गौतमधर्मसूत्रम्
[ आनन्दाश्रमप्रतौ १,१ =Stenzler-प्रतौ I]
१,१.१ /१: वेदो धर्ममूलम् ॥
१,१.२ /२: तद्विदां च स्मृतिशीले ॥
१,१.३ /३: दृष्टो धर्मव्यतिक्रमः साहसं च महतां ॥
{Stenzler-प्रत्यन्तरे न तु दृष्टार्थे}
१,१.४ /३: अवरदौर्बल्यात् ॥
१,१.५ /४: तुल्यबलविरोधे विकल्पः ॥
१,१.६ /५: उपनयनं ब्राह्मणस्याष्टमे ॥
१,१.७ /६: नवमे पञ्चमे वा काम्यम् ॥
१,१.८ /७: गर्भादिः सङ्ख्या वर्षाणाम् ॥
१,१.९ /८: तद्द्वितीयं जन्म ॥
१,१.१० /९: तद् यस्मात् स आचार्यः ॥
१,१.११ /१०: वेदानुवचनाच् च ॥
१,१.१२ /११: एकादशद्वादशयोः क्षत्रियवैश्ययोः ॥
१,१.१३ /१२: आ षोडशाद् ब्राह्मणस्यापतिता सावित्री ॥
१,१.१४अ /१३: द्वाविंशते राजन्यस्य ॥
१,१.१४ब् /१४: द्व्यधिकायावैश्यस्य ॥
१,१.१५ /१५: मौञ्जीज्यामौर्वीसौत्र्यो मेखलाः क्रमेण ॥
१,१.१६ /१६: कृष्णरुरुबस्ताजिनानि ॥
१,१.१७ /१७: वासांसि शाणक्षौमचीरकुतपाः सर्वेषाम् ॥
१,१.१८ /१८: कार्पासं चाविकृतम् ॥
१,१.१९ /१९: काषायम् अप्य् एके ॥
१,१.२०अ /२०: वार्क्षं ब्राह्मणस्य ॥
१,१.२०ब् /२१: माञ्जिष्ठहारिद्रे इतरयोः ॥
१,१.२१ /२२: बैल्वपालाशौ ब्राह्मणदण्डौ ॥
१,१.२२ /२३: आश्वत्थपैलवौ शेषे ॥
१,१.२३ /२४: यज्ञियो वा सर्वेषाम् ॥
१,१.२४ /२५: अपीडिता यूपवक्राः सशल्काः ॥
१,१.२५ /२६: मूर्धललाटनासाग्रप्रमाणाः ॥
१,१.२६ /२७: मुण्डजटिलशिखाजटाश् च ॥
१,१.२७ /२८: द्रव्यहस्त उच्छिष्टो अनिधायाचामेत् ॥
१,१.२८ /२९: द्रव्यशुद्धिः परिमार्जनप्रदाहतक्षणनिर्णेजनानितैजसमार्क्तिकदारवतान्तवानाम् ॥
१,१.२९ /३०: तैजसवदुपलमणिशङ्खमुक्तानाम् ॥
{Stenzler-प्रत्यन्तरे -शुक्तीनाम्}
१,१.३० /३१: दारुवदस्थिभूम्योः ॥
१,१.३१ /३२: आवपनं च भूमेः ॥
१,१.३२ /३३: चेलवद् रज्जुविदलचर्मणाम् ॥
१,१.३३ /३४: उत्सर्गो वात्यन्तोपहतानाम् ॥
१,१.३४ /३५: प्राङ्मुख उदङ्मुखो वा शौचम् आरभेत ॥
१,१.३५ /३६: शुचौ देशे आसीनो दक्षिणं बाहुं जान्वन्तराकृत्वा यज्ञोपवीत्या मणिबन्धनात् पाणी प्रक्षाल्य वाग्यतोहृदयस्पृशस् त्रिश् चतुर् वाप आचामेद् ॥
१,१.३६ /३६: द्विः परिमृज्यते ॥
{Stenzler-प्रत्यन्तरे परिमृज्यात्}
१,१.३७ /३६: पादौ चाभ्युक्षेत् ॥
१,१.३८ /३६: खानि चोपस्पृशेच् शीर्षण्यानि ॥
१,१.३९ /३६: मूर्धनि च दद्यात् ॥
१,१.४० /३७: सुप्त्वा भुक्त्वा क्षुत्वा च पुनः ॥
१,१.४१ /३८: दन्तश्लिष्टेषु दन्तवद् अन्यत्र जिह्वाभिमर्शनात् ॥
१,१.४२ /३९: प्राक्च्युतेर् इत्य् एके ॥
१,१.४३ /४०: च्युतेशु आस्राववद् विद्यान् निगिरन्न् एव तच् शुचिः ॥
१,१.४६ /४१: न मुख्या विप्रुष उच्छिष्टं कुर्वन्ति न चेद् अङ्गेनिपतन्ति ॥
१,१.४५ /४२: लेपगन्धापकर्षणे शौचम् अमेध्यस्य ॥
१,१.४६ /४३: तद् अद्भिः पूर्वं मृदा च ॥
१,१.४७ /४४: मूत्रपुरीषस्नेहविस्रंसनाभ्यवहारसंयोगेषु च ॥
{Stenzler-प्रत्यन्तरे -स्नेहु-}
१,१.४८ /४५: यत्र चाम्नायो विदध्यात् ॥
१,१.४९अ /४६: पाणिना सव्यम् उपसङ्गृह्य अनङ्गुष्ठम् अधीहि भो इत्य् आमन्त्रयेद् गुरुं ॥
{Stenzler-प्रत्यन्तरे आमन्त्रयेत}
१,१.४९ब् /४७: तत्रचक्षुर्मनःप्राणोपस्पर्शनं दर्भैः ॥
{Stenzler-प्रत्यन्तरे तत्रचक्षुर्मनाः}
१,१.४९च् /४८: प्राणोपस्पर्शनं दर्भैः ॥
१,१.५० /४९: प्राणायामास् त्रयः पञ्चदशमात्राः ॥
१,१.५१ /५०: प्राक्कूलेषु आसनं च ॥
{Stenzler-प्रत्यन्तरे -तूलेषु}
१,१.५२ /५१: ॐ पूर्वा व्याहृतयः पञ्च सत्यान्ताः ॥
१,१.५३ /५२: गुरोः पादोपसंग्रहणं प्रातः ॥
१,१.५४ /५३: ब्रह्मानुवचने चाद्यन्तयोः ॥
१,१.५५ /५४: अनुज्ञात उपविशेत् प्राङ्मुखो दक्षिणतः शिष्य उदङ्मुखोवा ॥
१,१.५६ /५५: सावित्री चानुवचनम् ॥
१,१.५७ /५६: आदितो ब्रह्मण आदाने ॥
१,१.५८ /५७: ॐकारो अन्यत्रापि ॥
१,१.५९ /५८: अन्तर गमने पुनर् उपसदनम् ॥
{Stenzler-प्रत्यन्तरे अन्तरागमने}
१,१.६० /५९: श्वनकुलसर्पमण्डूकमार्जाराणां त्र्य् अहम् उपवासोविप्रवासश् च ॥
१,१.६१ /६०: प्राणायामा घृतप्राशनं चेतरेषाम् ॥
१,१.६२ /६१: श्मशानाभ्यध्ययने चैवम् ॥
{Stenzler-प्रत्यन्तरे श्मशानाभ्यध्ययनेचैवम्}
____________________________________________
[ आनन्दाश्रमप्रतौ १,२ = II]
१,२.१ /_२.१अ: प्राग् उपनयनात् कामचारः कामवादः कामभक्षः ॥
{Stenzler-प्रत्यन्तरे कामचारवादभक्षो}
१,२.२ /_२.१ब्: अहुतात् ॥
१,२.३ /_२.१च्: ब्रह्मचारी ॥
१,२.४ /_२.१द्: यथोपपादितमूत्रपुरीषो भवति ॥
{Stenzler-प्रत्यन्तरे -उपपाद}
१,२.५ /_२.२अ: नास्याचमनकल्पो विद्यते ॥
१,२.६ /_२.२ब्: अन्यत्रापमार्जनप्रधावनावोक्षणेभ्यः ॥
१,२.७ /_२.३: न तदुपस्पर्शनाद् आशौचम् ॥
१,२.८ /_२.४: न त्व् एवैनम् अग्निहवनबलिहरणयोर् नियुञ्ज्यात् ॥
१,२.९ /_२.५: न ब्रह्माभिव्याहारयेद् अन्यत्र स्वधानिनयनात् ॥
१,२.१० /_२.६: उपनयनादिर् नियमः ॥
१,२.११ /_२.७: उक्तं ब्रह्मचर्यम् ॥
१,२.१२ /_२.८अ: अग्नीन्धनभैक्षचरणे ॥
१,२.१३ /_२.८ब्: सत्यवचनम् ॥
१,२.१४ /_२.८च्: अपाम् उपस्पर्शनम् ॥
१,२.१५ /_२.९: एके गोदानादि ॥
१.२.१६ /_२.१०: बहिःसंध्यत्वं च ॥
१,२.१७ /_२.११: तिष्ठेत् पूर्वाम् आसीतोत्तरां सज्योतिष्या ज्योतिषोदर्शनाद् वाग्यतः ॥
१,२.१८ /_२.१२: नादित्यम् ईक्षेत ॥
१,२.१९ /_२.१३: वर्जयेन्मधुमांसगन्धमाल्यदिवास्वप्नाभ्यञ्जनयानोपानच्छत्रकामक्रोधलोभमोहवादवादनस्नानदन्तधावनहर्षनृत्यगीतपरिवादभयानि ॥
{Stenzler-प्रत्यन्तरे नृत्त}
१,२.२० /_२.१४: गुरुदर्शनेकण्ठप्रावृतावसक्थिकापाश्रयणपादप्रसारणानि ॥
१,२.२१ /_२.१५: निष्ठीवितहसितविष्कम्भितावस्फोतनानि ॥
{Stenzler-प्रत्यन्तरे विजृम्भिता-}
१,२.२२ /_२.१६: स्त्रीप्रेक्षणालम्भने मैथुनशङ्कायाम् ॥
१,२.२३ /_२.१७: द्यूतं हीनसेवाम् अदत्तादानं हिंसाम् ॥
१,२.२४ /_२.१८: आचार्यतत्पुत्रस्त्रीदीक्षितनामानि ॥
१,२.२५अ /_२.१९: शुक्लवाचो ॥
{Stenzler-प्रत्यन्तरे शुक्ता वाचः}
१,२.२५ब् /_२.२०: मद्यं नित्यंब्राह्मणः ॥
१,२.२६ /_२.२१: अधःशय्यासनी पूर्वोत्थायी जघन्यसंवेशी ॥
१,२.२७ /_२.२२: वाग्बाहूदरसंयतः ॥
१,२.२८ /_२.२३: नामगोत्रे गुरोः समानतो निर्दिशेत् ॥
१,२.२९ /_२.२४: अर्चिते श्रेयसि चैवम् ॥
१,२.३० /_२.२५: शय्यासनस्थानानि विहाय प्रतिश्रवणम् ॥
१,२.३१ /_२.२६: अभिक्रमणं वचनाद् अदृष्टेन ॥
१,२.३२ /_२.२७: अधःस्थानासनस् तिर्यग्वातसेवायां गुरुदर्शनेचोत्तिष्ठेत् ॥
{Stenzler-प्रत्यन्तरे -आसनतिर्यग्-}
१,२.३३ /_२.२८अ: गच्छन्तम् अनुव्रजेत् ॥
१,२.३४ /_२.२८ब्: कर्म विज्ञाप्याख्याय ॥
१,२.३५ /_२.२९: आहुतो ऽध्यायी ॥
{Stenzler-प्रत्यन्तरे आहूताध्यायी}
१,२.३६ /_२.३०: युक्तः प्रियहितयोः ॥
१,२.३७ /_२.३१: तद्भार्यापुत्रेषु चैवम् ॥
१,२.३८ /_२.३२: नोच्छिष्टाशनस्नापनप्रसाधनपादप्रक्षालनोन्मर्दनोपसङ्ग्रहणानि ॥
१,२.३९ /_२.३३: विप्रोष्योपसङ्ग्रहणं गुरुभार्याणाम् ॥
१,२.४० /_२.३४: नैके युवतीनां व्यवहारप्राप्तेन ॥
१,२.४१ /_२.३५: सार्ववर्णिकभैक्ष्यचरणम् अभिशस्तपतितवर्जम् ॥
{Stenzler-प्रत्यन्तरे भैक्ष-}
१,२.४२ /_२.३६: आदिमध्यान्तेषु भवच्छब्दः प्रयोज्यो वर्णानुक्रमेण ॥
१,२.४३ /_२.३७: आचार्यज्ञातिगुरुष्व् अलाभे ऽन्यत्र ॥
{Stenzler-प्रत्यन्तरे गुरुस्वेषु}
१,२.४४ /_२.३८: तेषां पूर्वं पूर्वं परिहरेत् ॥
१,२.४५ /_२.३९: निवेद्य गुरवे ऽनुज्ञातो भुञ्जीत ॥
१,२.४६ /_२.४०: असंनिधौतद्भार्यापुत्रसब्रह्मचारिभ्यः ॥
{Stenzler-प्रत्यन्तरे -ब्रह्मचारिसद्भः}
१,२.४७ /_२.४१: वाग्यतस् तृप्यन्नलोलुप्यमानः संनिधायोदकम् ॥
१,२.४८ /_२.४२: शिष्यशिष्टिर् अवधेन ॥
१,२.४९ /_२.४३: अशक्तौ रज्जुवेणुविदलाभ्यां तनुभ्याम् ॥
{Stenzler-प्रत्यन्तरे रज्जुवेणुवदला-}
१,२.५० /_२.४४: अन्येन घ्नन्(हन्) राज्ञा शास्यः ॥
१,२.५१ /_२.४५: द्वादश वर्षाण्य् एकवेदे ब्रह्मचर्यं चरेत् ॥
१,२.५२ /_२.४६: प्रतिद्वादश वा सर्वेषु ॥
१,२.५३ /_२.४७: ग्रहणान्तं वा ॥
१,२.५४ /_२.४८: विद्यान्ते गुरुर् अर्थेन निमन्त्र्यः ॥
१,२.५५ /_२.४९: कृत्वानुज्ञातस्य वा स्नानम् ॥
१,२.५६अ /_२.५०: आचार्यः श्रेष्ठो गुरूणां ॥
१,२.५६ब् /_२.५१: मातेत्य् एके ॥
{Stenzler-प्रत्यन्तरे मतेत्य् एके}
____________________________________________
[ आनन्दाश्रमप्रतौ १,३ = III]
१,३.१ /_३.१: तस्याश्रमविकल्पम् एके ब्रुवते ॥
१,३.२ /_३.२: ब्रह्मचारी गृहस्थो भिक्षुर् वैखानसः ॥
१,३.३ /_३.३: तेषां गृहस्थो योनिर् अप्रजनत्वाद् इतेरेषाम् ॥
१,३.४ /_३.४: तत्रोक्तं ब्रह्मचारिणः ॥
१,३.५ /_३.५: आचार्याधीनत्वम् आन्तम् ॥
१,३.६ /_३.६: गुरोः कर्मशेषेण जपेत् ॥
१,३.७अ /_३.७: गुर्वभावे तदपत्यवृत्तिस् ॥
{Stenzler-प्रत्यन्तरे -अपत्ये वृत्तिः}
१,३.७ब् /_३.८: तदभावे वृद्धे सब्रह्मचारिण्य् अग्नौ वा ॥
१,३.८ /_३.९: एवंवृत्तो ब्रह्मलोकम् आप्नोति जितेन्द्रियः ॥
{Stenzler-प्रत्यन्तरे अवाप्नोति}
१,३.९ /_३.१०: उत्तरेषां चैतदविरोधि ॥
{Stenzler-प्रत्यन्तरे इतरेषां}
१,३.१० /_३.११: अनिचयो भिक्षुः ॥
१,३.११ /_३.१२: ऊर्ध्वरेताः ॥
१,३.१२ /_३.१३: ध्रुवशीलो वर्षासु ॥
१,३.१३ /_३.१४: भिक्षार्थी ग्रामम् इयात् ॥
१,३.१४ /_३.१५: जघन्यम् अनिवृत्तं चरेत् ॥
१,३.१५ /_३.१६: निवृत्ताशीः ॥
१,३.१६ /_३.१७: वाक्चक्षुःकर्मसंयतः ॥
१,३.१७ /_३.१८: कौपीनाच्छादनार्थे वासो बिभृयात् ॥
{Stenzler-प्रत्यन्तरे -अर्थं}
१,३.१८ /_३.१९: प्रहीणम् एके निर्णिज्य ॥
१,३.१९ /_३.२०: नाविप्रयुक्तम् ओषधिवनस्पतीनाम् अङ्गम् उपाददीत ॥
१,३.२० /_३.२१: न द्वितीयाम् अपर्तु रात्रिं ग्रामे वसेत् ॥
१,३.२१ /_३.२२: मुण्डः शिखी वा ॥
१,३.२२ /_३.२३: वर्जेयेद् बीजवधम् ॥
१,३.२३ /_३.२४: समो भूतेषु हिंसानुग्रहयोः ॥
१,३.२४ /_३.२५: अनारम्भी ॥
१,३.२५ /_३.२६: वैखानसो वने मूलफलाशी तपःशीलः ॥
१,३.२६ /_३.२७: श्रावणकेनाग्निम् आधाय ॥
{Stenzler-प्रत्यन्तरे श्रामणकेन}
१,३.२७ /_३.२८: अग्राम्यभोजी ॥
१,३.२८ /_३.२९: देवपितृमनुष्यभूतर्षिपूजकः ॥
१,३.२९ /_३.३०: सर्वातिथिः प्रतिषिद्धवर्जम् ॥
१,३.३० /_३.३१: वैष्कम् अप्य् उपयुञ्जीत ॥
{Stenzler-प्रत्यन्तरे बैष्कम्}
१,३.३१ /_३.३२: न फालकृष्टम् अधितिष्ठेत् ॥
१,३.३२ /_३.३३: ग्रामं च न प्रविशेत् ॥
१,३.३३ /_३.३४: जटिलश् चीराजिनवासाः ॥
१,३.३४ /_३.३५: नातिसंवत्सरं भुञ्जीत ॥
{Stenzler-प्रत्यन्तरे अतिसांवत्सरं}
१,३.३५ /_३.३६: एकाश्रम्यं त्व् आचार्याः प्रत्यक्षविधानाद्गार्हस्थस्य गार्हस्थस्य ॥
{Stenzler-प्रत्यन्तरे गार्हस्थ्यस्य गार्हस्थ्यस्य}
____________________________________________
[ आनन्दाश्रमप्रतौ १,४ = IV]
१,४.१ /_४.१: गृहस्थः सदृशीं भार्यां विन्देतानन्यपूर्वांयवीयसीम् ॥
१,४.२ /_४.२: असमानप्रवरैर् विवाहः ॥
१,४.३अ /_४.३: ऊर्ध्वं सप्तमात् पितृबन्धुभ्यो ॥
१,४.३ब् /_४.४: बीजिनश् च ॥
१,४.३च् /_४.५: मातृबन्धुभ्यः पञ्चमात् ॥
१,४.४ /_४.६: ब्राह्मो विद्याचारित्रबन्धुशीलसंपन्नाय दद्यादाच्छाद्यालंकृताम् ॥
१,४.५ /_४.७: संयोगमन्त्रः प्राजापत्ये सह धर्मश् चर्यताम् इति ॥
१,४.६ /_४.८: आर्षे गोमिथुनं कन्यावते दद्यात् ॥
१,४.७ /_४.९: अन्तर्वेद्यृत्विजे दानं दैवो ऽलंकृत्य ॥
१,४.८ /_४.१०: इच्छन्त्याः स्वयं संयोगो गान्धर्वः ॥
{Stenzler-प्रत्यन्तरे इच्छन्त्या}
१,४.९ /_४.११: वित्तेनानतिः स्त्रीमताम् आसुरः ॥
१,४.१० /_४.१२: प्रसह्यादानाद् राक्षसः ॥
१,४.११ /_४.१३: असंविज्ञातोपसंगमात् पैशाचः ॥
{Stenzler-प्रत्यन्तरे -संगमनात्}
१,४.१२ /_४.१४: चत्वारो धर्म्याः प्रथमाः ॥
१,४.१३ /_४.१५: षड् इत्य् एके ॥
१,४.१४ /_४.१६: अनुलोमानन्तरैकान्तरद्व्यन्तरासु ज्ञाताःसवर्णाम्बष्ठोग्रनिषाददौष्मन्तपारशवाः ॥
{Stenzler-प्रत्यन्तरे अनुलोमाअनन्त-;-दौष्यन्त-}
१,४.१५ /_४.१७: प्रतिलोमास् तु सूतमागधायोगवकृतवैदेहकचण्डालाः ॥
{Stenzler-प्रत्यन्तरे प्रतिलोमाःसूत-;आयोगवक्षत्तृ-}
१,४.१६ /_४.१८: ब्राह्मण्य् अजीजनत् पुत्रान् वर्णेभ्य आनुपूर्व्याद्ब्राह्मणसूतमागधचण्डालान् ॥
१,४.१७अ /_४.१९: तेभ्य एव क्षत्रियामूर्धावसिक्थक्षत्रियधीवरपुल्कसांस् ॥
१,४.१७ब् /_४.२०: तेभ्य एव वैश्याभृज्जकण्ठमाहिष्यवैश्यवैदेहान् ॥
१,४.१७च् /_४.२१: पारशवयवनकरणशूद्राञ् शूद्रेत्य् एके ॥
{Stenzler-प्रत्यन्तरे भृज्य}
१,४.१८अ /_४.२२: वर्णान्तरगमनम् उत्कर्षापकर्षाभ्यांसप्तमे
१,४.१८ब् /_४.२३: पञ्चमे वाचार्याः ॥
{Stenzler-प्रत्यन्तरे सप्तमेन;पञ्चमेनाचार्याः}
१,४.१९ /_४.२४: सृष्ट्यन्तरजातानां च ॥
{Stenzler-प्रत्यन्तरे अन्तरजानां}
१,४.२० /_४.२५: प्रतिलोमास् तु धर्महीनाः ॥
१,४.२१ /_४.२६: शूद्रायां च ॥
१,४.२२ /_४.२७: असमानायां तु शूद्रात् पतितवृत्तिः ॥
{Stenzler-प्रत्यन्तरे -यां च}
१,४.२३ /_४.२८: अन्त्यः पापिष्ठः ॥
१,४.२४ /_४.२९: पुनन्ति साधवः पुत्राः ॥
१,४.२५ /_४.३०: त्रिपुरुषम् आर्षात् ॥
१,४.२६अ /_४.३१: दश दैवाद् ॥
१,४.२६ब् /_४.३२: दशैव प्राजापत्यात् ॥
१,४.२७ /_४.३३: दश पूर्वान् दश परान् आत्मानं चब्राह्मीपुत्रो ब्राह्मीपुत्रः ॥
{Stenzler-प्रत्यन्तरे दशापरान्}
____________________________________________
[ आनन्दाश्रमप्रतौ १,५ = V]
१,५.१ /_५.१: ऋताव्(ऋतु) उपेयात् ॥
१,५.२ /_५.२: सर्वत्र वा प्रतिषिद्धवर्जम् ॥
१,५.३ /_५.३: देवपितृमनुष्यभूतर्षिपूजकः ॥
१,५.४ /_५.४: नित्यस्वाध्यायः ॥
१,५.५अ /_५.५: पितृभ्यश् चोदकदानं ॥
१,५.५ब् /_५.६: यथोत्साहम् अन्यत् ॥
१,५.६ /_५.७: भार्यादिर् अग्निर् दायादिर् वा ॥
१,५.७ /_५.८: तस्मिन् गृह्याणि कर्माणि ॥
{Stenzler-प्रत्यन्तरे ओमित्त्: कर्माणि}
१,५.८ /_५.९: देवपितृमनुष्ययज्ञाः स्वाध्यायश् च बलिकर्म ॥
१,५.९ /_५.१०: अग्नाव् अग्निर् धन्वन्तरिर् विश्वे देवाः प्रजापतिःस्विष्टकृद् इति होमः ॥
{Stenzler-प्रत्यन्तरे होमाः}
१,५.१० /_५.११: दिग्देवताभ्यश् च यथास्वम् ॥
१,५.११ /_५.१२: द्वार्षु महद्भ्यः ॥
{Stenzler-प्रत्यन्तरे मरुद्भ्यः}
१,५.१२ /_५.१३: गृहदेवताभ्यः प्रविश्य ॥
१,५.१३ /_५.१४: ब्रह्मणे मध्ये ॥
- /_५.१५: अद्भ्य उदकुम्भे ॥
१,५.१४अ /_५.१६: आकाशायेत्य् अन्तरिक्षे
१,५.१४ब् बलिर् उत्क्षेप्यः ॥
१,५.१५ /_५.१७: नक्तंचरेभ्यश् च सायम् ॥
१,५.१६ /_५.१८: स्वस्तिवाच्य भिक्षादानम् अप्पूर्वम् ॥
१,५.१७ /_५.१९: ददातिषु चैवं धर्म्येषु ॥
१,५.१८ /_५.२०: समद्विगुणसाहस्रानन्त्यानि फलान्यब्राह्मणब्राह्मणश्रोत्रियवेदपारगेभ्यः ॥
१,५.१९ /_५.२१: गुर्वर्थनिवेशौषधार्थवृत्तिक्षीणयक्ष्यमाणाध्ययनाध्वसंयोगवैश्वजितेषु द्रव्यसंविभागो बहिर्वेदि ॥
१,५.२० /_५.२२: भिक्षमाणेषु कृतान्नम् इतरेषु ॥
१,५.२१ /_५.२३: प्रतिश्रुत्याप्य् अधर्मसंयुक्ताय न दद्यात् ॥
{Stenzler-प्रत्यन्तरे -युक्तेन}
१,५.२२ /_५.२४: क्रुद्धहृष्टभीतार्तलुब्धबालस्थविरमूढमत्तोन्मत्तवाक्यान्यनृतान्यपातकानि ॥
१,५.२३ /_५.२५: भोजयेत् पूर्वमतिथिकुमारव्याधितगर्भिणीस्ववासिनीस्थविराञ् जघन्यांश् ॥
१,५.२४ /_५.२६: आचार्यपितृसखीनां च निवेद्य पचनक्रिया ॥
१,५.२५ /_५.२७: ऋत्विगाचार्यश्वशुरपितृव्यमातुलानाम् उपस्थानेमधुपर्कः ॥
१,५.२६ /_५.२८: सम्वत्सरे पुनः ॥
१,५.२७ /_५.२९: यज्ञविवाहयोर् अर्वाक् ॥
१,५.२८ /_५.३०: राज्ञश् च श्रोत्रियस्य ॥
१,५.२९ /_५.३१: अश्रोत्रियस्यासनोदके ॥
१,५.३० /_५.३२: श्रोत्रियस्य तु पाद्यम् अर्घ्यम् अन्नविशेषांश् चप्रकारयेत् ॥
१,५.३१ /_५.३३: नित्यं वा संस्कारविशिष्टम् ॥
१,५.३२ /_५.३४: मध्यतो ऽन्नदानम् अवैद्ये साधुवृत्ते ॥
१,५.३३अ /_५.३५: विपरीतेषुतृणोदकभूमि ॥
{Stenzler-प्रत्यन्तरे विपरीते तु}
१,५.३३ब् /_५.३६: स्वागतम् अन्ततः ॥
१,५.३३च् /_५.३७: पूजानत्याशश् च ॥
१,५.३४ /_५.३८: शय्यासनावसथानुव्रज्योपासनानि सदृक्श्रेयसोःसमानानि ॥
{Stenzler-प्रत्यन्तरे समानि}
१,५.३५ /_५.३९: अल्पशो ऽपि हीने ॥
१,५.३६ /_५.४०: असमानग्रामो ऽतिथिरैकरात्रिको ऽधिवृक्षसूर्योपस्थायी ॥
१,५.३७ /_५.४१: कुशलानामयारोग्याणाम् अनुप्रश्नः ॥
१,५.३८ /_५.४२: अन्त्यं शूद्रस्य ॥
१,५.३९ /_५.४३: ब्राह्मणस्यानतिथिर् अब्राह्मणः ॥
१,५.४० /_५.४३: यज्ञे संवृतश् चेत् ॥
{Stenzler-प्रत्यन्तरे अयज्ञे संवृत्तश्}
१,५.४१ /_५.४४: भोजनं तु क्षत्रियस्योर्ध्वं ब्राह्मनेभ्यः ॥
१,५.४२ /_५.४५: अन्यान् भृत्यैः सहानृशंस्यार्थम् आनृशंस्यार्थम् ॥
{Stenzler-प्रत्यन्तरे -आनृशंसार्थम् आनृशंसार्थम्}
____________________________________________
[ आनन्दाश्रमप्रतौ १,६ = VI]
१,६.१ /_६.२: पादोपसम्ग्रहणं समवाये ऽन्वहम् ॥
१,६.२ /_६.२: अभिगम्य तु विप्रोष्य ॥
१,६.३ /_६.३: मातृपितृतद्बन्धूनां पूर्वजानां विद्यागुरूणांतद्गुरूणां च ॥
१,६.४ /_६.४: संनिपाते परस्य ॥
१,६.५ /_६.५: स्वनाम प्रोच्याहमयम् इत्य् अभिवादोज्ञसमवाये ॥
{Stenzler-प्रत्यन्तरे अज्ञसमवाये}
१,६.६ /_६.६: स्त्रीपुंयोगे ऽभिवादतो ऽनियमम् एके ॥
१,६.७ /_६.७: नाविप्रोष्य स्त्रीणाम् अमातृपितृव्यभार्याभगिनीनाम् ॥
१,६.८ /_६.८: नोपसंग्रहणं भ्रातृभार्याणां स्वसृऋणाम् ॥
{Stenzler-प्रत्यन्तरे श्वशुराश्च?}
१,६.९ /_६.९: ऋत्विक्छ्वशुरपितृव्यमातुलानां तु यवीयसांप्रत्युत्थानम् अभिवाद्याः ॥
{Stenzler-प्रत्यन्तरे न}
१,६.१० /_६.१०: तथान्यः पूर्वः पौरो ऽशीतिकावरःशूद्रो ऽप्य् अपत्यसमेन ॥
१,६.११ /_६.११: अवरो ऽप्य् आर्यः शूद्रेण ॥
१,६.१२ /_६.१२: नाम वास्य वर्जयेत् ॥
{Stenzler-प्रत्यन्तरे चास्य}
१,६.१३ /_६.१३: राज्ञश् चाजपः प्रेष्यः ॥
१,६.१४ /_६.१४: भो भवन्न् इति वयस्यः समाने ऽहनि जातः ॥
१,६.१५अ /_६.१५: दशवर्शवृद्धः पौरः ॥
१,६.१५ब् /_६.१६: पञ्चभिःकलाभरः ॥
१,६.१५च् /_६.१७: श्रोत्रियश् चारणस् त्रिभिः ॥
१,६.१६ /_६.१८: राजन्यवैश्यकर्मा विद्याहीनाः ॥
१,६.१७ /_६.१९: दीक्षितश् च प्राक् क्रयात् ॥
१,६.१८ /_६.२०: वित्तबन्धुकर्मजातिविद्यावयांसि मान्यानिपरबलीयांसि ॥
१,६.१९ /_६.२१: श्रुतं तु सर्वेभ्यो गरीयः ॥
१,६.२०अ /_६.२२: तन्मूलत्वाद् धर्मस्य
१,६.२०ब् /_६.२३: श्रुतेश् च ॥
१,६.२१ /_६.२४: चक्रिदशमीस्थानुग्राह्यवधूस्नातकराजभ्यः पथोदानम् ॥
१,६.२२ /_६.२५: राज्ञा तु श्रोत्रियाय श्रोत्रियाय ॥
____________________________________________
[ आनन्दाश्रमप्रतौ १,७ = VII]
१,७.१ /_७.१: आपत्कल्पो ब्राह्मनस्याब्राह्मणाद् विद्योपयोगः ॥
१,७.२ /_७.२: अनुगमनं शुश्रूषा ॥
१,७.३ /_७.३: समाप्ते ब्राह्मणो गुरुः ॥
१,७.४ /_७.४: याजनाध्यापनप्रतिग्रहाः सर्वेषाम् ॥
१,७.५ /_७.५: पूर्वः पूर्वो गुरुः ॥
१,७.६ /_७.६: तदलाभे क्षत्रवृत्तिः ॥
{Stenzler-प्रत्यन्तरे क्षत्रिय-}
१,७.७ /_७.७: तदलाभे वैश्यवृत्तिः ॥
१,७.८ /_७.८: तस्यापण्यम् ॥
१,७.९ /_७.९: गन्धरसकृतान्नतिलशानक्षौमाजिनानि ॥
१,७.१० रक्तनिर्णिक्ते वाससी ॥
{Stenzler-प्रत्यन्तरे -निक्ते}
१,७.११ /_७.११: क्षीरं सविकारम् ॥
१,७.१२ /_७.१२: मूलफलपुष्पौषधमधुमांसतृणोदकापथ्यानि ॥
१,७.१३ /_७.१३: पशवश् च हिंसासंयोगे ॥
१,७.१४ /_७.१४: पुरुशवशाकुमारीवेहतश् च नित्यम् ॥
१,७.१५ /_७.१५: भूमिव्रीहियवाजाव्यश्वऋषभधेन्वनडुहश् चैके ॥
१,७.१६ /_७.१६: नियमस् तु ॥
१,७.१७ /_७.१७: रसानां रसैः ॥
१,७.१८ /_७.१८: पशूनां च ॥
१,७.१९ /_७.१९: न लवणकृतान्नयोः ॥
१,७.२० /_७.२०: तिलानां च ॥
१,७.२१ /_७.२१: समेनामेन तु पक्वस्य संप्रत्यर्थे ॥
१,७.२२ /_७.२२: सर्वथा वृत्तिर् अशक्ताव् अशौद्रेण ॥
{Stenzler-प्रत्यन्तरे -था तु}
१,७.२३ /_७.२३: तद् अप्य् एके प्राणसंशये ॥
१,७.२४ /_७.२४: तद्वर्णसंकराभक्ष्यनियमस् तु ॥
१,७.२५ /_७.२५: प्राणसंशये ब्राह्मणो ऽपि शस्त्रम् आददीत ॥
१,७.२६ /_७.२६: राजन्यो वैश्यकर्म ॥
{Stenzler-प्रत्यन्तरे -कर्म वैश्यकर्म}
____________________________________________
[ आनन्दाश्रमप्रतौ १,८ = VIII]
१,८.१ /_८.१: द्वौ लोके धृतव्रतौ राजा ब्राह्मणश् च बहुश्रुतः ॥
१,८.२ /_८.२: तयोश् चतुर्विधस्य मनुष्यजातस्यान्तःसंज्ञानाम्चलनपतनसर्पणानाम् आयत्तं जीवनम् ॥
{Stenzler-प्रत्यन्तरे -सर्पाणाम्}
१,८.३ /_८.३: प्रसूतिरक्षणम् असंकरो धर्मः ॥
१,८.४ /_८.४: स एव बहुश्रुतो भवति ॥
{Stenzler-प्रत्यन्तरे एष}
१,८.५ /_८.५: लोकवेदवेदाङ्गवित् ॥
१,८.६ /_८.६: वाकोवाक्येतिहासपुराणकुशलः ॥
१,८.७ /_८.७: तदपेक्षस् तद्वृत्तिः ॥
१,८.८ /_८.८: चत्वारिंशत् संस्कारैः संस्कृतः ॥
{Stenzler-प्रत्यन्तरे -रिंशता}
१,८.९ /_८.९: त्रिषु कर्मस्व् अभिरतः ॥
१,८.१० /_८.१०: षट्सु वा ॥
१,८.११ /_८.११: सामयाचारिकेष्व् अभिविनीतः ॥
१,८.१२ /_८.१२: षड्भिः परिहार्यो राज्ञा ॥
१,८.१३ /_८.१३: अवध्यश् चाबन्ध्यश् चादण्ड्यश् चाबहिष्कार्यश्चापरिवाद्यश् चापरिहार्यश् चेति ॥
१,८.१४ /_८.१४: गर्भाधानपुंसवनसीमन्तोन्नयनजातकर्मनामकरणान्नप्राशनचौलोपनयनम् ॥
१,८.१५ /_८.१५: चत्वारि वेदव्रतानि ॥
१,८.१६ /_८.१६अ: स्नानं सहधर्मचारिणीसंयोगः ॥
१,८.१७ /_८.१६ब्: पञ्चानां यज्ञानाम् अनुष्ठानंदेवपितृमनुष्यभूतब्राह्मणाम् ॥
१,८.१८ /_८.१७: एतेषां च ॥
१,८.१९ /_८.१८: अष्टका पार्वणः श्राद्धम् श्रावण्याग्रहायणीचैत्र्याश्वयुजीति सप्त पाकयज्ञसम्स्थाः ॥
१,८.२० /_८.१९: अग्न्याधेयम् अग्निहोत्रं दर्शपूर्णमासावाग्रयणं चातुर्मास्यानि निरूढपशुबन्धः सौत्रामणीति सप्तहविर्यज्ञसम्स्थाः ॥
{Stenzler-प्रत्यन्तरे -पौर्ण-}
१,८.२१ /_८.२०: अग्निष्टोमो ऽत्यग्निष्टोम उक्थ्यः षोडशीवाजपेयो ऽतिरात्रो ऽप्तोर्याम इति सप्त सोमसंस्थाः ॥
१,८.२२ /_८.२१: इत्य् एते चत्वारिंशत्संस्काराः ॥
१,८.२३ /_८.२२: अथाष्टाव् आत्मगुणाः ॥
१,८.२४ /_८.२३: दया सर्वभूतेषु क्षान्तिर् अनसूया शौचम् अनायासोमङ्गलम् अकार्पण्यम् अस्पृहेति ॥
१,८.२५ /_८.२४: यस्यैते चत्वारिंशत्संस्कारा न चाष्टाव् आत्मगुणान स ब्रह्मणः सायुज्यं सालोक्यं गच्छति ॥
१,८.२६ /_८.२५: यस्य तु खलु संस्काराणाम् एकदेशो ऽप्य् अष्टाव् आत्मगुणा अथ स ब्रह्मणः सायुज्यं सालोक्यं चगच्छति ॥
{Stenzler-प्रत्यन्तरे चत्वारिंशत्संस्- ... गच्छति गछति}
____________________________________________
[ आनन्दाश्रमप्रतौ १,९ = IX]
१,९.१ /_९.१: स विधिपूर्वकं स्नात्वा भार्याम् अधिगम्ययथोक्तान् गृहस्थधर्मान् प्रयुञ्जान इमानि व्रतान्य् अनुकर्षेत् ॥
{Stenzler-प्रत्यन्तरे -पूर्वं}
१,९.२ स्नातकः ॥
१,९.३ /_९.२: नित्यं शुचिः सुगन्धिः स्नानशीलः ॥
{Stenzler-प्रत्यन्तरे -गन्धः}
१,९.४ /_९.३: सति विभवे न जीर्णमलवद्वासाः स्यात् ॥
१,९.५ /_९.४: न रक्तम् उल्बणम् अन्यधृतं वासो बिभृयात् ॥
१,९.६ /_९.५: न स्रगुपानहौ ॥
१,९.७ /_९.६: निर्णिक्तम् अशक्तौ ॥
१,९.८ /_९.७: न रूढश्मश्रुर् अकस्मात् ॥
१,९.९ /_९.८: नाग्निम् अपश् च युगपद् धारयेत् ॥
१,९.१० /_९.९: नाञ्जलिना पिबेत् ॥
१,९.११ /_९.१०: न तिष्ठन्न् उद्धृतोदकेनाचमेत् ॥
१,९.१२ /_९.११: न शूद्राशुच्येकपाण्यावर्जितेन ॥
१,९.१३ /_९.१२: न वाय्वग्निविप्रादित्यापो देवता गाश् च प्रतिपश्यन् वा मूत्रपुरीषामेध्यान् व्युदस्येत् ॥
{Stenzler-प्रत्यन्तरे -आनि}
१,९.१४ /_९.१३: नैता देवताः प्रति पादौ प्रसारयेत् ॥
१,९.१५ /_९.१४: न पर्णलोष्टाश्मभिर् मूत्रपुरीषापकर्षणं कुर्यात् ॥
१,९.१६ /_९.१५: न भस्मकेशनखतुषकपालमेध्यान्य् अधितिष्ठेत् ॥
{Stenzler-प्रत्यन्तरे -केशतुषकपालामेध्यान्य्}
१,९.१७ /_९.१६: न म्लेच्छाशुच्यधार्मिकैः सह संभाषेत ॥
१,९.१८ /_९.१७: संभाष्य पुण्यकृतो मनसा ध्यायेत् ॥
१,९.१९ /_९.१८: ब्राह्मणेन वा सह संभाषेत ॥
१,९.२० /_९.१९: अधेनुं धेनुभव्येति ब्रूयात् ॥
१,९.२१ /_९.२०: अभद्रं भद्रम् इति ॥
१,९.२२ /_९.२१: कपालं भगालम् इति ॥
१,९.२३ /_९.२२: मणिधनुर् इतीन्द्रधनुः ॥
१,९.२४ /_९.२३: गां धयन्तीं परस्मै नाचक्षीत ॥
१,९.२५ /_९.२४: न चैनाम् वारयेत् ॥
१,९.२६ /_९.२५: न मिथुनी भूत्वा शौचं प्रति विलम्बेत ॥
१,९.२७ /_९.२६: न च तस्मिन् शयने स्वाध्यायम् अधीयीत ॥
१,९.२८ /_९.२७: न चापररात्रम् अधीत्य पुनः प्रतिसंविशेत् ॥
१,९.२९ /_९.२८: नाकल्पां नारीम् अभिरमयेत् ॥
{Stenzler-प्रत्यन्तरे नाकल्यां}
१,९.३० /_९.२९: न रजस्वलाम् ॥
१,९.३१अ /_९.३०: न चैनां श्लिष्येन् ॥
१,९.३१ब् /_९.३१: न कन्याम् ॥
१,९.३२ /_९.३२: अग्निमुखोपधमनविगृह्यवादबहिर्गन्धमाल्यधारणपापीयसावलेखनभार्यासहभोजनाञ्जन्त्यवेक्षणकुद्वारप्रवेशनपादपादधावनासन्दीस्थभोजननदीबाहुतरणवृक्षविषमारोहणावरोहणप्राणव्यायच्छनानि वर्जयेत् ॥
{Stenzler-प्रत्यन्तरे च}
१,९.३३ /_९.३३: न सन्दिग्धां नावम् अधिरोहेत् ॥
१,९.३४ /_९.३४: सर्वत एवात्मानं गोपायेत् ॥
१,९.३५ /_९.३५: न प्रावृत्य शिरो ऽहनि पर्यटेत् ॥
१,९.३६ /_९.३६: प्रावृत्य रात्रौ ॥
{Stenzler-प्रत्यन्तरे -त्य तु}
१,९.३७ /_९.३७: मूत्रोच्चारे च ॥
१,९.३८ /_९.३८: न भूमाव् अनन्तर्धाय ॥
१,९.३९ /_९.३९: नाराच् चावसथात् ॥
१,९.४० /_९.४०: न भस्मकरीषकृष्टच्छायापथिकाम्येषु ॥
१,९.४१ /_९.४१: उभे मूत्रपुरीषे तु दिवा कुर्याद् उदङ्मुखः ॥
{Stenzler-प्रत्यन्तरे ओमित्त्: तु}
१,९.४२ /_९.४२: संध्ययोश् च ॥
१,९.४३ /_९.४३: रात्रौ दक्षिणामुखः ॥
{Stenzler-प्रत्यन्तरे -त्रौ तु}
१,९.४४ /_९.४४: पालाशम् आसनं पादुके दन्तधावनम् इति च वर्जयेत् ॥
१,९.४५ /_९.४५: सोपानत्करश्चासनाभिवादननमस्कारान् वर्जयेत् ॥
{Stenzler-प्रत्यन्तरे सोपानत्कश्चाशनासनाभि-}
१,९.४६ /_९.४६: न पूर्वाह्णमध्यंदिनापराह्णान् अफलान् कुर्याद्यथाशक्ति धर्मार्थकामेभ्यः ॥
१,९.४७ /_९.४७: तेषु तु धर्मोत्तरह् स्यात् ॥
१,९.४८ /_९.४८: न नग्नां परयोषितम् ईक्षेत ॥
१,९.४९ /_९.४९: न पदासनम् आकर्षेत् ॥
१,९.५० /_९.५०: न शिश्नोदरपाणिपादवाक्चक्षुश्चापलानि कुर्यात् ॥
१,९.५१ /_९.५१: छेदनभेदनविलेखनविमर्दनावस्फोटनानिनाकस्मात् कुर्यात् ॥
१,९.५२ /_९.५२: नोपरि वत्सतन्तीं गच्छेत् ॥
१,९.५३ /_९.५३: न कुलंकुलः स्यात् ॥
१,९.५४ /_९.५४: न यज्ञम् अवृतो गच्छेत् ॥
१,९.५५ /_९.५५: दर्शनाय तु कामम् ॥
१,९.५६ /_९.५६: न भक्षान् उत्सङ्गे भक्षयेत् ॥
{Stenzler-प्रत्यन्तरे भक्ष्यान्}
१,९.५७ /_९.५७: न रात्रौ प्रेष्याहृतम् ॥
१,९.५८ /_९.५८: उद्धृतस्नेहविलपनपिण्याकमथितप्रभृतीनिचात्तवीर्याणि नाश्नीयात् ॥
{Stenzler-प्रत्यन्तरे -विलयन-}
१,९.५९ /_९.५९: सायंप्रातस् त्व् अन्नम् अभिपूजितम् अनिन्दन् भुञ्जीत ॥
१,९.६० /_९.६०: न कदाचिद् रात्रौ नग्नः स्वपेत् ॥
१,९.६१ /_९.६१: स्नायाद् वा ॥
१,९.६२ /_९.६२: यच् चात्मवन्तो वृद्धाः सम्यग्विनीतादम्भलोभमोहवियुक्ता वेदविद आचक्षते तत् समाचरेत् ॥
१,९.६३ /_९.६३: योगक्षेमार्थम् ईश्वरम् अधिगच्छेत् ॥
१,९.६४ /_९.६४: नान्यम् अन्यत्र देवगुरुधार्मिकेभ्यः ॥
१,९.६५ /_९.६५: प्रभूतैधोदकयवसकुशमाल्योपनिष्क्रमणमार्यजन भूयिष्ठम् अनलससमृद्धं धार्मिकाधिष्ठितं निकेतनमावसितुं यतेत ॥
१,९.६६ /_९.६६: प्रशस्तमङ्गल्यदेवतायतनचतुष्पदम् प्रदक्षिणम् आवर्तेत ॥
{Stenzler-प्रत्यन्तरे -चतुष्पथादीन्}
१,९.६७ /_९.६७: मनसा वा तत्समग्रम् आचारम् अनुपालयेद् आपत्कल्पः ॥
{Stenzler-प्रत्यन्तरे ओमित्त्: तत्}
१,९.६८ /_९.६८: सत्यधर्मा ॥
१,९.६९ /_९.६९: आर्यवृत्तिः ॥
१,९.७० /_९.७०: शिष्टाध्यापकः ॥
१,९.७१ /_९.७१: शौचशिष्टः ॥
१,९.७२ /_९.७२: श्रुतिनिरतः स्यात् ॥
१,९.७३ /_९.७३: नित्यम् अहिंस्रो मृदुर् दृढकारी दमदानशीलः ॥
१,९.७४ /_९.७४: एवम् आचारो मातापितरौ पूर्वापरांश् च सम्बन्धान्दुरितेभ्यो मोक्षयिष्यन् स्नातकः शश्वद्ब्रह्मलोकान् न च्यवते न च्यवते ॥
{Stenzler-प्रत्यन्तरे पूर्वापरान् सम्बन्धान्}
____________________________________________
[ आनन्दाश्रमप्रतौ २,१ = X]
२,१.१ /०.१: द्विजातीनाम् अध्ययनम् इज्या दानम् ॥
२,१.२ /०.२: ब्राह्मनस्याधिकाः प्रवचनयाजनप्रतिग्रहाः ॥
२,१.३ /०.३: पूर्वेषु नियमस् तु ॥
२,१.४ /०.४: आचार्यज्ञातिप्रियगुरुधनविद्यानियमेषु ब्रह्मणःसंप्रदानम् अन्यत्र यथोक्तात् ॥
२,१.५ /०.५: कृषिवाणिज्ये वास्वयंकृते ॥
{Stenzler-प्रत्यन्तरे च-}
२,१.६ /०.६: कुसीदं च ॥
२,१.७ /०.७: राज्ञो ऽधिकं रक्षणं सर्वभूतानाम् ॥
२,१.८ /०.८: न्याय्यदण्डत्वम् ॥
२,१.९ /०.९: बिभृयाद् ब्राह्मणाञ् श्रोत्रियान् ॥
२,१.१० /०.१०: निरुत्साहांश् च ब्राह्मणान् ॥
{Stenzler-प्रत्यन्तरे चाब्राह्म-}
२,१.११ /०.११: अकरांश् च ॥
२,१.१२ /०.१२: उपकुर्वाणांश् च ॥
२,१.१३ /०.१३: योगश् च विजये ॥
२,१.१४ /०.१४: भये विशेषेण ॥
२,१.१५ /०.१५: चर्या च रथधनुर्भ्याम् ॥
२,१.१६ /०.१६: सङ्ग्रामे संस्थानम् अनिवृत्तिश् च ॥
२,१.१७ /०.१७: न दोषो हिंसायाम् आहवे ॥
२,१.१८ /०.१८: अन्यत्रव्यश्वसारथ्यायुधकृताञ्जलिप्रकीर्णकेशपराङ्मुखोपविष्टस्थलवृक्षाधिरूढदूतगोब्राह्मणवादिभ्यः ॥
{Stenzler-प्रत्यन्तरे -वृक्षारूढ-}
२,१.१९ /०.१९: क्षत्रियश् चेद् अन्यस् तम् उपजीवेत् तद्वृत्त्या ॥
२,१.२० /०.२०: जेता लभेत सांग्रामिकं वित्तम् ॥
२,१.२१ /०.२१: वाहनं तु राज्ञः ॥
२,१.२२ /०.२२: उद्धारश् चापृथग्जये ॥
{Stenzler-प्रत्यन्तरे च पृथग्जये}
२,१.२३ /०.२३: अन्यत् तु यथार्हं भाजयेद् राजा ॥
२,१.२४ /०.२४: राज्ञो बलिदानं कर्षकैर्दशमम् अष्टमं षष्ठं वा ॥
{Stenzler-प्रत्यन्तरे राज्ञे बलिर् दानं}
२,१.२५ /०.२५: पशुहिरण्ययोर् अप्य् एके पञ्चाशद्भागः ॥
२,१.२६ /०.२६: विंशतिभागः शुल्कः पण्ये ॥
२,१.२७ /०.२७: मूलफलपुष्पौषधमधुमांसतृनेन्धनानांषष्ठः ॥
{Stenzler-प्रत्यन्तरे षष्ठ्यः}
२,१.२८ /०.२८: तद्रक्षणधर्मित्वात् ॥
२,१.२९ /०.२९: तेषु तु नित्ययुक्तः स्यात् ॥
२,१.३० /०.३०: अधिकेन वृत्तिः ॥
२,१.३१ /०.३१: शिल्पिनो मासि मास्य् एकैकं कर्म कुर्युः ॥
२,१.३२ /०.३२: एतेनात्मनोपजीविनो व्याख्याताः ॥
{Stenzler-प्रत्यन्तरे -आत्मनोपजीविनो}
२,१.३३ /०.३३: नौचक्रीवन्तश् च ॥
२,१.३४ /०.३४: भक्तं तेभ्यो दद्यात् ॥
२,१.३५ /०.३५: पण्यं वणिग्भिर् अर्थापचयेन देयम् ॥
{Stenzler-प्रत्यन्तरे अर्घाप-}
२,१.३६ /०.३६: प्रनष्टम् अस्वामिकम् अधिगम्य राज्ञे प्रब्रूयुः ॥
२,१.३७ /०.३७: विख्याप्य संवत्सरं राज्ञा रक्ष्यम् ॥
२,१.३८ /०.३८: ऊर्ध्वम् अधिगन्तुश् चतुर्थं राज्ञः शेषः ॥
२,१.३९ /०.३९: स्वामी रिक्थक्रयसंविभागपरिग्रहाधिगमेषु ॥
२,१.४० /०.४०: ब्राह्मणस्याधिकं लब्धम् ॥
२,१.४१ /०.४१: क्षत्रियस्य विजितम् ॥
२,१.४२ /०.४२: निर्विष्टं वैश्यशूद्रयोः ॥
२,१.४३ /०.४३: निध्यधिगमो राजधनम् ॥
२,१.४४ /०.४४: ब्राह्मणस्याभिरूपस्य ॥
{Stenzler-प्रत्यन्तरे न ब्रा-}
२,१.४५ /०.४५: अब्राह्मणो ऽप्य् आख्याता षष्ठं लभेतेत्य् एके ॥
२,१.४६ /०.४६: चौरहृतम् अपजित्य यथास्थानम् गमयेत् ॥
{Stenzler-प्रत्यन्तरे अवजित्य}
२,१.४७ /०.४७: कोशाद् वा दद्यात् ॥
२,१.४८ /०.४८अ: रक्ष्यं बालधनम् आ व्यवहारप्रापणात् ॥
२,१.४९ /०.४८ब्: समावृत्तेर् वा ॥
२,१.५० /०.४९: वैश्यस्याधिकं कृषिवणिक्पाशुपाल्यकुसीदम् ॥
२,१.५१ /०.५०: शूद्रश् चतुर्थो वर्ण एकजातिः ॥
२,१.५२ /०.५१: तस्यापि सत्यम् अक्रोधः शौचम् ॥
२,१.५३ /०.५२: आचमनार्थे पाणिपादप्रक्षालनम् एवैके ॥
{Stenzler-प्रत्यन्तरे इत्य् एके}
२,१.५४ /०.५३: श्राद्धकर्म ॥
२,१.५५ /०.५४: भृत्यभरणम् ॥
२,१.५६ /०.५५: स्वदारवृत्तिः ॥
२,१.५७ /०.५६: परिचर्या चोत्तरेषाम् ॥
२,१.५८ /०.५७: तेभ्यो वृत्तिं लिप्सेत ॥
(Stenzler-प्रतौ १०.५८ सेए आनन्दाश्रमप्रतौ २,१.६०)
२,१.५९ तत्र पूर्वं पूर्वं परिचरेत् ॥
२,१.६० /०.५८: जीर्णान्य् उपानच्छत्रवासःकूर्चादीनि ॥
{Stenzler-प्रत्यन्तरे -कूर्चानि}
२,१.६१ /०.५९: उच्छिष्टाशनम् ॥
२,१.६२ /०.६०: शिल्पवृत्तिश् च ॥
२,१.६३ /०.६१: यं चार्यम् आश्रयेद् भर्तव्यस् तेन क्षीणो ऽपि ॥
{Stenzler-प्रत्यन्तरे आश्रयीत}
२,१.६४ /०.६२: तेन चोत्तरः ॥
२,१.६५ /०.६३: तदर्थो ऽस्य निचयः स्यात् ॥
२,१.६६ /०.६४: अनुज्ञातो ऽस्य नमस्कारो मन्त्रः ॥
२,१.६७ /०.६५: पाकयज्ञैः स्वयं यजेतेत्य् एके ॥
२,१.६८ /०.६६: सर्वे चोत्तरोत्तरं परिचरेयुः ॥
२,१.६९ /०.६७: आर्यानार्ययोर् व्यतिक्षेपे कर्मणः साम्यं ॥
{Stenzler-प्रत्यन्तरे साम्यम्}
____________________________________________
[ आनन्दाश्रमप्रतौ २,२ = XI]
२,२.१ /१.१: राजा सर्वस्येष्टे ब्राह्मनवर्जम् ॥
२,२.२ /१.२: साधुकारी साधुवादी ॥
{Stenzler-प्रत्यन्तरे -री स्यात् सा-}
२,२.३ /१.३: त्रय्याम् आन्वीक्षिक्या वाभिविनीतः ॥
{Stenzler-प्रत्यन्तरे -क्षिक्यां चा-}
२,२.४ /१.४: शुचिर् जितेन्द्रियो गुणवत्सहायोपायसंपन्नः ॥
२,२.५ /१.५: समः प्रजासु स्यात् ॥
२,२.६ /१.६: हितम् आसां कुर्वीत ॥
{Stenzler-प्रत्यन्तरे हितं चासां}
२,२.७ /१.७: तम् उपर्यासीनम् अधस्ताद् उपासीरन्न् अन्येब्राह्मणेभ्यः ॥
२,२.८ /१.८: ते ऽप्य् एनं मन्येरन् ॥
२,२.९ /१.९: वर्णान् आश्रमांश् च न्यायतो ऽभिरक्षेत् ॥
२,२.१० /१.१०: चलतश् चैतान् स्वधर्मे स्थापयेत् ॥
{Stenzler-प्रत्यन्तरे एनान्}
२,२.११ /१.११: धर्मस्य ह्य् अंशभाग् भवतीति ॥
{Stenzler-प्रत्यन्तरे विज्ञायते}
२,२.१२ /१.१२: ब्राह्मनं च पुरोदधीतविद्याभिजनवाग्रूपवयःशीलसंपन्नं न्यायवृत्तं तपस्विनम् ॥
{Stenzler-प्रत्यन्तरे पुरोदधीत}(पुरोहित)
२,२.१३ /१.१३: तत्प्रसूतः कर्माणि कुर्वीत ॥
२,२.१४ /१.१४: ब्रह्मप्रसूतं हि क्षत्त्रम् ऋध्यते न व्यथत इति चविज्ञायते ॥
{Stenzler-प्रत्यन्तरे इति विज्ञायते}
२,२.१५ /१.१५: यानि च दैवोत्पातचिन्तकाः प्रब्रूयुस् तान्याद्रियेत ॥
२,२.१६ /१.१६: तदधीनम् अपि ह्य् एके योगक्षेमं प्रतिजानते ॥
२,२.१७ /१.१७: शान्तिपुण्याहस्वस्त्ययनायुष्मन्मङ्गलसंयुक्तान्याभ्युदयिकानि विद्वेषणसंवननाभिचारद्विषद्व्यृद्धियुक्तानि चशालाग्नौ कुर्यात् ॥
{Stenzler-प्रत्यन्तरे आयुष्यमङ्गल-}
२,२.१८ /१.१८: यथोक्तम् ऋत्विजो ऽन्यानि ॥
२,२.१९ /१.१९: तस्य च व्यवहारो वेदो धर्मशास्त्राण्य् अङ्गान्युपवेदाः पुराणम् ॥
{Stenzler-प्रत्यन्तरे ओमित्त्: च; उपवेदाः}
२,२.२० /१.२०: देशजातिकुलधर्माश् चाम्नायैर् अविरुद्धाः प्रमाणम् ॥
२,२.२१ /१.२१: कर्षकवणिक्पशुपालकुसीदिकारवः स्वे स्वे वर्गे ॥
२,२.२२ /१.२२: तेभ्यो यथाधिकारम् अर्थान् प्रत्यवहृत्यधर्मव्यवस्था ॥
२,२.२३ /१.२३: न्यायाधिगमे तर्को ऽभ्युपायः ॥
२,२.२४ /१.२४: तेनाभ्यूह्य यथास्थानं गमयेत् ॥
२,२.२५ /१.२५: विप्रतिपत्तौ त्रैविद्यवृद्धेभ्यः प्रत्यवहृत्यनिष्ठां गमयेत् ॥
२,२.२६ /१.२६: तथा ह्य् अस्य निःश्रेयसं भवति ॥
२,२.२७ /१.२७: ब्रह्म क्षत्त्रेण संपृक्तं देवपितृमनुष्यान्धारयतीति विज्ञायते ॥
{Stenzler-प्रत्यन्तरे पृक्तं}
२,२.२८ /१.२८: दण्डो दमनाद् इत्य् आहुस् तेनादान्तान् दमयेत् ॥
२,२.२९अ /१.२९अ: वर्णाश्रमाः स्वस्वधर्मनिष्ठाः प्रेत्य कर्मफलमनुभूय ततः शेषेन विशिष्टदेशजातिकुलरूपायुःश्रुतचित्रवित्तसुखमेधसो ॥
{Stenzler-प्रत्यन्तरे वर्णा आश्रमाश् च स्वधर्म-;-श्रुतवृत्त-}
२,२.२९ब् /१.२९ब्: जन्म प्रतिपद्यन्ते ॥
{Stenzler-प्रत्यन्तरे प्रपद्यन्ते}
२,२.३० /१.३०: विष्वञ्चो विपरीता नश्यन्ति ॥
२,२.३१ /१.३१: तान् आचार्योपदेशो दण्डश् च पालयते ॥
२,२.३२ /१.३२: तस्माद् राजाचार्याव् अनिन्द्याव् अनिन्द्यौ ॥
____________________________________________
[ आनन्दाश्रमप्रतौ २,३ = XII]
२,३.१ /२.१: शूद्रो द्विजातीन् अभिसंधायाभिहत्य चवाग्दण्डपारुष्याभ्याम् अङ्गमोच्यो येनोपहन्यात् ॥
{Stenzler-प्रत्यन्तरे अतिसंधायाभिहत्य वाग्-;अङ्गं मोच्यो}
२,३.२ /२.२: आर्यस्त्र्यभिगमने लिङ्गोद्धारः स्वहरणं च ॥
{Stenzler-प्रत्यन्तरे सर्वस्वहरणं च}
२,३.३ /२.३: गोप्ता चेद् वधो ऽधिकः ॥
२,३.४अ /२.४: अथ हास्य वेदम् उपशृण्वतस् त्रपुजतुभ्यांश्रोत्रप्रतिपूरणम् ॥
२,३.४ब् /२.५: उदाहरणे जिह्वाच्छेदो ॥
२,३.४च् /२.६: धारणेशरीरभेदः ॥
२,३.५ /२.७: आसनशयनवाक्पथिषु समप्रेप्सुर् दण्ड्यः ॥
२,३.६ /२.८: शतं क्षत्रियो ब्राह्मणाक्रोशे ॥
- /२.९: दण्डपारुष्ये द्विगुणम् ॥
२,३.७ /२.१०: अध्यर्धं वैश्यः ॥
२,३.८ /२.११: ब्राह्मणस् तु क्षत्रिये पञ्चाशत् ॥
२,३.९ /२.१२: तदर्धं वैश्ये ॥
२,३.१० /२.१३: न शूद्रे किंचित् ॥
२,३.११ /२.१४: ब्राह्मणराजन्यवत् क्षत्रियवैश्यौ ॥
२,३.१२ /२.१५: अष्टापाद्यं स्तेयकिल्बिषं शूद्रस्य ॥
२,३.१३ /२.१६: द्विगुणोत्तराणीतरेषां प्रतिवर्णम् ॥
२,३.१४ /२.१७: विदुषो ऽतिक्रमे दण्डभूयस्त्वम् ॥
२,३.१५ /२.१८: फलहरितधान्यशाकादाने पञ्चकृष्णलम् अल्पम् ॥
{Stenzler-प्रत्यन्तरे अल्पे}
२,३.१६ /२.१९: पशुपीडिते स्वामिदोषः ॥
२,३.१७ /२.२०: पालसंयुक्ते तु तस्मिन् ॥
२,३.१८ /२.२१: पथि क्षेत्रे ऽनावृते पालक्षेत्रिकयोः ॥
२,३.१९ /२.२२: पञ्च माषा गवि ॥
२,३.२० /२.२३: षड् उष्ट्रखरे ॥
२,३.२१ /२.२४: अश्वमहिष्योर् दश ॥
{Stenzler-प्रत्यन्तरे महिषयोर्}
२,३.२२ /२.२५: अजाविषु द्वौ द्वौ ॥
२,३.२३ /२.२६: सर्वविनाशे शदः ॥
२,३.२४ /२.२७: शिष्टाकरणे प्रतिषिद्धसेवायां च नित्यंचैलपिण्डाद् ऊर्ध्वं स्वहरणम् ॥
{Stenzler-प्रत्यन्तरे चेल}
२,३.२५ /२.२८: गोऽग्न्यर्थे तृणमेधान् वीरुद्वनस्पतीनां चपुष्पाणि स्ववद् आददीत फलानि चापरिवृतानाम् ॥
२,३.२६ /२.२९: कुसीदवृद्धिर् धर्म्या विंशतिः पञ्चमाषिकी मासम् ॥
२,३.२७ /२.३०: नातिसांवत्सरीम् एके ॥
२,३.२८ /२.३१: चिरस्थाने द्वैगुण्यं प्रयोगस्य ॥
२,३.२९ /२.३२: भुक्ताधिर् न वर्धते ॥
२,३.३० /२.३३: दित्सतो ऽवरुद्धस्य च ॥
२,३.३१ /२.३४: चक्रकालवृद्धिः ॥
२,३.३२ /२.३५: कारिताकायिकाशिखाधिभोगाश् च ॥
२,३.३३ /२.३६: कुसीदं पशूपजलोमक्षेत्रशदवाह्येषु नातिपञ्चगुणम् ॥
२,३.३४ /२.३७: अजडापौगण्डधनं दशवर्षभुक्तं परैः संनिधौभोक्तुः ॥
{Stenzler-प्रत्यन्तरे -पोगण्ड-}
२,३.३५ /२.३८: न श्रोत्रियप्रव्रजितराजपुर्षैः ॥
{Stenzler-प्रत्यन्तरे -राजन्य-}
२,३.३६ /२.३९: पशुभूमिस्त्रीणाम् अनतिभोगः ॥
२,३.३७ /२.४०: रिक्थभाज ऋणं प्रतिकुर्युः ॥
२,३.३८ /२.४१: प्रातिभाव्यवणिक्शुल्कमद्यद्यूतदण्डाः पुत्रान्नाभ्याभवेयुः ॥
{Stenzler-प्रत्यन्तरे -दण्डा न पुत्रान् अध्याभवेयुः}
२,३.३९ /२.४२: निध्यन्वाधियाचितावक्रीताधयो नष्टाह् सर्वाननिन्दितान् पुरुषापराधेन ॥
{Stenzler-प्रत्यन्तरे अनिन्दितानपुरुष-}
२,३.४० /२.४३: स्तेनः प्रकीर्णकेषो मुसली राजानम् इयात्कर्माचक्षानः ॥
२,३.४१ /२.४४: पूतो वधमोक्षाभ्याम् ॥
२,३.४२ /२.४५: अघ्नन्न् एनस्वी राजा ॥
२,३.४३ /२.४६: न शारीरो ब्राह्मणदण्डः ॥
२,३.४४ /२.४७: कर्मवियोगविख्यापनविवासनाङ्ककरणानि ॥
२,३.४५ /२.४८: अप्रवृत्तौ प्रायश्चित्ती सः ॥
{Stenzler-प्रत्यन्तरे अवृत्तौ}
२,३.४६ /२.४९: चोरसमः सचिवो मतिपूर्वे ॥
२,३.४७ /२.५०: प्रतिग्रहीताप्य् अधर्मसंयुक्ते ॥
२,३.४८ /२.५१: पुरुषशक्त्यपराधानुबन्धविज्ञानाद् दण्डनियोगः ॥
२,३.४९ /२.५२: अनुज्ञानं वा वेदवित्समवायवचनाद्वेदवित्समवायवचनात् ॥
____________________________________________
[ आनन्दाश्रमप्रतौ २,४ = XIII]
२,४.१ /३.१: विप्रतिपत्तौ साक्षिनिमित्ता सत्यव्यवस्था ॥
२,४.२ /३.२: बहवः स्युर् अनिन्दिताः स्वकर्मसु प्रात्ययिका राज्ञांनिष्प्रीत्यनभितापाश् चान्यतरस्मिन् ॥
{Stenzler-प्रत्यन्तरे राज्ञा निष्-}
२,४.३ /३.३: अपि शूद्राः ॥
२,४.४ /३.४: ब्राह्मणस् त्व् अब्राह्मणवचनाद् अनवरोध्यो ऽनिबद्धश्चेत् ॥
२,४.५ /३.५: नासमवेतापृष्टाः प्रब्रूयुः ॥
{Stenzler-प्रत्यन्तरे -ता अपृष्टाः}
२,४.६ /३.६: अवचने ऽन्यथावचने च दोषिणः(दोष-) स्युः ॥
{Stenzler-प्रत्यन्तरे अवचनेच दोषिणः}
२,४.७ /३.७: स्वर्गः सत्यवचने विपर्यये नरकः ॥
२,४.८ /३.८: अनिबद्धैर् अपि वक्तव्यम् ॥
२,४.९ /३.९: न पीडाकृते निबन्धः ॥
२,४.१० /३.१०: प्रमत्तोक्ते च ॥
{Stenzler-प्रत्यन्तरे प्रमाद-}
२,४.११ /३.११: साक्षिसभ्यराजकर्तृषु दोषो धर्मतन्त्रपीडायाम् ॥
२,४.१२ /३.१२: शपथेनैके सत्यकर्म ॥
२,४.१३ /३.१३: तद्देवराजब्राह्मणसंसदि स्याद् अब्राह्मणानाम् ॥
२,४.१४ /३.१४: क्षुद्रपश्वनृते साक्षी दश हन्ति ॥
२,४.१५ /३.१५: गोश्वपुरुषभूमिषु दशगुणोत्तरान् ॥
{Stenzler-प्रत्यन्तरे गो ऽश्व-}
२,४.१६ /३.१६: सर्वं वा भूमौ ॥
२,४.१७ /३.१७: हरणे नरकः ॥
२,४.१८ /३.१८: भूमिवद् अप्सु ॥
२,४.१९ /३.१९: मैथुनसंयोगे च ॥
२,४.२० /३.२०: पशुवन् मधुसर्पिषोः ॥
२,४.२१ /३.२१: गोवद् वस्त्रहिरण्यधान्यब्रह्मसु ॥
२,४.२२ /३.२२: यानेषु अश्ववत् ॥
२,४.२३ /३.२३: मिथ्यावचने याप्यो दण्ड्यश् च साक्षी ॥
२,४.२४ /३.२४: नानृतवचने दोषो जीवनं चेत् तदधीनम् ॥
२,४.२५ /३.२५: न तु पापीयसो जीवनम् ॥
२,४.२६ /३.२६: राजा प्राड्विवाको ब्राह्मणो वा शास्त्रवित् ॥
२,४.२७ /३.२७: प्राड्विवाकम् अध्याभवेत् ॥
२,४.२८ /३.२८: संवत्सरं प्रतीक्षेताप्रतिभायाम् ॥
२,४.२९ /३.२९: धेन्वनडुत्स्त्रीप्रजननसंयुंक्ते चशीघ्रम् ॥
२,४.३० /३.३०: आत्ययिके च ॥
२,४.३१ /३.३१: सर्वधर्मेभ्यो गरीयः प्राड्विवाके सत्यवचनंसत्यवचनम् ॥
____________________________________________
[ आनन्दाश्रमप्रतौ २,५ = XIV]
२,५.१ /४.१: शावम् आशौचं दशरात्रम् अनृत्विग्(ऋत्विज्)दीक्षितब्रह्मचारिणां सपिण्डानाम् ॥
२,५.२ /४.२: एकादशरात्रं क्षत्रियस्य ॥
२,५.४अ /४.३: द्वादशरात्रं वैश्यस्य ॥
२,५.४ब् /४.४: अर्धमासम् एके ॥
२,५.४ /४.५: मासम् शूद्रस्य ॥
२,५.५ /४.६: तच् चेद् अन्तः पुनर् आपतेच् छेषेण शुध्येरन् ॥
२,५.६ /४.७: रात्रिशेषे द्वाभ्याम् ॥
२,५.७ /४.८: प्रभाते तिसृभिः ॥
२,५.८ /४.९: गोब्राह्मणहतानाम् अन्वक्षम् ॥
२,५.९ /४.१०: राजक्रोधाच् च ॥
२,५.१० /४.११: युद्धे ॥
२,५.११ /४.१२: प्रायानाशकशस्त्राग्निविषोदकोद्बन्धनप्रपतनैश् चेच्छताम् ॥
२,५.१२ /४.१३: पिण्डनिवृत्तिः सप्तमे पञ्चमे वा ॥
२,५.१३ /४.१४: जनने ऽप्य् एवम् ॥
२,५.१४अ /४.१५: मातापित्रोस्(पितृ) तत् ॥
२,५.१४ब् /४.१६: मातुर् वा ॥
२,५.१५ /४.१७: गर्भमाससमारात्रीः स्रंसने गर्भस्य ॥
२,५.१६ /४.१८: त्र्यहं वा ॥
२,५.१७ /४.१९: श्रुत्वा चोर्ध्वं दशम्याः पक्षिणीम् ॥
२,५.१८ /४.२०: असपिण्डे योनिसंबन्धे सहाध्यायिनि च ॥
२,५.१९ /४.२१: सब्रह्मचारिण्य् एकाहम् ॥
२,५.२० /४.२२: श्रोत्रिये चोपसंपन्ने ॥
२,५.२१ /४.२३: प्रेतोपस्पर्शने दशरात्रम् आशौचम् अभिसंधाय चेत् ॥
२,५.२२ /४.२४: उक्तं वैश्यशूद्रयोः ॥
२,५.२३ /४.२५: आर्तवीर् वा ॥
२,५.२४ /४.२६: पूर्वयोश् च ॥
२,५.२५ /४.२७: त्र्यहं वा ॥
२,५.२६ /४.२८: आचार्यतत्पुत्रस्त्रीयाज्यशिष्येषु चैवम् ॥
२,५.२७ /४.२९: अवरश् चेद् वर्णः पूर्ववर्णम् उपस्पृशेत् पूर्वोवावरं तत्र शवोक्तम् आशौचम् ॥
{Stenzler-प्रत्यन्तरे पूर्वं वर्णम्}
२,५.२८ /४.३०: पतितचण्डालसूतिकोदक्याशवस्पृष्टितत्स्पृष्ट्युपस्पर्शनेसचैलोदकोपस्पर्शनाच् छुध्येत् ॥
{Stenzler-प्रत्यन्तरे सचेल-}
२,५.२९ /४.३१: शवानुगमने च ॥
२,५.३० /४.३२: शुनश् च ॥
२,५.३१ /४.३२: यद् उपहन्याद् इत्य् एके ॥
२,५.३२ /४.३४: उदकदानं सपिण्डैः कृतचूडस्य ॥
{Stenzler-प्रत्यन्तरे कृतजटस्य}
२,५.३३ /४.३५: तत्स्त्रीणां च ॥
२,५.३४ /४.३६: एके प्रत्तानाम् ॥
२,५.३५ /४.३७: अधःशय्यासनिनो ब्रह्मचारिणः सर्वे ॥
२,५.३६ /४.३८: न मार्जयीरन् ॥
२,५.३७ /४.३९: न मांसं भक्षयेयुर् आ प्रदानात् ॥
२,५.३८ /४.४०: प्रथमतृतीयसप्तमनवमेषूदकक्रिया ॥
{Stenzler-प्रत्यन्तरे तृतीयपञ्चम-}
२,५.३९ /४.४१: वाससां च त्यागः ॥
२,५.४० /४.४२: अन्ते त्व् अन्त्यानाम् ॥
{Stenzler-प्रत्यन्तरे अन्त्ये}
२,५.४१ /४.४३: दन्तजन्मादि मातापितृभ्याम् ॥
२,५.४२ /४.४४: बालदेशान्तरितप्रव्रजितासपिण्डानां सद्यः शौचम् ॥
२,५.४३ /४.४५: राज्ञां च कार्यविरोधात् ॥
२,५.४४ /४.४६: ब्राह्मणस्य च स्वाध्यायनिवृत्त्यर्थम्स्वाध्यायनिवृत्त्यर्थम् ॥
{Stenzler-प्रत्यन्तरे स्वाध्यायानिवृत्त्य्-}
____________________________________________
[ आनन्दाश्रमप्रतौ २,६ = XV]
२,६.१ /५.१: अथ श्राद्धम् ॥
२,६.२ /५.२: अमावास्यायां पितृभ्यो दद्यात् ॥
२,६.३ /५.३: पञ्चमीप्रभृतिषु वापरपक्षस्य ॥
{Stenzler-प्रत्यन्तरे -प्रभृति वा-}
२,६.४ /५.४: यथाश्रद्धं सर्वस्मिन् वा ॥
२,६.५ /५.५: द्रव्यदेशब्राह्मणसंनिधाने वा कालनियमः ॥
{Stenzler-प्रत्यन्तरे वाकालनियमः}
२,६.६ /५.६: शक्तितः प्रकर्षेद् गुणसंस्कारविधिर् अन्नस्य ॥
{Stenzler-प्रत्यन्तरे -विधिनान्नस्य}
२,६.७ /५.७: नवावरान् भोजयेद् अयुजः ॥
२,६.८ /५.८: यथोत्साहं वा ॥
२,६.९ /५.९: श्रोत्रियान् वाग्रूपवयःशीलसंपन्नान् ॥
२,६.१० /५.१०: युवभ्यो दानं प्रथमम् ॥
२,६.११ /५.११: एके पितृवत् ॥
२,६.१२ /५.१२: न च तेन मित्रकर्म कुर्यात् ॥
२,६.१३ /५.१३: पुत्राभावे सपिण्डा मातृसपिण्डाः शिष्याश् च दद्युः ॥
२,६.१४अ /५.१४: तदभाव ऋत्विगाचार्यौ ॥
- /५.१५: तिलमाषव्रीहियवोदकदानैर् मासं पितरःप्रीणन्ति ॥ मत्स्यहरिणरुरुशशकूर्मवराहमेषमांसैःसंवत्सराणि॥गव्यपयःपायसैर् द्वादश वर्षाणि॥वार्ध्रीणसेनमांसेन कालशाकच्छागलोहखड्गमांसैर् मधुमिश्रैश् चानन्त्यम् ॥
२,६.१५ /५.१६: न भोजयेत् स्तेनक्लीबपतितनास्तिकतद्वृत्तिवीरहाग्रेदिधिषुपतिस्त्रीग्रामयाजकाजापालोत्सृष्टाग्निमद्यपकुचरकूटसाक्षिप्रातिहारिकान् ॥
{Stenzler-प्रत्यन्तरे -दिधिषूदिधिषूपति-;-अजपाल-}
२,६.१६ /५.१७अ: उपपतिः ॥
२,६.१७ /५.१७ब्: यस्य च सः ॥
{Stenzler-प्रत्यन्तरे यस्य च}
२,६.१८ /५.१८: कुण्डाशिसोमविक्रय्यगारदाहिगरदावकीर्णिगणप्रेष्यागम्यागामिहिंस्रपरिवित्तिपरिवेत्तृपर्याहितपर्याधातृत्यक्तात्मदुर्बालकुनखिश्यावदन्तश्वित्रिपौनर्भवकितवाजपराजप्रेष्यप्रातिरूपिकशूद्रापतिनिराकृतिकिलासिकुसीदिवणिक्शिल्पोपजीविज्यावादित्रतालनृत्यगीतशीलान् ॥
{Stenzler-प्रत्यन्तरे -परिवित्त-;श्यावदत्-;नृत्त-}
२,६.१९ /५.१९: पित्रा(पितृ) वाकामेन विभक्तान् ॥
{Stenzler-प्रत्यन्तरे चाकामेन}
२,६.२० /५.२०: शिष्यांश् चैके सगोत्रांश् च ॥
२,६.२१ /५.२१अ: भोजयेद् ऊर्ध्वं त्रिभ्यः ॥
२,६.२२ /५.२१ब्: गुणवन्तम् ॥
२,६.२३ /५.२२: सद्यः श्राद्धी शूद्रातल्पगस् तत्पुरीषे मासंनयति पितृऋन् ॥
२,६.२४ /५.२३: तस्मात् तदहम् ब्रह्मचारी च स्यात् ॥
{Stenzler-प्रत्यन्तरे -अहर्ब्रह्मचारी स्यात्}
२,६.२५ /५.२४: श्वचाण्डालपतितावेक्षणे दुष्टम् ॥
{Stenzler-प्रत्यन्तरे चण्दाल}
२,६.२६ /५.२५: तस्मात् परिश्रिते दद्यात् ॥
२,६.२७ /५.२६: तिलैर् वा विकिरेत् ॥
२,६.२८ /५.२७: पङ्क्तिपावनो वा शमयेत् ॥
२,६.२९ /५.२८: पङ्क्तिपावनः षडङ्गविज् ज्येष्ठसामिकस् त्रिणाचिकेतस्त्रिमधुस् त्रिसुपर्णः पञ्चाग्निः स्नातको मन्त्रब्राह्मणविद् धर्मज्ञोब्रह्मदेयानुसंतान इति ॥
{Stenzler-प्रत्यन्तरे ज्येष्ठसामगस्}
२,६.३० /५.२९: हविःषु चैवम् ॥
२,६.३१ /५.३०: दुर्बालादीन् श्राद्ध एकैके ॥
{Stenzler-प्रत्यन्तरे -एके श्राद्ध एवैके}
२,६.३२ अकृतान्नश्राद्धे चैवं चैवम् ॥
____________________________________________
[ आनन्दाश्रमप्रतौ २,७ = XVI]
२,७.१ /६.१: श्रावणादि वार्षिकं प्रोष्ठपदींवोपाकृत्याधीयीत च्छन्दांसि ॥
{Stenzler-प्रत्यन्तरे श्रवणादि}
२,७.२ /६.२: अर्धपञ्चमान् मासान् पञ्च दक्षिणायनं वा ॥
२,७.३ /६.३: ब्रह्मचार्य् उत्सृष्टलोमा न मांसं भुञ्जीत ॥
२,७.४ /६.४: द्वैमास्यो वा नियमः ॥
२,७.५ /६.५: नाधीयीत वायौ दिवा पांसुहरे ॥
२,७.६ /६.६: कर्णश्राविणि नक्तम् ॥
२,७.७ /६.७: वाणभेरीमृदङ्गगर्तार्तशब्देषु ॥
२,७.८ /६.८: श्वशृगालगर्दभसंह्रादे ॥
२,७.९ /६.९: रोहितेन्द्रधनुर्नीहारेषु ॥
{Stenzler-प्रत्यन्तरे लोहित-}
२,७.१० /६.१०: अभ्रदर्शने चापर्तौ(ऋतु) ॥
२,७.११ /६.११: मूत्रित उच्चारिते ॥
२,७.१२ /६.१२: निशायां संध्योदकेषु ॥
{Stenzler-प्रत्यन्तरे निशासंध्या-}
२,७.१३ /६.१३: वर्षति च ॥
२,७.१४ /६.१४: एके वलीकसंतानाम् ॥
२,७.१५ /६.१५: आचार्यपरिवेषणे ॥
२,७.१६ /६.१६: ज्योतिषोश् च ॥
२,७.१७ /६.१७: भीतो यानस्थः शयानः प्रौढपादः ॥
२,७.१८ /६.१८: श्मशानग्रामान्तमहापथाशौचेषु ॥
२,७.१९ /६.१९: पूतिगन्धान्तःशवदिवाकीर्त्य(चाण्डाल)शूद्रसंनिधाने ॥
२,७.२० /६.२०: भुक्तके चोद्गारे ॥
२,७.२१ /६.२१: ऋग्यजुषं च सामशब्दो यावत् ॥
२,७.२२ /६.२२: आकालिका निर्घातभूमिकम्पराहुदर्शनोल्काः ॥
२,७.२३ /६.२३: स्तनयित्नुवर्षविद्युतश् च प्रादुष्कृताग्निषु ॥
२,७.२४ /६.२४: अहर् ऋतौ(ऋतु) ॥
{Stenzler-प्रत्यन्तरे अपर्तौ}
२,७.२५ /६.२५: विद्युति नक्तं चापररात्रात् ॥
२,७.२६ /६.२६: त्रिभागादिप्रवृत्तौ सर्वम् ॥
२,७.२७ /६.२७: उल्का विद्युत्समेत्य् एकेषाम् ॥
२,७.२८ /६.२८: स्तनयित्नुर् अपराह्णे ॥
२,७.२९ /६.२९: अपि प्रदोषे ॥
२,७.३० /६.३०: सर्वं नक्तम् आर्धरात्रात् ॥
२,७.३१ /६.३१: अहश् चेत् सज्योतिः ॥
२,७.३२ /६.३२: विषयस्थे च राज्ञि(राजन्) प्रेते ॥
२,७.३३ /६.३३: विप्रोष्य चान्योन्येन सह ॥
२,७.३४ /६.३४: संकुलोपाहितवेदसमाप्तिच्छर्दिश्राद्धमनुष्ययज्ञभोजनेष्वहोरात्रम् ॥
२,७.३५ /६.३५: अमावास्यायां च ॥
२,७.३६ /६.३६: द्व्यहं वा ॥
२,७.३७ /६.३७: कार्तिकी फाल्गुनीय्षाढी पौर्णमासी ॥
२,७.३८ /६.३८: तिस्रो ऽष्टकास् त्रिरात्रम् ॥
२,७.३९ /६.३९: अन्त्याम् एके ॥
२,७.४० /६.४०: अभितो वार्षिकम् ॥
२,७.४१ /६.४१: सर्वे वर्षाविद्युत्स्तनयित्नुसंनिपाते ॥
{Stenzler-प्रत्यन्तरे वर्ष-}
२,७.४२ /६.४२: प्रस्यन्दिनि ॥
२,७.४३ /६.४३: ऊर्ध्वं भोजनाद् उत्सवे ॥
२,७.४४ /६.४४: प्राधीतस्य च निशायां चतुर्मुहूर्तम् ॥
२,७.४५ /६.४५: नित्यम् एके नगरे ॥
२,७.४६ /६.४६: मानसम् अप्य् अशुचिः ॥
२,७.४७ /६.४७: श्राद्धिनाम्(श्राद्ध) आकालिकम् ॥
२,७.४८ /६.४८: अकृतान्नश्राद्धिकसंयोगे ऽपि ॥
{Stenzler-प्रत्यन्तरे -योगे च}
२,७.४९ /६.४९: प्रतिविद्यं च यान् स्मरन्ति ॥
{Stenzler-प्रत्यन्तरे यान् स्मरन्ति}
____________________________________________
[ आनन्दाश्रमप्रतौ २,८ = XVII]
२,८.१ /७.१: प्रशस्तानां स्वकर्मसु द्विजातीनां ब्राह्मणो भुञ्जीत ॥
२,८.२ /७.२: प्रतिगृह्णीयाच् च ॥
२,८.३ /७.३: एधोदकयवसमूलफलमध्वभयाभ्युद्यतशय्यासनावसथयानपयोदधिधानाशफरीप्रियङ्गुस्रग्मार्गशाकान्य् अप्रणोद्यानि सर्वेषाम् ॥
२,८.४ /७.४: पितृदेवगुरुभृत्यभरणे ऽप्य् अन्यत् ॥
{Stenzler-प्रत्यन्तरे -णे चान्यत्}
२,८.५ /७.५: वृत्तिश् चेन् नान्तरेण शूद्रात् ॥
२,८.६ /७.६: पशुपालक्षेत्रकर्षककुलसंगतकारयितृपरिचारकाःभोज्यान्नाः ॥
२,८.७ /७.७: वणिक् चाशिल्पी ॥
२,८.८ /७.८: नित्यम् अभोज्यम् ॥
२,८.९ /७.९: केशकीटावपन्नम् ॥
२,८.१० /७.१०: रजस्वलाकृष्णशकुनिपदोपहतम् ॥
२,८.११ /७.११: भ्रूणघ्नावेक्षितम् ॥
{Stenzler-प्रत्यन्तरे भ्रूणघ्ना प्रेक्षितम्}
(Stenzler-प्रतौ १७.१२ सेए आनन्दाश्रमप्रतौ २,८.१३)
२,८.१२ /७.१३: भावदुष्टम् ॥
२,८.१३ /७.१२: गवोपघ्रातम् ॥
२,८.१४ /७.१४: शुक्तं केवलम् अदधि ॥
२,८.१५ /७.१५: पुनः सिद्धम् ॥
२,८.१६ /७.१६: पर्युषितम् अशाकभक्षस्नेहमांसमधूनि ॥
{Stenzler-प्रत्यन्तरे -भक्ष्य-}
२,८.१७ /७.१७: उत्सृष्टपुंश्चल्यभिशस्तानपदेश्यदण्डिकतक्षकदर्यबन्धनिकचिकित्सकमृगय्वनिषुचार्युच्छिष्टभोजिगणविद्विषाणानाम् ॥
२,८.१८ /७.१८: अपङ्क्त्यानां प्राग्दुर्वालात् ॥
{Stenzler-प्रत्यन्तरे अपाङ्क्त्य्-}
२,८.१९ /७.१९: वृथान्नाचमनोत्थानव्यपेतानि ॥
२,८.२० /७.२०: समासमाभ्यां विषमसमे पूजातः ॥
२,८.२१ /७.२१: अनर्चितं च ॥
२,८.२२ /७.२२: गोश् च क्षीरम् अनिर्दशायाः सूतके ॥
२,८.२३ /७.२३: अजामहिष्योश् च ॥
२,८.२४ /७.२४: नित्यम् आविकम् अपेयम् औष्ट्रम् ऐकशफं च ॥
२,८.२५ /७.२५: स्यन्दिनीयमसूसंधिनीनां च ॥
२,८.२६ /७.२६: विवत्सायाश् च ॥
२,८.२७ /७.२७: पञ्चनखाश् चाशल्यकशशश्वाविद्गोधाखड्गकच्छपाः ॥
२,८.२८ /७.२८: उभयतोदत्केश्यलोमैकशफकलविङ्कप्लवचक्रवाकहंसाः ॥
२,८.२९ /७.२९: काककङ्कगृध्रश्येना जलजा रक्तपादतुण्डाग्राम्यकुक्कुटसूकराः ॥
{Stenzler-प्रत्यन्तरे -सूकरौ}
२,८.३० /७.३०: धेन्वनडुहौ च ॥
२,८.३१ /७.३१: अपन्नदन्नवसन्नवृथामांसानि ॥
{Stenzler-प्रत्यन्तरे अपन्नदावसन्न-}
२,८.३२ /७.३२: किसलयक्याकुलशुननिर्यासाः ॥
(VAR_AA: किम्पाकु fओर् क्याकु)
२,८.३३ /७.३३: लोहिता व्रश्चनाः ॥
{Stenzler-प्रत्यन्तरे -चनाश् च}
२,८.३४ /७.३४: निचुदारुबकबलाकाशुकमद्गुटिट्टिभमान्धालनक्तचराअभक्ष्याः ॥
{Stenzler-प्रत्यन्तरे बलाकशुक-;-मान्धाला नक्तंचरा}
२,८.३५ /७.३५: भक्ष्याः प्रतुदविष्किरजालपादाः ॥
{Stenzler-प्रत्यन्तरे -विष्किराजाल-}
२,८.३६ /७.३६: मत्स्याश् चाविकृताः ॥
२,८.३७ /७.३७: वध्याश् च धर्मार्थे ॥
२,८.३८ /७.३८: व्यालहतादृष्टदोषवाक्प्रशस्तानभ्युक्ष्योपयुञ्जीतोपयुञ्जीत ॥
{Stenzler-प्रत्यन्तरे -प्रशस्तान्य्}
____________________________________________
[ आनन्दाश्रमप्रतौ २,९ = XVIII]
२,९.१ /८.१: अस्वतन्त्रा धर्मे स्त्री ॥
२,९.२ /८.२: नातिचरेद् भर्तारम्(भर्तृ) ॥
२,९.३ /८.३: वाक्चक्षुःकर्मसंयता ॥
२,९.४ /८.४: अपतिर् अपत्यलिप्सुर् देवरात् ॥
२,९.५ /८.५: गुरुप्रसूता नर्तुम्(ऋतु) अतीयात् ॥
२,९.६ /८.६: पिण्डगोत्रर्षिसंबन्धेभ्यो योनिमात्राद् वा ॥
२,९.७ /८.७: नादेवराद् इत्य् एके ॥
२,९.८ /८.८: नातिद्वितीयम् ॥
२,९.९ /८.९: जनयितुर् अपत्यम् ॥
२,९.१० /८.१०: समयाद् अन्यस्य ॥
{Stenzler-प्रत्यन्तरे अन्यत्र}
२,९.११ /८.११: जीवतश् च क्षेत्रे ॥
२,९.१२ /८.१२: परस्मात् तस्य ॥
२,९.१३ /८.१३: द्वयोर् वा ॥
२,९.१४ /८.१४: रक्षणात् तु भर्तुर्(भर्तृ) एव ॥
२,९.१५ /८.१५: श्रूयमाणे ऽभिगमनम् ॥
{Stenzler-प्रत्यन्तरे नष्टे भर्तरि षड्वार्षिकंक्षपणं श्रूयमाणे}
२,९.१६ /८.१६: प्रव्रजिते तु निवृत्तिः प्रसङ्गात् ॥
२,९.१७ /८.१७: द्वादश वर्षाणि ब्राह्मणस्य विद्यासंबन्धे ॥
२,९.१८ /८.१८: भ्रातरि(भ्रातृ) चैवम् ज्यायसि यवीयान्कन्याग्न्युपयमेषु ॥
२,९.१९ /८.१९: षड् इत्य् एके ॥
२,९.२० /८.२०: त्रीन् कुमार्य् ऋतून् अतीत्य स्वयंयुज्येतानिन्दितेनोत्सृज्य पित्र्यान् अलंकारान् ॥
{Stenzler-प्रत्यन्तरे युञ्जीता-}
२,९.२१ /८.२१: प्रदानं प्राग् ऋतोः(ऋतु) ॥
२,९.२२ /८.२२: अप्रयच्छन् दोषी ॥
२,९.२३ /८.२३: प्राग् वाससः प्रतिपत्तेर् इत्य् एके ॥
{Stenzler-प्रत्यन्तरे वासः}
२,९.२४ /८.२४: द्रव्यादानं विवाहसिद्ध्यर्थं धर्मतन्त्रसंयोगेच शूद्रात् ॥
२,९.२५ /८.२५: अन्यत्रापि शूद्राद् बहुपशोर् हीनकर्मणः ॥
२,९.२६ /८.२६: शतगोर् अनाहिताग्नेः ॥
२,९.२७ /८.२७: सहस्रगोश् चासोमपात् ॥
२,९.२८ /८.२८: सप्तमीं चाभुक्त्वाअनिचयाय ॥
२,९.२९ /८.२९: अप्य् अहीनकर्मभ्यः ॥
२,९.३० /८.३०: आचक्षीत राज्ञा पृष्टः ॥
२,९.३१ /८.३१: तेन हि भर्तव्यः श्रुतशीलसंपन्नश् चेत् ॥
२,९.३२ /८.३२: धर्मतन्त्रपीडायाम् तस्याकरणे दोषो ॥
{Stenzler-प्रत्यन्तरे अकरनेदोषः; दोषो दोषः}
____________________________________________
[ आनन्दाश्रमप्रतौ ३,१ = XIX]
३,१.१ /९.१: उक्तो वर्णधर्मश् चाश्रमधर्मश् च ॥
{Stenzler-प्रत्यन्तरे -धर्म आश्रम-}
३,१.२ /९.२: अथ खल्व् अयं पुरुषो याप्येन कर्मणा लिप्यते यथैतद् अयाज्ययाजनम् अभक्ष्यभक्षणम् अवद्यवदनंशिष्टस्याक्रिया प्रतिषिद्धसेवनम् इति ॥
३,१.३ /९.३: तत्र प्रायश्चित्तं कुर्यात् न कुर्याद् इति मीमांसन्ते ॥
३,१.४ /९.४: न कुर्याद् इत्य् आहुः ॥
३,१.५ /९.५: न हि कर्म क्षीयत इति ॥
३,१.६ /९.६: कुर्याद् इत्य् अपरम् ॥
३,१.७ /९.७: पुनःस्तोमेनेष्ट्वा पुनः सवनम् आयान्तीति विज्ञायते ॥
३,१.८ /९.८: व्रात्यस्तोमैश् चेष्ट्वा ॥
३,१.९ /९.९: तरति सर्वं पाप्मानं तरति ब्रह्महत्यांयो,अश्वमेधेन यजते ॥
{Stenzler-प्रत्यन्तरे यजत इति च}
३,१.१० /९.१०: अग्निष्टुताभिशस्यमानं याजयेद् इति च ॥
३,१.११ /९.११: तस्य निष्क्रयणानि जपस् तपो होम उपवासो दानम् ॥
३,१.१२ /९.१२: उपनिषदो वेदान्तः सर्वच्छन्दःसु संहिता मधून्यघमर्षणम् अथर्वशिरो रुद्राः पुरुषसूक्तं राजतरौहिने सामनीबृहद्रथन्तरे पुरुषगतिर् महानाम्न्यो महावैराजं महादिवाकीर्त्यंज्येष्ठसाम्नाम् अन्यतमद् बहिष्पवमानं कूष्माण्डानि पावमान्यःसावित्री चेति पावमानानि ॥
{Stenzler-प्रत्यन्तरे राजनरौहिणे;इति पावनानि}
३,१.१३ /९.१३: पयोव्रतता शाकभक्षता फलभक्षताप्रसृतयावको हिरण्यप्राशनं घृतप्राशनं सोमपानम् इतिमेध्यानि ॥
{Stenzler-प्रत्यन्तरे प्रसृतियावको}
३,१.१४ /९.१४: सर्वे शिलोच्चयाः सर्वाः स्रवन्त्यः पुण्या ह्रदास्तीर्थान्य् ऋषिनिवासा गोष्ठपरिस्कन्धा इति देशाः ॥
{Stenzler-प्रत्यन्तरे ऋषिनिवासगोष्ठ-}
३,१.१५ /९.१५: ब्रह्मचर्यं सत्यवचनं सवनेषूदकोपस्पर्शनमार्द्रवस्त्रताधःशायितानाशक इति तपांसि(तपस्) ॥
३,१.१६ /९.१६: हिरण्यं गौर् वासो ऽश्वो भूमिस् तिला घृतम् अन्नम् इतिदेयानीति ॥
{Stenzler-प्रत्यन्तरे इति देयानि}
३,१.१७ /९.१७: संवत्सरः षण्मासाश् चत्वारस् त्रयो वा द्वौवैकश् चतुर्विंशत्यहो द्वादशाहः षडहस् त्र्यहो ऽहोरात्र इतिकालाः ॥
{Stenzler-प्रत्यन्तरे त्रयो द्वाव् एकश्}
३,१.१८ /९.१८: एतान्य् एवानादेशे विकल्पेन क्रियेरन् ॥
३,१.१९ /९.१९: एनःसु(एनस्) गुरुषु गुरूणि लघुषु लघूनि ॥
३,१.२० /९.२०: कृच्छ्रातिकृच्छ्रौ चान्द्रायणम् इति सर्वप्रायश्चित्तं ॥
{Stenzler-प्रत्यन्तरे सर्वप्रायश्चित्तम्}
____________________________________________
[ आनन्दाश्रमप्रतौ ३,२ = XX]
३,२.१ /_२०.१: त्यजेत् पितरं(पितृ) राजघातकं शूद्रयाजकंशूद्रार्थयाजकं वेदविप्लावकं भ्रूणहनं यश् चान्त्यावसायिभिःसह संवसेद् अन्त्यावसायिन्यां च ॥
{Stenzler-प्रत्यन्तरे -अन्तावसायिभिः;संवसेदन्तावसायिन्याम्}
३,२.२ /_२०.२: तस्य विद्यागुरून् योनिसंबन्धांश् च संनिपात्यसर्वाण्य् उदकादीनि प्रेतकार्याणि कुर्युः ॥
{Stenzler-प्रत्यन्तरे प्रेतकर्माणि}
३,२.३ /_२०.३: पात्रं चास्य विपर्यस्येयुः ॥
३,२.४ /_२०.४: दासः कर्मकरो वावकराद् अमेध्यपात्रम् आनीयदासीघटात् पूरयित्वा दक्षिणामुखो यदा विपर्यस्येद् अमुकम् अनुदकंकरोमि इति नामग्राहम् ॥
{Stenzler-प्रत्यन्तरे दक्षिणामुखः पदा;विपर्यस्येद् अमुम्}
३,२.५ /_२०.५: तं सर्वे ऽन्वालभेरन् प्राचीनावीतिनो मुक्तशिखाः ॥
३,२.६ /_२०.६: विद्यागुरवो(गुरु) योनिसंबन्धाश् च वीक्षेरन् ॥
३,२.७ /_२०.७: अप उपस्पृश्य ग्रामं प्रविशन्ति ॥
३,२.८ /_२०.८: अत उत्तरं तेन संभाष्य तिष्ठेद् एकरात्रं जपन्सावित्रीम् अज्ञानपूर्वम् ॥
{Stenzler-प्रत्यन्तरे अत ऊर्ध्वं}
३,२.९ /_२०.९: ज्ञानपूर्वं च त्रिरात्रम् ॥
{Stenzler-प्रत्यन्तरे -पूर्वं चेत्}
३,२.१० /_२०.१०: यस् तु प्रायश्चित्तेन शुध्येत् तस्मिञ् शुद्धेशातकुम्भमयं पात्रं पुण्यतमाद् ध्रदात् पूरयित्वा स्रवन्तीभ्योवा तत एनम् अप उपस्पर्शयेयुः ॥
३,२.११ /_२०.११: अथास्मै तत्पात्रम् दद्युस् ततप्रतिगृह्य जपेच्शान्ता द्यौः शान्ता पृथिवी शान्तं शिवम् अन्तरिक्षं यो रोचनस्ताभमम् गृह्णामिइति ॥
{Stenzler-प्रत्यन्तरे रोचनस् तम् इह गृह्-}
३,२.१२अ /_२०.१२: एतैर् यजुर्भिः पावमानीभिस् तरत्समन्दीभिःकूष्माण्डैश् चाज्यं जुहुयाद् ॥
३,२.१२ब् /_२०.१३अ: हिरण्यं ब्राह्मणायदद्यात् ॥
३,२.१३ /_२०.१३ब्: गां वा ॥
३,२.१४ /_२०.१४: आचार्याय च ॥
३,२.१५ /_२०.१५: यस्य तु प्राणान्तिकं प्रायश्चित्तं स मृतःशुध्येत् ॥
{Stenzler-प्रत्यन्तरे प्रायश्चित्तं मृतः}
३,२.१६ /_२०.१६: सर्वाण्य् एव तस्मिन्न् उदकादीनि प्रेतकर्माणि कुर्युः ॥
३,२.१७ /_२०.१७: एतद् एव शान्त्युदकं सर्वेषूपपातकेषुसर्वेषूपपातकेषु ॥
{Stenzler-प्रत्यन्तरे उपपातकेषु उपपातकेषु}
____________________________________________
[ आनन्दाश्रमप्रतौ ३,३ = XXI]
३,३.१ /_२१.१: ब्रह्महसुरापगुरुतल्पगमातृपितृयोनिसंबन्धागस्तेननास्तिकनिन्दितकर्माभ्यासिपतितात्याग्यपतितत्यागिनः पतिताः ॥
{Stenzler-प्रत्यन्तरे ब्रह्महासुराप--संबन्धग-}
३,३.२ /_२१.२: पातकसंयोजकाश् च ॥
३,३.३ /_२१.३: तैश् चाब्दं समाचरन् ॥
३,३.४ /_२१.४: द्विजातिकर्मभ्यो हानिः पतनम् ॥
३,३.५ /_२१.५: तथा परत्र चासिद्धिः ॥
{Stenzler-प्रत्यन्तरे ओमित्त्: तथा}
३,३.६ /_२१.६: तम् एके नरकम् ॥
३,३.७ /_२१.७: त्रीणि प्रथमान्य् अनिर्देश्यान्य् अनु ॥
{Stenzler-प्रत्यन्तरे अनिर्देश्यानि मनुः}
३,३.८ /_२१.८: न स्त्रीष्व् अगुरुतल्पं पततीत्य् एके ॥
{Stenzler-प्रत्यन्तरे अगुरुतल्पः}
३,३.९ /_२१.९: भ्रूणहनि हीनवर्णसेवायां च स्त्रीपतति ॥
{Stenzler-प्रत्यन्तरे हीनशेवायां}
३,३.१० /_२१.१०: कौटसाक्ष्यं राजगामि पैशुनम् गुरोरनृताभिशंसनं महापातकसमानि ॥
{Stenzler-प्रत्यन्तरे -शंसनं पातकसमानि}
३,३.११ /_२१.११: अपङ्क्त्यानां प्राग्दुर्बालाद्गोहन्तृब्रह्मघ्नतन्मात्रकृदवकीर्णिपतितसावित्रीकेषूपपातकम् ॥
{Stenzler-प्रत्यन्तरे अपाङ्क्त्य्-;-ब्रह्मोज्भक्तन्मन्त्र-}
३,३.१२ /_२१.१२: अज्ञानाद् अन्ध्यापनाद् ऋत्विगाचार्यौपतनीयसेवायां च हेयौ ॥
{Stenzler-प्रत्यन्तरे अज्ञानाध्यापनाद्}
३,३.१३ /_२१.१३: अन्यत्र हानात् पतति ॥
३,३.१४ /_२१.१४: तस्य च प्रतिग्रहीतेत्य् एके ॥
३,३.१५ /_२१.१५: न कर्हिचिन् मातापित्रोर्(मातृपितृ) अवृत्तिः ॥
३,३.१६ /_२१.१६: दायं तु न भजेरन् ॥
३,३.१७ /_२१.१७: ब्राह्मनाभिशंसने दोषस् तावान् ॥
३,३.१८ /_२१.१८: द्विर् अनेनसि ॥
३,३.१९ /_२१.१९: दुर्बलहिंसायां च विमोचने शक्तश् चेत् ॥
{Stenzler-प्रत्यन्तरे चाविमोचने}
३,३.२० /_२१.२०: अभिक्रुद्धावगोरणं ब्राह्मणस्य वर्षशतमस्वर्ग्यम् ॥
{Stenzler-प्रत्यन्तरे -अवगोरणे}
३,३.२१ /_२१.२१: निघाते सहस्रम् ॥
३,३.२२ /_२१.२२: लोहितदर्शने यावतस् तत्प्रस्कन्द्य पांसून्संगृह्णीयात् ॥
{Stenzler-प्रत्यन्तरे संगृह्णीयात्}
____________________________________________
[ आनन्दाश्रमप्रतौ ३,४ = XXII]
३,४.१ /_२२.१: प्रायश्चित्तम् ॥
३,४.२ /_२२.२: अग्नौ सक्तिर् ब्रह्मघ्नस् त्रिर् अवच्छातस्य ॥
३,४.३ /_२२.३: लक्ष्यं वा स्यात् जन्ये शस्त्रभृताम् ॥
३,४.४ /_२२.४: खट्वाङ्गकपालपाणिर् वा द्वादश संवत्सरान्ब्रह्मचारी भैक्षाय ग्रामं प्रविशेत् कर्माचक्षाणः ॥
३,४.५ /_२२.५: पथो ऽपक्रामेत् संदर्शनाद् आर्यस्य ॥
३,४.६ /_२२.६: स्थानासनाभ्यां विहरन् सवनेषूदकोपस्पर्शीशुध्येत् ॥
३,४.७ /_२२.७: प्राणलाभे वा तन्निमित्ते ब्राह्मणस्य ॥
३,४.८ /_२२.८: द्रव्यापचये त्र्यवरं प्रतिराद्धः ॥
{Stenzler-प्रत्यन्तरे -चये वा}
३,४.९ /_२२.९: अश्वमेधावभृथे वा ॥
३,४.१० /_२२.१०: अन्ययज्ञे ऽप्य् अग्निष्टुदन्तश् चेत् ॥
३,४.११ /_२२.११: सृष्टश् चेद् ब्राह्मणवधे ऽहत्वापि ॥
३,४.१२ /_२२.१२: आत्रेय्याश् चैवम् ॥
{Stenzler-प्रत्यन्तरे आत्रेयीं}
३,४.१३ /_२२.१३: गर्भे चाविज्ञाते ॥
{Stenzler-प्रत्यन्तरे ब्राह्मणस्य}
३,४.१४ /_२२.१४: राजन्यवधे षड्वार्षिकं प्राकृतं ब्रह्मचर्यमृषभैकसहस्राश् च गा दद्यात् ॥
३,४.१५ /_२२.१५: वैश्ये तु त्रैवार्षिकम् ऋषभैकशताश् च गादद्याद् ॥
{Stenzler-प्रत्यन्तरे ओमित्त्: तु}
३,४.१६ /_२२.१६: शूद्रे संवत्सरम् ऋषभैकादशाश् च गा दद्यात् ॥
३,४.१७ /_२२.१७: अनात्रेय्यां चैवम् ॥
३,४.१८ /_२२.१८: गां च वैश्यवत् ॥
३,४.१९ /_२२.१९: मण्डूकनकुलकाकबिम्बदहरमूषकश्वहिंसासुच ॥
{Stenzler-प्रत्यन्तरे -मूषिक-}
३,४.२० /_२२.२०: अस्थन्वताम् सहस्रं हत्वा ॥
३,४.२१ /_२२.२१: अनस्थिमताम् अनडुद्भारे(अनडुह्) च ॥
३,४.२२ /_२२.२२: अपि वास्थन्वताम् एकैकस्मिन् किंचिद् दद्यात् ॥
३,४.२३ /_२२.२३: षण्ढे पलालभारः सीसमाषश् च ॥
३,४.२४ /_२२.२४: वराहे घृतधटः ॥
{Stenzler-प्रत्यन्तरे घृतघटः}
३,४.२५ /_२२.२५: सर्पे लोहदण्डः ॥
३,४.२६ /_२२.२६: ब्रह्मबन्ध्वां चलनायां नीलः ॥
{Stenzler-प्रत्यन्तरे जीलः}
३,४.२७ /_२२.२७: वैशिकेन किंचित् ॥
३,४.२८ /_२२.२८: तल्पान्नधनलाभवधेषु पृथग्वर्षाणि ॥
३,४.२९ /_२२.२९: द्वे परदारे ॥
३,४.३० /_२२.३०: त्रीणि श्रोत्रियस्य ॥
३,४.३१ /_२२.३१: द्रव्यलाभे चोत्सर्गः ॥
३,४.३२ /_२२.३२: यथास्थानं वा गमयेत् ॥
३,४.३३ /_२२.३३: प्रतिषिद्धमन्त्रयोगे सहस्रवाकश् चेत् ॥
३,४.३४ /_२२.३४: अग्न्युत्सादिनिराकृत्युपपातकेषु चैवम् ॥
३,४.३५ /_२२.३५: स्त्री यातिचारिणी गुप्ता पिण्डं तु लभेत ॥
{Stenzler-प्रत्यन्तरे स्त्रीचातिचारिणी}
३,४.३६ /_२२.३६: अमानुषीषु गोवर्जं स्त्रीकृते कूष्माण्डैर् घृतहोमोघृतहोमः ॥
____________________________________________
[ आनन्दाश्रमप्रतौ ३,५ = XXIII]
३,५.१ /_२३.१: सुरापस्य ब्राह्मणस्योष्णाम् आसिञ्चेयुः सुराम् आस्येमृतः शुध्येत् ॥
३,५.२ /_२३.२: अमत्या पाने पयो घृतम् उदकं वायुं प्रतित्र्यहंतप्तानि स कृच्छ्रस् ततो ऽस्य संस्कारः ॥
३,५.३ /_२३.३: मूत्रपुरीषरेतसां च प्राशने ॥
३,५.४ /_२३.५: श्वापदोष्ट्रखराणां चाङ्गस्य ॥
३,५.५ /_२३.५: ग्राम्यकुक्कुटसूकरयोश् च ॥
३,५.६ /_२३.६: गन्धाघ्राणे सुरापस्य प्राणायामा घृतप्राशनं च ॥
३,५.७ /_२३.७: पूर्वैश् च दष्टस्य ॥
३,५.८ /_२३.८: तप्ते लोहशयने गुरुतल्पगः शयीत ॥
३,५.९ /_२३.९: सूर्मीं वा श्लिष्येज्ज्वलन्तीम् ॥
{Stenzler-प्रत्यन्तरे वाश्लिष्येत्}
३,५.१० /_२३.१०: लिङ्गं वा सवृषणम् उत्कृत्य अञ्जलाव् आधायदक्षिणाप्रतीचीं व्रजेद् अजिह्मम् आ शरीरनिपातात् ॥
{Stenzler-प्रत्यन्तरे वा उत्पाट्य}
३,५.११ /_२३.११: मृतः शुध्येत् ॥
३,५.१२ /_२३.१२: सखीसयोनिसगोत्राशिष्यभार्यासु सुनुषायां गवि चगुरुतल्पसमः ॥
{Stenzler-प्रत्यन्तरे सखि- ... गवि च तल्पसमः}
३,५.१३ /_२३.१३: अवकर इत्य् एके ॥
३,५.१४ /_२३.१४: श्वभिर् आदयेद् राजा निहीनवर्णगमने स्त्रियंप्रकाशम् ॥
{Stenzler-प्रत्यन्तरे श्वभिः खादयेद्}
३,५.१५ /_२३.१५: पुमांसं घातयेत्(हन्) ॥
{Stenzler-प्रत्यन्तरे खादयेत्}
३,५.१६ /_२३.१६: यथोक्तं वा ॥
३,५.१७ /_२३.१७: गर्दभेनावकीर्णी निरृतिं चतुष्पथे यजेत् ॥
{Stenzler-प्रत्यन्तरे यजेत}
३,५.१८ /_२३.१८: तस्याजिनम् ऊर्ध्वबालं परिधाय लोहितपत्रः सप्तगृहान् भक्षं चरेत्कर्माचक्षाणः ॥
{Stenzler-प्रत्यन्तरे ऊर्ध्ववालं....लोहितपात्रः..भैक्षं}
३,५.१९ /_२३.१९: संवत्सरेण शुध्येत् ॥
३,५.२० /_२३.२०: रेतःस्कन्दने भये रोगे स्वप्ने ऽग्नीन्धनभैक्षचरणानि सप्तरात्रम् अकृत्वाज्यहोमः समिधो वारेतस्याभ्याम् ॥
{Stenzler-प्रत्यन्तरे समिधोर्}
३,५.२१ /_२३.२१: सूर्याभ्युदितो ब्रह्मचारी तिष्ठेद्(स्था) अहरभुञ्जानो ऽभ्यस्तमितश् च रात्रिं जपन् सावित्रीम् ॥
३,५.२२ /_२३.२२: अशुचिं दृष्ट्वा आदित्यम् ईक्षेत प्राणायामं कृत्वा ॥
३,५.२३ /_२३.२३: अभोज्यभोजने ऽमेध्यप्राशने वा निष्पुरीषीभावः ॥
३,५.२४ /_२३.२४: त्रिरात्रावरम् अभोजनम् ॥
३,५.२५ /_२३.२५: सप्तरात्रं वा स्वयंशीर्णान्य् उपभुञ्जानःफलान्य् अनतिक्रामन् ॥
{Stenzler-प्रत्यन्तरे उपयुञ्जानः}
३,५.२६ /_२३.२६: प्राक्पञ्चनखेभ्यश् छर्दनं घृतप्राशनं च ॥
३,५.२७ /_२३.२७: आक्रोशानृतहिंसासु त्रिरात्रं परमं तपः ॥
३,५.२८ /_२३.२८: सत्यवाक्ये वारुणीमानवीभिर् होमः ॥
{Stenzler-प्रत्यन्तरे वारुणीभिर्मान-}
३,५.२९ /_२३.२९: विवाहमैथुननर्मार्तसंयोगेष्व् अदोषम् एके ऽनृतम् ॥
३,५.३० /_२३.३०: न तु खलु गुर्वर्थेषु ॥
३,५.३१ /_२३.३१: सप्त पुरुषानितश् च परतश् च हन्ति मनसापिगुरोर्(गुरु) अनृतं वदन्न् अल्पेष्व् अप्य् अर्थेषु ॥
{Stenzler-प्रत्यन्तरे यस्मात् सप्त}
३,५.३२ /_२३.३२: अन्त्यावसायिनीगमने कृच्छ्राब्दः ॥
{Stenzler-प्रत्यन्तरे अन्तावसायिनी-}
३,५.३३ /_२३.३३: अमत्या द्वादशरात्रः ॥
३,५.३४ /_२३.३४: उदक्यागमने त्रिरात्रस् ॥
{Stenzler-प्रत्यन्तरे त्रिरात्रः}
____________________________________________
[ आनन्दाश्रमप्रतौ ३,६ = XXIV]
३,६.१ /_२४.१: रहस्यं प्रायश्चित्तम् अविख्यातदोषस्य ॥
३,६.२ /_२४.२: चतुरृचं तरत्समन्दीत्य् अप्सु जपेद् अप्रतिग्राह्यंप्रतिजिघृक्षन् प्रतिगृह्य वा ॥
३,६.३ /_२४.३: अभोज्यं बुभुक्षमाणः पृथिवीम् आवपेत् ॥
३,६.४ /_२४.४: ऋत्वन्तरारमण उदकोपस्पर्शनाच् छुद्धिम् एके ॥
३,६.५ /_२४.५: स्त्रीषु ॥
{Stenzler-प्रत्यन्तरे एके स्त्री-}
३,६.६ /_२४.६: पयोव्रतो वा दशरात्रं घृतेन द्वितीयम् अद्भिस्तृतीयं दिवादिष्व् एकभक्तिको जलक्लिन्नवासा लोमानि नखानि त्वचम्मांसं शोणितं स्नाय्वस्थि मज्जानम् इति होमा आत्मनो मुखे मृत्योर् आस्येजुहोमीत्य् अन्ततः सर्वेषां प्रायश्चित्तं भ्रूणहत्यायाः ॥
{Stenzler-प्रत्यन्तरे इति होमात्ममुखे ...इत्य् अन्तः}
- /_२४.७: अथान्यत् ॥
३,६.७ /_२४.८: उक्तो नियमः ॥
३,६.८ /_२४.९: अग्ने त्वं पारयेति (RV १,१८९.२) महाव्याहृतिभिर्जुहुयात् कूष्माण्डैश् चाज्यम् ॥
३,६.९ /_२४.१०: तद्व्रत एव वा ब्रह्महत्यासुरापानस्तेयगुरुतल्पेषुप्राणायामैस् तान्तो ऽघमर्षणं जपन् समम् अश्वमेधावभृथेनेदंच प्रायश्चित्तम् ॥
{Stenzler-प्रत्यन्तरे जपेत्; ओमित्त्: इदं च प्रायश्चित्तम्}
३,६.१० /_२४.११: सावित्रीं वा सहस्रकृत्व आवर्तयन् पुनीतेहैवात्मानम् ॥
३,६.११ /_२४.१२: अन्तर्जले वाघमर्षणं त्रिर् आवर्तयन्सर्वपापेभ्यो विमुच्यते ॥
{Stenzler-प्रत्यन्तरे मुच्यते मुच्यते}
____________________________________________
[ आनन्दाश्रमप्रतौ ३,७ = XXV]
३,७.१ /_२५.१: तद् आहुः कतिधावकीर्णी प्रविशतीति ॥
३,७.२ /_२५.२: मरुतः प्राणेनेन्द्रे बलेन बृहस्पतिंब्रह्मवर्चसेनाग्निम् एवेतरेण सर्वेणेति ॥
{Stenzler-प्रत्यन्तरे प्राणैर् इन्द्रं}
३,७.३ /_२५.३: सो ऽमावास्यायां निश्य् अग्निम् उपसमाधायप्रायश्चित्ताज्याहुतीर् जुहोति ॥
{Stenzler-प्रत्यन्तरे -आहुती जुहोति}
३,७.४ /_२५.४: कामावकीर्णो ऽस्म्य् अवकीर्णो ऽस्मि कामकामायस्वाहा ॥ कामाभिदुग्धो ऽस्मि अभिदुग्धो ऽस्मि कामकामाय स्वाहेतिसमिधम् आधाय अनुपर्युक्ष्य यज्ञवास्तु कृत्वोपोत्थायसमासिञ्चतु इत्य् एतया त्रिर् उपतिष्ठेत ॥
{Stenzler-प्रत्यन्तरे सं मा सिञ्चन्तु ... उपतिष्ठेत्}
३,७.५ /_२५.५: त्रय इमे लोका एषां लोकानाम् अभिजित्या अभिक्रान्त्याइति ॥
{Stenzler-प्रत्यन्तरे अभिजित्या एषां लोकानाम्}
३,७.६ /_२५.६: एतद् एवैकेषाम् कर्माधिकृत्य यो ऽप्रयत इव स्यात् सैत्थं जुहुयाद् इत्थम् अनुमन्त्रयेत वरो दक्षिणेति प्रायश्चित्तमविशेषात् ॥
{Stenzler-प्रत्यन्तरे यो ऽपूत;इत्थम् अभिमन्त्रयेत}
३,७.७ /_२५.७: अनार्जवपैशुनप्रतिषिद्धाचारानाद्यप्राशनेषु शूद्रायां च रेतः सिक्त्वा(सिच्) अयोनौ(योनि) च दोषवति च कर्मण्य् अपिसंधिपूर्वे ऽब्लिङ्गाभिर् अप उपस्पृशेद् वारुणीभिर् अन्यैर् वापवित्रैः ॥
{Stenzler-प्रत्यन्तरे दोषवति कर्मण्य् अभिसन्धिपूर्वे ऽपि}
३,७.८ /_२५.८: प्रतिषिद्धवाङ्मनसापचारे व्याहृतयः पञ्चसत्यान्ताः ॥
{Stenzler-प्रत्यन्तरे ओमित्त्: सत्यान्ताः}
३,७.९ /_२५.९: सर्वास्व् अपो वाचामेद् अहश् च मादित्याश् च पुनातुइति प्राता रात्रिश् च मा वरुणश् च पुनात्व् इति सायम् ॥
३,७.१० /_२५.१०: अष्टो वा समिध आदध्याद् देवकृतस्येति हुत्वाएव सर्वस्माद् एनसो मुच्यते ॥
{Stenzler-प्रत्यन्तरे मुच्यते}
{Stenzler-प्रत्यन्तरे अष्टौ}
____________________________________________
[ आनन्दाश्रमप्रतौ ३,८ = XXVI]
३,८.१ /_२६.१: अथातः कृच्छ्रान् व्याख्यास्यामः ॥
{Stenzler-प्रत्यन्तरे अथातस् त्रीन्कृच्छ्रान्}
३,८.२ /_२६.२: हविष्यान् प्रातर् आशान् भुक्त्वा तिस्रो रात्रीर्नाश्नीयात् ॥
३,८.३ /_२६.३: अथापरं त्र्य् अहं नक्तं भुञ्जीत ॥
३,८.४ /_२६.४: अथापरं त्र्य् अहं न कंचन याचेत ॥
३,८.५ /_२६.५: अथापरं त्र्य् अहम् उपवसेत् ॥
३,८.६ /_२६.६: तिष्ठेद्(स्था) अहनि रात्राव् आसीत क्षिप्रकामः ॥
३,८.७ /_२६.७: सत्यं वदेत् ॥
३,८.८ /_२६.८: अनार्यैर् न संभाषेत ॥
३,८.९ /_२६.९: रौरवयौधाजपे नित्यं प्रयुञ्जीत(प्रयुज्) ॥
{Stenzler-प्रत्यन्तरे -धाजये}
३,८.१० /_२६.१०: अनुसवनम् उदकोपस्पर्शनम् आपो हि ष्ठेतितिसृभिः पवित्रवतीभिर् मार्जयीत(मृज्) हिरण्यवर्णाः शुचयः(शुचि)पावका इत्य् अष्टाभिः ॥
{Stenzler-प्रत्यन्तरे हिरण्यवर्णा इत्य् अष्टाभिः}
३,८.११ /_२६.११: अथोदकतर्पणम् ॥
३,८.१२ /_२६.१२: नमो ऽहमाय मोहमाय मंहमाय धन्वते तापसायपुनर्वसवे नमः ॥ नमो मौञ्ज्यायोर्व्याय वसुविन्दाय सार्वविन्दायनमः ॥ नमः पाराय सुपाराय महापाराय वारयिष्णवे नमः ॥ नमोरुद्राय पशुपतये महते देवाय त्र्यम्बकायैकचरायाधिपतयेहराय(हरि) शर्वायेशानायोग्राय वज्रिणे घृणिने कपर्दिने नमः ॥ नमः सूर्यायादित्याय नमः ॥ नमो नीलग्रीवाय शितिकण्ठाय नमः ॥ नमः कृष्णाय पिङ्गलाय नमः ॥ नमो ज्येष्ठाय वृद्धायेन्द्रायहरिकेशायोर्ध्वरेतसे नमः ॥ नमः सत्याय पावकाय पावकवर्णायकामाय कामरूपिणे नमः ॥ नमो दीप्ताय दीप्तरूपिणे नमः ॥ नमस्तीक्ष्णाय तीक्ष्णरूपिणे नमः ॥ नमः सोभ्याय सुपुरुषायमहापुरुषाय मध्यमपुरुषायोत्तमपुरुषाय ब्रह्मचारिणे नमः ॥ नमश्चन्द्रललाटाय कृत्तिवाससे नमः ॥
{Stenzler-प्रत्यन्तरे नमोहमाय;धून्वते;उर्म्याय;सर्वविन्दाय;पारयिष्णवे;हरये;ज्येष्ठायश्रेष्ठाय वृद्धाय;-वाससे नम इति}
३,८.१३ /_२६.१३: एतद् एवादित्योपस्थानम् ॥
३,८.१४ /_२६.१४: एता एवाज्याहुतयः ॥
३,८.१५ /_२६.१५: द्वादशरात्रस्यान्ते चरुं श्रपयित्वा(श्रा) एताभ्योदेवताभ्यो जुहुयात् ॥
३,८.१६ /_२६.१६: अग्नये(अग्नि) स्वाहा सोमाय स्वाहाग्निषोमाभ्यामिन्द्राग्निभ्याम् इन्द्राय विश्वेभ्यो देवेभ्यो ब्रह्मणे प्रजापतये ऽग्नयेस्विष्टकृत इति ॥
३,८.१७ /_२६.१७: ततो ब्राह्मणतर्पणम् ॥
३,८.१८ /_२६.१८: एतेनैवातिकृच्छ्रो व्याख्यातः ॥
३,८.१९ /_२६.१९: यावत् सकृद् आददीत(आदा) तावद् अश्नीयात् ॥
३,८.२० /_२६.२०: अब्भक्षस् तृतीयः स कृच्छ्रातिकृच्छ्रः ॥
३,८.२१ /_२६.२१: प्रथमं चरित्वा शुचिः पूतः कर्मण्यो भवति ॥
३,८.२२ /_२६.२२: द्वितीयं चरित्वा यत्किंचिद् अन्यन् महापातकेभ्यःपापं कुरुते तस्मात् प्रमुच्यते ॥
३,८.२३ /_२६.२३: तृतीयं चरित्वा सर्वस्माद् एनसो मुच्यते ॥
{Stenzler-प्रत्यन्तरे सर्वमेनो व्यपोहति}
३,८.२४ /_२६.२४: अथैतांस् त्रीन् कृच्छ्रांश् चरित्वा सर्वेषु वेदेषुस्नातो भवति सर्वैर् देवैर् ज्ञातो भवति ॥
३,८.२५ /_२६.२५: यश् चैवं वेद ॥
{Stenzler-प्रत्यन्तरे यश् चैवं वेद}
____________________________________________
[ आनन्दाश्रमप्रतौ ३,९ = XXVII]
३,९.१ /_२७.१: अथातश् चान्द्रायणम् ॥
३,९.२ /_२७.२: तस्योक्तो विधिः कृच्छ्रे ॥
३,९.३ /_२७.३: वपनं व्रतं चरेत् ॥
{Stenzler-प्रत्यन्तरे व्रतं चेत्}
३,९.४ /_२७.४: श्वोभूतां पौर्णमासीम् उपवसेत् ॥
३,९.५ /_२७.५: आप्यायस्व (RV १,९१.१७) सं ते पयांसि (RV १,९१.१८) नवोनव (RV १०,८५.१९) इति चैताभिस् तर्पणम् आज्यहोमो हविषश् चानुमन्त्रणमुपस्थानं चन्द्रमसः ॥
३,९.६ /_२७.६: यद् देवा देवहेडनम् इति चतसृभिर्जुहुयात् ॥
{Stenzler-प्रत्यन्तरे चतसृभिर् आज्यं}
३,९.७ /_२७.७: देवकृतस्येति चान्ते समिद्भिः ॥
३,९.८ /_२७.८: ॐ भूर् भुवः स्वस् तपः सत्यं यशः श्रीर् ऊर्गिडौजस् तेजो वर्चः पुरुषो धर्मः शिव इत्य् एतैर् ग्रासानुमन्त्रणंप्रतिमन्त्रं मनसा ॥
{Stenzler-प्रत्यन्तरे तेजः पुरुषो}
३,९.९ /_२७.९: नमः स्वाहेति वा सर्वान् ॥
३,९.१० /_२७.१०: ग्रासप्रमाणम् आस्याविकारेण ॥
३,९.११ /_२७.११: चरुभैक्षसक्तुकणयावकशाकपयोदधिघृतमूलफलोदकानिहवींस्युत्तरोत्तरं प्रशस्तानि ॥
३,९.१२ /_२७.१२: पौर्णमास्यां पञ्चदश ग्रासान् भुक्त्वाएकापचयेनापरपक्षम् अश्नीयात् ॥
३,९.१३ /_२७.१३: अमावास्यायाम् उपोष्यैकोपचयेनपूर्वपक्षम् ॥
{Stenzler-प्रत्यन्तरे एकोच्चयेन}
३,९.१४ /_२७.१४: विपरीतम् एकेषाम् ॥
३,९.१५ /_२७.१५: एवं चान्द्रायणो मासः ॥
{Stenzler-प्रत्यन्तरे एष}
३,९.१६ /_२७.१६: एवम् आप्त्वा विपापो विपाप्मा सर्वम् एनो(एनस्)हन्ति ॥
{Stenzler-प्रत्यन्तरे एतम्}
३,९.१७ /_२७.१७: द्वितीयम् आप्त्वा दश पूर्वान् दश परान् आत्मानंचैकविंशं पङ्क्तिं च पुनाति ॥
{Stenzler-प्रत्यन्तरे दशापरान्}
३,९.१८ /_२७.१८: संवत्सरं चाप्त्वा चन्द्रमसः सलोकताम् आप्नोतिसलोकताम् आप्नोति ॥
{Stenzler-प्रत्यन्तरे आप्नोत्य् आप्नोति}
____________________________________________
[ आनन्दाश्रमप्रतौ ३,१० = XXVIII]
३,१०.१ /_२८.१: ऊर्धवं पितुः(पितृ) पुत्रा रिक्थं भजेरन् ॥
३,१०.२ /_२८.२: निवृत्ते रजसि मातुर्(मातृ) जीवतिचेच्छति ॥
{Stenzler-प्रत्यन्तरे वेच्छति}
३,१०.३ /_२८.३: सर्वं वा पूर्वजस्येतरान् बिभृयात् पितृवत् ॥
३,१०.४ /_२८.४: विभागे तु धर्मवृद्धिः ॥
३,१०.५ /_२८.५: विंशतिभागो ज्येष्ठस्य मिथुनम् उभयतोदद्युक्तो रथोगोवृषः ॥
३,१०.६ /_२८.६: काणखोरकूटवणेता मध्यमस्यानेकाश्चेत् ॥
{Stenzler-प्रत्यन्तरे -कूटवण्टा;अनेकश् चेत्}
३,१०.७ /_२८.७: अविर् धान्यायसी गृहमनो युक्तं चतुष्पादंचैकैकं यवीयसः ॥
{Stenzler-प्रत्यन्तरे चतुष्पदां}
३,१०.८ /_२८.८: समधा चेतरत्सर्वम् ॥
{Stenzler-प्रत्यन्तरे समधेतरत्-}
- /_२८.९: द्व्यंशी वा पूर्वजस्य ॥
- /_२८.१०: एकैकम् इतरेषाम् ॥
३,१०.९ /_२८.११: एकैकं वा धनरूपं काम्यं पूर्वः पूर्वोलभते ॥
{Stenzler-प्रत्यन्तरे लभेत}
३,१०.१० /_२८.१२: दशकं पशूनाम् ॥
{Stenzler-प्रत्यन्तरे दशतं}
३,१०.११ /_२८.१३: नैकशफद्विपदाम् ॥
३,१०.१२ /_२८.१४: ऋषभो ऽधिको ज्येष्ठस्य ॥
३,१०.१३ /_२८.१५: ऋषभषोडशा ज्यैष्ठिनेयस्य ॥
३,१०.१४ /_२८.१६: समधा वाज्यैष्ठिनेयेन यवीयसाम् ॥
३,१०.१५ /_२८.१७: प्रतिमातृ वा स्वस्ववर्गे भागविशेषः ॥
{Stenzler-प्रत्यन्तरे स्ववर्गे}
३,१०.१६ /_२८.१८: पितोत्सृजेत् पुत्रिकां अनपत्यो ऽग्निंप्रजापतिं चेष्ट्वास्मदर्थम् अपत्यम् इति संवाद्य ॥
{Stenzler-प्रत्यन्तरे पित्रुत्-}
३,१०.१७ /_२८.१९: अभिसंधिमात्रात् पुत्रिकेत्य् एकेषाम् ॥
३,१०.१८ /_२८.२०: तत्संशयान् नोपयच्छेद् अभ्रातृकाम् ॥
३,१०.१९ /_२८.२१: पिण्डगोत्रर्षिसंबन्धा रिक्थं भजेरन् स्त्रीवानपत्यस्य ॥
{Stenzler-प्रत्यन्तरे चानपत्यस्य}
३,१०.२० /_२८.२२: बीजं वा लिप्सेत ॥
३,१०.२१ /_२८.२३: देवरवत्याम् अन्यजातम् अभागम् ॥
३,१०.२२ /_२८.२४: स्त्रीधनं दुहितृऋणाम् अप्रत्तानाम् अप्रतिष्ठिताणां च ॥
३,१०.२३ /_२८.२५: भगिनीशुल्कः सोदर्याणाम् ऊर्ध्वं मातुः(मातृ) ॥
३,१०.२४ /_२८.२६: पूर्वं चैके ॥
३,१०.२५ /_२८.२७: असंसृष्टिविभागः प्रेतानां ज्येष्ठस्य ॥
३,१०.२६ /_२८.२८: संसृष्टिनि प्रेते संसृष्टी रिक्थभाक् ॥
३,१०.२७ /_२८.२९: विभक्तजः पित्र्यम् एव ॥
३,१०.२८ /_२८.३०: स्वयम् अर्जितम् अवैद्येभ्यो वैद्यः कामं न दद्यात् ॥
३,१०.२९ /_२८.३१: अवैद्याः समं विभजेरन् ॥
३,१०.३० /_२८.३२: पुत्राऔरसक्षेत्रजदत्तकृत्रिमगूढोत्पन्नापविद्धा रिक्थभाजः ॥
३,१०.३१ /_२८.३३: कानीनसहोढपौनर्भवपुत्रिकापुत्रस्वयंदत्तक्रीता गोत्रभाजः ॥
३,१०.३२ /_२८.३४: चतुर्थांशिन औरसाद्यभावे ॥
३,१०.३३ /_२८.३५: ब्राह्मणस्य राजन्यापुत्रो ज्येष्ठो गुणसंपन्नस्तुल्यभाक् ॥
३,१०.३४ /_२८.३६: ज्येष्ठांशहीनम् अन्यत् ॥
३,१०.३५ /_२८.३७: राजन्यावैश्यापुत्रसमवाये यथा सब्राह्मणीपुत्रेण ॥
३,१०.३६ /_२८.३८: क्षत्रियाच् चेत् ॥
३,१०.३७ /_२८.३९: शूद्रापुत्रो ऽप्य् अनपत्यस्य शुश्रूषुश् चेल् लभतेवृत्तिमूलम् अन्तेवासिविधिना ॥
{Stenzler-प्रत्यन्तरे लभेत}
३,१०.३८ /_२८.४०: सवर्णापुत्रो ऽप्य् अन्याय्यवृत्तो न लभेतैकेषाम् ॥
३,१०.३९ /_२८.४१: श्रोत्रिया ब्राह्मणस्यानपत्यस्य रिक्थं भजेरन् ॥
३,१०.४० /_२८.४२: राजेतरेषाम् ॥
३,१०.४१ /_२८.४३: जडक्लीबौ भर्तव्यौ ॥
३,१०.४२ /_२८.४४: अपत्यं जडस्य भागार्हम् ॥
३,१०.४३ /_२८.४५: शूद्रापुत्रवत् प्रतिलोमासु ॥
३,१०.४४ /_२८.४६: उदकयोगक्षेमकृतान्नेष्व् अविभागः ॥
३,१०.४५ /_२८.४७: स्त्रीषु च संयुक्ताषु ॥
३,१०.४६ /_२८.४८: अनाज्ञाते दशावरैः शिष्टैर् ऊहविद्भिर् अलुब्धैः प्रशस्तं कार्यम् ॥
{Stenzler-प्रत्यन्तरे ऊहवद्भिर्}
३,१०.४७ /_२८.४९: चत्वारश् चतुर्णां पारगा वेदानां प्राग् उत्तमात्त्रय आश्रमिणः पृथग् धर्मविदस् त्रय एतान् दशावरान् परिषद् इत्य् आचक्षते ॥
{Stenzler-प्रत्यन्तरे त्रय इत्य् एतान्}
३,१०.४८ /_२८.५०: असम्भवे त्व् एतेषां श्रोत्रियो वेदविच्छिष्टोविप्रतिपत्तौ यद् आह ॥
३,१०.४९ /_२८.५१: यतो ऽयम् अप्रभवो भूतानां हिंसानुग्रहयोगेषु ॥
३,१०.५० /_२८.५२: धर्मिणां विशेषेण स्वर्गं लोकं धर्मविद् आप्नोतिज्ञानाभिनिवेशाभ्याम् ॥
३,१०.५१ इति धर्मो धर्मः ॥