा सिद्धनिषेविता ।
श्वगणा नात्र दृश्यन्ते पिशाचा मांसभोजनाः ।। १४ ।।
न हन्तव्या मृगाश्चात्र मृगया नात्र वर्तते ।
न तु क्षुद्रैः प्रवेष्टव्या न कृतघ्नैर्न नास्तिकैः ।। १५ ।।
अहमस्य तु देशस्य रक्षिता नात्र संशयः ।
व्यतिक्रमो यदि भवेत्तस्य शास्तास्मि यत्नतः ।। १६ ।।
कौ भवन्तौ क्व नु युवां कस्येयं महती चमूः ।
नातः परं प्रवेष्टव्यमृषयस्त्वत्र संस्थिताः ।। १७ ।।
विघ्नस्तत्र प्रवर्तेत तपःसु च तपस्विनाम् ।
इहैव स्थीयतां तावद् वक्तव्यं च ततः सुखम् ।। १८ ।।
अन्यथाहं निषेद्धा स्यां बलाद्वाक्यैस्तथैव च ।
वैशम्पायन उवाच
एवं पृष्टौ पिशाचौ तु वक्तुमेवोपचक्रतुः ।। १९ ।।
तयोरेको महाघोरः पिशाचो दीर्घबाहुकः ।
उवाच वचनं तत्र यथा हृदि समर्पितम् ।। 3.80.२० ।।
पिशाच उवाच
श्रूयतामभिधास्यामि समातितमना भव ।
नमस्कृत्य जगन्नाथं हरिं कृष्णं जगत्पतिम् ।। २१ ।।
आदिदेवमजं विष्णुं वरेण्यमनघं शुचिम् ।
वक्ष्यामि सकलं यद्वत्तथा शृणु यदीच्छसि ।। २२ ।।
घण्टाकर्णोऽस्मि नाम्नाहं पिशाचो घोरदर्शनः ।
मांसादो विकृतो घोरः साक्षान्मृत्युरिवापरः ।। २३ ।।
धनदस्यानुगन्ताहं साक्षाद् रुद्रसखस्य च ।
ममायमनुजः साक्षादन्तकस्यान्तको ह्ययम् ।। २४ ।।
मृगयेयं सुमहती विष्णोः पूजार्थमित्युत ।
ममेयं वर्तते सेना श्वगणोऽपि ममैव तु ।। २५ ।।
आगतोऽहं महाशैलात् कैलासाद् भूतसेवितात्।
अहं पिशाचवेषेण संविष्टः पापकर्मकृत् ।। २६ ।।
सततं दूषयन् विष्णुं घण्टामाबध्य कर्णयोः ।
मम न प्रविशेन्नाम विष्णोरिति विचिन्तयन् ।। २७ ।।
अहं कैलासनिलयमासाद्य वृषभध्वजम् ।
आराध्य तं महादेवमस्तुवं सततं शिवम् ।। २८ ।।
ततः प्रसन्नो मामाह वृणीष्वेति वरं हरः ।
ततो मुक्तिर्मया तत्र प्रार्थिता देवसंनिधौ ।। २९ ।।
मुक्तिं प्रार्थयमानं मां पुनराह त्रिलोचनः ।
मुक्तिप्रदाता सर्वेषां विष्णुरेव न संशयः ।। 3.80.३० ।।
तस्माद् गत्वा च बदरीं तत्राराध्य जनार्दनम् ।
मुक्तिं प्राप्नुहि गोविन्दान्नरनारायणाश्रमे ।। ३१ ।।
इत्युक्तो देवदेवेन शूलिना ज्ञातवानहम् ।
तमेव परमं मत्वा गोविन्दं गरुडध्वजम् ।। ३२ ।।
तस्मात् प्रार्थयमानः सन्मुक्तिं देशममुं गतः ।
अन्यच्च शृणु मे कार्यं यदि कौतूहलं तव ।। ३३ ।।
पुरी द्वारवती नाम पश्चिमस्योदधेस्तटे ।
यदुवृष्णिसमाकीर्णां सागरोर्मिसमाकुलाम् ।। ३४ ।।
अध्यास्ते स हरिर्विष्णुस्तां पुरीं पुरुषोत्तमः ।
द्रष्टुं लोकहितार्थाय वसन्तं द्वारकापुरे ।। ३५ ।।
निर्गतः साम्प्रतं मर्त्यं वयमेतैः सहानुगैः ।
विष्णुः सर्वेश्वरः साक्षाद्द्रष्टव्योऽस्माभिरद्यवै ।। ३६ ।।
लोकानां प्रभवः पाता कर्ता हर्ता जगत्पतिः ।
आदिः स हि समस्तस्य प्रभवः कारणं हरिः ।। ३७ ।।
कर्ता समस्तस्य हरिः पुरातनः प्रभुः प्रभूणामपि यः सदात्मकः ।
तमादिदेवं वरदं वरेण्यं द्रष्टुं हरिं सम्प्रति संयताः स्मः ।। ३८ ।।
यस्य प्रसादाज्जगदेवमासीत् सप्राणिगन्धर्वमद्वोरगौघम् ।
देवं जगद्योनिमजं जनार्दनं द्रष्टुं हरिं सम्प्रति संयताः स्मः ।। ३९ ।।
यस्योदराद् विश्वमिदं प्रभूतं लयं च तस्मिन् समुपैति कल्पे ।
तस्यैव साक्षाद् वशवर्ति विश्वं द्रक्ष्याम देवं पुरुषोत्तमं हरिम् ।। 3.80.४० ।।
स्रष्टा च योऽसौ सकलस्य देवः पाता च हर्ता च हरिः स एव ।
द्रक्ष्याम नित्यं भुवनेश्वरं हरिं पुराणमाद्यं प्रभविष्णुमव्ययम् ।। ४१
अजस्य कर्ता भुवनस्य गोप्ता भुवश्च कर्ता हरिरेक एव ।
तं योगिनो योगविशुद्धबुद्धिं लभेम तेनैव मतिः समाकुला ।। ४२ ।।
निगीर्य विश्वं सकलं जगत्पतिः शेते शिशुत्वं समवाप्य साक्षात् ।
वटस्य पत्रे जगतां निवासः पादौ च विक्षिप्य करौ विधुन्वन् ।। ४३ ।।
यस्योदरे देवमुनिः पुरातनो ददर्श लोकानखिलान् स मायया ।
प्रविश्य विश्वं सकलं यथावद् बहिर्यथाभूतमभूदिदं महत् ।। ४४ ।।
निगीर्य विश्वं जगदादिकाले शेते महात्मा जलधेर्जलौघे ।
देव्या श्रिया चामरलोलहस्तया निषेव्यमाणः पुरुषोत्तमस्तदा ।। ४५ ।।
नाभेश्च यस्याविरभूत् सपत्रं पद्मं महत्काञ्चनसप्रभं प्रभोः ।
जन्मास्पदं लोकगुरोर्यदासीद्विस्तारि पद्मं जगदादिसृष्टौ ।। ४६ ।।
दधार यो भूतपतिर्महान्महीं दंष्ट्राग्रसंस्थापितरूढमूलाम् ।
नादं महामेघ इवादिकाले कुर्वन् वराहो मुनिगीतमूर्तिः ।। ४७ ।।
हरिः पुराणः पुरुषोत्तमः प्रभुः कर्ता समस्तस्य समस्तसाक्षी ।
यज्ञात्मको यज्ञपतिर्जगत्पतिर्द्रष्टुं तमीशं वयमुद्यताः स्मः ।। ४८ ।।
केचिद् बहुत्वेन वदन्ति देवमेकात्मना केचिदिमं पुराणम् ।
वेदान्तसंस्थापितसत्त्वयुक्तं द्रष्टुं तमीशं वयमुद्यताः स्मः ।। ४९ ।।
अनेकमेके बहुधा वदन्ति श्रुतिस्मृतिन्यायनिविष्टचित्ताः ।
आहुर्यमात्मानमजं पुराविदो द्रष्टुं तमीशं वयमुद्यताः स्मः ।। 3.80.५० ।।
यं प्राहुरीड्यं वरदं वरेण्यमेकान्ततत्त्वं मुनयः पुरातनाः ।
यं सर्वगं देवमजं जनार्दनं द्रष्टुं हरिं सम्प्रति संयताः स्मः ।। ५१ ।।
यस्मिन् विश्वमिदं प्रोतमादिकाले जगत्पतौ ।
तं द्रष्टुमभिसंवृत्ताः किं नु वक्ष्याम साम्प्रतम् ।। ५२ ।।
गच्छामो वयमन्यत्र गच्छ त्वं काममन्यतः ।
नियमोऽप्यस्ति नो मर्त्य यथेष्टं गच्छ साम्प्रतम्।। ५३ ।।
रात्रिमध्यमनुप्राप्तं नात्र कार्या विचारणा ।
इत्युक्त्वा घोररूपोऽसौ पिशाचो विकृताननः ।। ५४ ।।
तस्मिन्नेव समे देशे पीत्वा च रुधिरं बहु ।
भक्षयित्वा यथाकामं मांसराशिं विचक्षणः ।। ५५ ।।
अपः संस्पृश्य तत्रैव पार्श्वे संस्थाप्य साधनम् ।
अन्त्रपाशं महाघोरं संस्थाप्य विपुलं महत् ।। ५६ ।।
आसनं कुशसंयुक्तं कृत्वा चाभ्युक्ष्य वारिणा ।
उत्सार्य श्वगणान् सर्वान् यत्नेन महता तदा।। ५७ ।।
सुखासनं समास्थाय समाधौ यतते श्वपः ।
एकचित्तस्तदा भूत्वा नमस्कृत्य च केशवम् ।
इमं मन्त्रं पठन् घोरः पिशाचो भक्तवत्सलम् ।। ५८ ।।
नमो भगवते तस्मै वासुदेवाय चक्रिणे ।
नमस्ते गदिने तुभ्यं वासुदेवाय धीमते ।। ५९ ।।
ओं नमो नारायणाय विष्णवे प्रभविष्णवे ।
मम भूयान्मनःशुद्धिः कीर्तनात् तव केशव ।। 3.80.६० ।।
जन्मेदमीदृशं घोरं मा भून्मम दुरासदम् ।
देवदूतो भविष्यामि स्मरणात् तव गोपते ।। ६१ ।।
तव चक्रप्रहारेण कायो नश्यतु मामकः ।
मम भूयो भवो मा भूदेषा मे प्रार्थना विभो ।। ६२ ।।
अर्थिनां कल्पवृक्षोऽसि दाता सर्वस्य सर्वदा ।
यत्र यत्र भवेज्जन्म तत्र तत्र भवान् हृदि ।। ६३ ।।
वर्ततां मम देवेश प्रार्थनैषा ममापरा ।
नमस्तुभ्यं नमस्तुभ्यं भवत्वेवं सदा मम ।। ६४ ।।
निर्विघ्ना प्रार्थना देव नमस्तेऽस्तु सदा मम ।
यदा मे मरणं भूयात्तदा मा भूत्स्मृतिभ्रमः ।। ६५ ।।
दिने दिने क्षणं चित्तं त्वयि संस्थं भवत्विति ।
एवं प्रेरय मां देव मा भूत् ते चित्तमीदृशम् ।। ६६ ।।
नृशंसोऽयं पिशाचोऽयं दयास्मिन् का भवेदिति ।
एवं चिन्तय मां देव भृत्यो मह्यमिति प्रभो ।। ६७ ।।
परपीडा न मत्तोऽस्तु नमस्ते भगवन् प्रभो ।
इन्द्रियाणीन्द्रियार्थेषु मा भूवन्साम्प्रतं हि मे ।। ६८ ।।
अन्तकाले ममाप्येवं प्रसादात् तव केशव ।
पृथिवी यातु मे घ्राणं रसनां यातु मे पयः ।। ६९ ।।
सूर्यश्च यातु मे चक्षुः स्पर्शं यातु च मारुतः ।
श्रोत्रमाकाशमप्येतु मनः प्राणं च गच्छतु ।। 3.80.७० ।।
जलं मां रक्षतां नित्यं पृथिवी रक्षतां हरे ।
सूर्यो मां रक्षतां विष्णो नमस्ते सूर्यतेजसे ।। ७१ ।।
वायुर्मां रक्षतां दुःखादाकाशं च जनार्दन ।
न मनः सर्वगं देव रक्षतां विषयान्तरे ।। ७२ ।।
मनो विपर्यये घोरे पुरुषान् हन्ति नित्यशः ।
पापेषु योजयेत् पुंसः परपीडात्मकेषु च ।। ७३
मनस्तद् रक्षतां देव भूयो भूयो जनार्दन ।
मा भून्मनसि कालुष्यं मनो मे निर्मलं भवेत् ।। ७४ ।।
कलुषं तस्य यच्चित्तं नरके पातयत्यमुम् ।
बाह्यानि निर्मलान्येवमिन्द्रियाणि भवन्त्युत ।। ७५ ।।
न तानि कार्यवन्तीह मनश्चेत्कलुषं भवेत्।
नाङ्गानां मुष्टिनामेध्यं गृहीत्वा यो व्यवस्थितः ।। ७६ ।।
बहिः प्रक्षालनं कुर्वन् किं भवेत् तस्य केशव ।
व्यर्थो हि केवलं तस्य प्रग्रहो बाह्यगोचरः ।। ७७ ।।
तस्मात् सर्वप्रयत्नेन चित्तं रक्ष जनार्दन ।
वलवानिन्द्रियग्रामो वारयैनं जनार्दन ।। ७८ ।।
परीवादाज्जगन्नाथ वाचं रक्ष दुरुद्वहाम् ।
परद्रव्यान्मनो रक्ष परदाराज्जनार्दन ।
सर्वत्र मे दया भूयात् प्रसादात् तव केशव ।। ७९ ।।
त्वय्येव भक्तिरचला भूयाद् भूतेषु मे दया ।
बहुनात्र किमुक्तेन शृणुष्वेदं वचो मम ।। 3.80.८० ।।
सुखे दुःखे च रागे च भोजने गमने तथा ।
जाग्रत्स्वप्नेषु सर्वत्र त्वय्येव रमतां मनः ।। ८१ ।।
मामकं देवदेवेश नमस्तेऽस्तु जनार्दन ।
इति ब्रुवन् घोरतमो जात्या हीनो न चित्ततः ।। ८२ ।।
पिशाचो भगवद्भक्तः समाधिं समपद्यत ।
दृढं बद्ध्वाऽऽत्मनः कायमान्त्रपाशेन मांसपः ।। ८३ ।।
निश्चलेनैव मनसा सुखमास्ते स्म संयतः ।
ध्यायन्हरिं जगद्योनिं विष्णुं पीताम्बरं शिवम्।। ८४ ।।
मुकुन्दमादिपुरुषमेकाकारमनामयम् ।
नित्यं शुद्धं ज्ञानगम्यं कारणं सर्वदेहिनाम् ।। ८५ ।।
नासिकाग्रं समालोक्य पठन् ब्रह्म सनातनम् ।
निर्वातस्थो यथा दीपः प्रोच्चरन् प्रणतः सदा ।। ८६ ।।
प्रणवं वाचकं मत्वा वाच्यं ब्रह्मेति निश्चितः ।
एकाग्रं सततं कृत्वा चित्तं विष्णौ समर्पितम् ।। ८७ ।।
विकल्परहितं चित्तं हृदि मध्ये न्यवेशयत् ।
पुण्डरीके शुभदले समावेश्य जगत्पतिम् ।। ८८ ।।
आस्ते सुखं महायोगी पिशिताशस्तदा महान् ।
त्रिधामानं जपंस्तत्र स्मरन् विष्णुं सनातनम् ।। ८९ ।।
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि कैलासयात्रायां
घण्टाकर्णचित्तसमाधावशीतितमोऽध्यायः ।। ८० ।।