४६२ ब्राह्मस्फुटसिद्धान्ते सितं सिताङ्गुलानि भवन्ति । यदि शत्रौ भृगोन्नति: साध्यते तदा प्रथमप्रकार रागतं शुक्लं सिताङ्गुलं ग्राह्यम् । दिवसे चेत् तदान्यत् द्वितीयप्रकारागतं शुक्लं ग्राह्यम् । सन्ध्ययोः सूर्योदये सूर्यास्ते च तयोः प्रथमद्वितीयप्रकारागतयो: सितयो रैक्यार्धसमं शुक्लं ग्राह्यम् । रविचन्द्रान्तरांशानां ज्या पूर्णज्यैव रविदिक् करणं भवेत्। अर्थाद्रविकर्णगत्यैव शौक्ल्यं दीयते । अत्रोपपत्तिः। यदि नवत्यन्तरेण चन्द्रबिम्बाधंसमं शुबलं तदाऽभीष्टरवि चन्द्रान्तरेण किं जातं सिताङ्गुलमानम् = = अं. विमा अंदल. विमा । द्वितीयं ६०X२ ९० उज्या. विमा, सितमन्तरांशोत्क्रमज्ययाऽनुपातेन साधितं लल्लोक्तवत् । द्विसि= fत्र ४२ । रात्रौ सुदृशा चन्द्रोज्ज्वलभागो बिपुलो विलोक्यते । दिने रवितेजसा दृष्टि दोषादल्पः सित भागो लक्ष्यते । सन्ध्ययोश्चैवं दर्शने सितवैषम्यमुपलक्ष्यत इति तारतम्येनाधिकमल्पं तद्योगार्धसमं च सित‘ कल्पितमाचार्येण । वास्तवसित तक्र मज्यातोऽप्यल्पं तदर्थं मदीयं वास्तवचन्द्रश्रृंगोन्नतिसाधनं विलोक्यं ।१११२-१३ ॥ वि. भा.–व्यकॅन्दुदलभुजांशाः (रविरहितचन्द्रस्यार्धभुजांशाः) शशिमान- (चन्द्रबिम्व) गुणःनवत्या भक्तास्तदा सित” (शुक्लप्रमाणे) भवति रात्रावित्य ध्याहार्यम् । रविचन्द्रयोरन्तरांशा यावन्नवतिरंशाः स्युस्तावत् पूवक्तव्यकन्दुदले भुजांशा द्विगुणा: कर्तव्यास्तत्र यावन्तोंऽशास्तेषामुत्क्रमज्या विधेया, यद्यन्तरांशाः नवतेरधिकास्तदाऽधिकांशानां या क्रमज्या तयुता त्रिज्या कार्या, एवं करणेन योत्क्रमज्य भवेत्सा चन्द्रप्रमाणेन (चन्द्रबिम्बमानेन) गुणिता, द्विगुणव्यासार्बन (द्विगुणितत्रिज्यय) भक्त तदाऽन्यन् सितं (सितमानं) भवति, रात्रौ शृङ्ग नतसाधने प्रथमं 'व्यकन्दुदलभुजशा" इत्यादि प्रथमप्रकारसाधितं शुक्लं (शुक्लं) ग्रहीतव्यम् । दिवसे शृङ्गोन्नतिसाधनेऽन्यत् (चन्द्रप्रमाणगुणितेत्यादि द्वितीयप्रकारसाधितं) शुक्लं ग्राह्यस्। सन्ध्ययः (सूर्योदये सूर्यास्ते च) तदैक्यार्च (प्रथमद्वितीयप्रकारसाधितयोः शुक्लयोयगार्धतुल्यं शुक्लं ग्राह्यम् । रविचन्द्रान्तर्- शानां ज्या (पूर्णज्या) रविदिक् करणं भवति, तस्य (चन्द्रस्य) सितं श्रवणगत्या (रविकणंगत्या ) भवतीति ११-१२-१३।। अथ पूर्णान्ते रविचन्द्रयोरन्तरांशाः=१८०° , तत्र सम्पूर्ण चन्द्रबिम्बं शुक्लं भवत्यतोऽनुपातेना “यदि साशीतिशतांश १८० तुल्येन रविचन्द्रान्तंरांशेन सम्पूगै
पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/५०९
दिखावट