२७४ ब्राह्मस्फुटसिद्धान्ते नवतिरक्षांशाः श्रवस्योपरि स्थितत्वाद्विषुवत्कर्णस्य क्षितिजा सक्तत्वालंबांशकाभावः निरक्षदेशेऽक्षाभावः शृ वयोः क्षितिजासक्तत्वात् लंबकश्च नवतिर्भागा ध्रुवोपरि स्थितत्वादर्थान्तरे तु लंबाक्षयोगो नवतिभगाः तेन सममंडल मध्यदक्षिणेन याम्यारामंडळगया क्षितिजस्वस्तिकं नवतिर्भागास्तेभ्यो यदाक्षांशाः शोध्यन्ते तदा लंबांभाः शेषा युज्यन्ते । यदा पुनरेव लेवांशाः शोध्यन्ते तदाक्षभागाः शेषा भवति । अनुक्रमेण ज्ञायते स्त्रभागानां या ज्या तज्ज्या भवतीति, अत्रोच्यते । तस्मादुपपन्नम् । यथापि स्थितं क्षेत्रं गोले प्रदर्शयेत् । इत्यपरेण (प्रकारेण) प्रकारान्तरेणानयनम् । शकुछायागुणिते छायाद्वादशहृते चान्ये । अक्षज्यां द्वादशहनां विषुवच्छाया विभजेत् । फल लम्बज्या, विषुवच्छायया लंबज्या हन्याद् द्वादशभिरुद्धरेत् फलमक्षज्याभवति । युक्तिरप्यत्र यदि विषुवच्छाया भुजस्य द्वादश कोटिः तदाक्षज्यास्पृइति फलं लम्बज्या यदि द्वादशकोटेविषुवच्छाया भुजः। तदा लंबज्या कोटे का भुजेति । फलमक्षज्या उपपन्नम् । अथवकस्य परिज्ञानाद् द्वितीयमानयनं लबज्या वर्ग प्रोह्य त्रिज्याकृतेः पदश्चान्यत्रिज्या कृतरक्षज्यावर्ग प्रोह्यमूलं लंबज्य । लंबज्यावर्ग प्रोह्य त्रिज्याकृतेः मूलमक्षया, यतोऽक्षज्या भुजालम्बकोटिस्त्रिज्याकर्ण: । तस्मादुपपन्नं कर्णकृतेः कोटिकृत विशोध्य मूलं भुजस्य कृति प्रोह्मपदं कोटिरिति । एवं विषुवति याम्योत्तरमंडलावगाहिन्युष्ण दीधितौ नतोन्नतज्ये बहुधा प्रदश्येदानीं विषुवतोऽन्यत्र दिनाघी इति दिशाति । ते एवानेनार्यार्षीनाऽन्यत्र सर्वदोन्नतनतजीवांशानयनमेवं। यथा विषुवच्छायाविषुवत्क- रभ्यां नतोन्नतज्ये कृते तदंशश्च एवमिष्टदिने मध्याह्नछायया तत्कणन च, नतोन्नतज्ये कृत्वा तच्चापभागाश्च कार्याः। तेऽत्र नक्तभागास्ते तदैवसिका अक्षांशाः। तावद्भिर्भागैः सममंडलमध्यात्ततोर्क: मध्याह्न करोति तत्र दिने इत्यर्थः, तत्र याव न्नताः तावद्भिरुन्नता इत्ययेः । एवमिष्टकालेपि तात्कालिकछायया तच्छाया कर्णेन वा नतोन्नतज्ये बहुधा कार्यं, तत्र योन्नतज्या स शंकुः यावती नतज्या तावती छाया तयोर्योऽशास्ते तत्काले नतोन्नतांशा भवन्ति । यथा स्वकमिति विषुवन्मध्याद् अपि नतोन्नतांशा ये कृतास्तेऽपि दृङमंडल एव यतः सर्वदा मध्ये याम्योत्तरमंडलमेव इङमंडलं तत्र नतांशाः सममंडलविषुवन्मंडलयोरन्तरं एकान्तरे भावादर्कोऽपि तत्र दिने विषुवन्मंडलं गतो विषुवतो विप्रकर्षो ग्रहस्य क्रान्तिरत्रदिने मध्याह्न क्रान्तिवशद्वना अघिका वा अक्षांशेभ्यो नतांशा भवन्ति तद्द्वादशाच्चोनाचिकास्ताः दिनदलछायातत्कर्णस्य च अतः स्वमध्यछाया कर्णाभ्यां नतोन्नतज्ये विषुवद् युज्येते । अन्यत्र दिनाघी इष्टकालेऽपि युज्येते । दिङ् मंडलं यतो ग्रहाभिमुखं अमति । सममंडलोपर्यः खस्वस्तिकं न त्यज्यते । इष्ट छायफणैस्प दि द्वादशसंकुः तत् त्रिज्याकर्णस्य का छायेति नतज्या लभ्यते। इत्येव भादयो दृङ् मंडलस्यैरत्वात्तस्मात् सर्वमुपपन्नम् । यथास्थितं गोले प्रदर्शये दिति । अष्यच्छायाकंकोऽक्षांशान्वा यो वेतीत्येतस्य प्रश्नस्योत्तरमाह।
पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/२९१
दिखावट