ब्राह्मस्फढसद्धान्तः चन्द्रशृङ्गवेन्नत्यधिकारः अथ चन्द्रशृङ्गोन्नत्यधिकारः प्रारभ्यते । तत्रादौ रवेरुपरिचन्द्रोऽस्तीति पुराण मत खण्डनमाह । सितवृद्धिहानिवीर्यादि शशाङ्गज्जायते कथं गणितात् । उपरि रवेरिदुश्चेदगर्वं सदा शुक्लस् ॥ १ । सु० भा०ञ्चेद्यदि रवेरुपरि इन्दुस्तदा गणिताद्वणितागतात् शशाङ्गाच्च न्द्रात् सितवृद्धिहानिवीर्यादि कथं जायते । अर्थाद्गणितविधिना चन्द्रस्य शुक्लोपच यापचयमानं कृष्णाङ्ग लमानं च कथं जायते यतस्तादृशस्थितौ भौमगुरुशनिवत् सदा अर्वागधं पूर्वार्ध सुंदृश्यं खण्डं शुल्क स्यात् परन्तु दृष्ट्या सदा शुल्कं नोपलक्ष्य तेऽतो रवेरुपरि नेन्दुरिति स्फुटम् । तथा रवेरधश्चन्द्र प्रकल्प्य गणितविधिनाऽऽनीतं शुक्लादिदृष्टियोग्यं भवति तेन रवेरधश्चन्द्र इति स्फुटम् ।। १ ॥ वि. भा–चन्द्रस्य सितवृद्धिहानी (स्वच्छतोपचयापचय) शापाद् भवत -- इति पुराणमतमस्ति, यद्यवं तदा गणिताच्छशाङ्कात् (मणितागतचन्द्रात्) सित वृद्धिहानिवीर्यादिज्ञानं कथं जायते, अर्थाद् गणितविधिना चन्द्रस्य शुक्लोपचया- पचयादिमानं नावगम्यं स्यात् । चेत (यदि ) रवेरुपरि, इन्दुः (चन्द्रः) तदाऽर्वागधं (अधस्तनमधेनुदृश्यं खण्डं) सदा शुक्लं स्यात्परन्तु दृष्ट्या सर्वदा शुक्लं नोप लक्ष्यतेऽतोरवेरुपरि चन्द्रो नास्ति, यदि च रवेरघश्चन्द्र स्वीकृत्य गणितविधिना शुक्लादिमानमानीयते तदा तत्सर्वथा दृष्टियोग्यं भवत्यतो रवितश्चन्द्रोऽघ एवा तश्चन्द्रशुक्लस्योपचयापचयस्य गणितावगम्यत्वात् सर्वदैव चन्द्रबिम्वपूर्वार्धस्य शुक्लत्वाभावाच्च पुराणोक्तमतद्वयं ( शापाच्चन्द्रस्य सितवृद्धिहान्यादि भवति तथा रवित उपरिचन्द्रोऽस्तीति) न युक्तिसङ्गतमिति सिद्धान्तितम् । सिद्धान्तशेखरे श्रीपतिनै “शापाद्यदीन्दोः सितवृद्धिहानी कथं तु जाते गणितावगम्ये । ऊध्र्वे यदीन्दू रैवतस्तदाउँमवतन हन्त सदैव शुक्लस’ वमुक्तमिति ॥ १ ।। अब चन्द्र शृङ्गोन्नति अधिकार प्रारम्भ किया जाता है, ‘उसमें पहले रवि से ऊपर चन्द्र है' इस पुराणमत के खण्डन को कहते हैं. हि- भाश--चन्द्र की स्वच्छता का उपचय (वृद्धि) और अपचय (हानि) शाप से होता है यह पुराण में कहा गया है, आचार्य इसका राष्डन करते हैं । यदि शाप से चन्द्र
पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/४९६
दिखावट