पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/२९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

त्रिप्रश्नाधिकारः २७३ याम्योत्तर मंडल विषुवन्मंडलसंपाते सूत्रस्यैकमी बद्ध्वा सममंडलादुत्तरेण ताव त्येवान्तरे तस्मिन्नेव याम्योत्तरमंडले द्वितीयमजं बध्नीयात्तद्यावदवतिष्ठते तदवे सममंडल भूमध्यावगाहिसूत्रावच्छिन्नमक्षया तदग्रेऽवलंबकं वध्नीयात्। भूमध्य विनिर्गतदक्षिणोत्तरं यत् सूत्रं प्रापितम् । सा स्वदेशावलम्बज्या गोलाध्याय एवास्माभिरयमथ व्यारव्यातः । तत्रावलम्बककोटिरक्षज्या भुजः। तद्वर्गसंयुतेः मूलं विषुवत्कर्णव्यासार्थं यतस्तत्र दिने विषुवन्मण्डलमेव स्वाहोरात्रवृत्तम् । व्यासवृत्तं च छायाकर्योऽन्यत्र दिने ते मध्याह्नपि न विषुवत्कर्णः दृङ् मंडलेधून्नत जीवैव, शंकुकोटिश्च सैव छायादृग्ज्योच्यते । शंक्वपेक्षया उन्नतजीवापेक्षया तज्ज्योच्यते-तत् कोटयपेक्षया भुजज्योच्यते यतस्तत् दृङ् मंडलं ग्रहाभिमुखं भ्रमति। सममंडलोपर्यधः खस्वस्तिकं न त्यजति–इत्यस्माभिरयमथुस्तस्यैव विन्यासे गोला ध्याये प्रपंचितः । तस्माच्छोभनमुक्त शंकुरुन्नतजीवकोटिः पर्याया छाया दृग्ज्या भुजज्या नतज्या च पर्याया एव कर्णस्तु छायावृत्तमुच्यते । छायावृत्तकर्ता द्वावपि व्यासार्धमुच्यते तत्र विषुवच्छायाश्च । ततस्त्रिज्याकृत्या द्वेऽपि गुणयेत् । ततः कृत्यो- युगेन स्थानद्वयेऽपि भागहाःकर्तव्यः । फलं शंकुकृतेः लंबज्या विषुवच्छाया कृते रक्षज्या तर्योर्चेबाक्षज्ययोर्धनुषीकृत्वा पृथक् कार्याः इत्यत्र त्रैराशिक तद्भागा पृथक् वासना । तद्यथा द्वादशकः शंकुः कोटिविषुवच्छाया भुजस्तयोर्वर्गसमासो विष वत्कर्णवर्गस्तेन यदि शंकुकोटिवर्गे लभ्यते तदा व्यासार्धकर्णवर्गस्पृक् शंकुकोटि वर्ग इति फलं लंबज्यावर्गः । ततो विषवत्कर्णवर्गेण विषुवच्छाया भुजवणं लभ्यते । तदात्रिज्या कणवगकटिवगेयोरन्तर भुजवर्ग इति । फलमक्षज्या वर्गस्तयोर्मुले लंबाक्षज्ये, विषुवत्कर्णहृते वा शंकुछायाहते पृथक् त्रिज्ये । अत्रापि त्रैराशिकं यदि विषुवत्कर्णस्य द्वादश कोटिः तत् त्रिज्याकणं स्पृगिति फलं लम्बज्या । ततो विषुवत्कर्णस्य यदि विषुवच्छाया भुजः तत् त्रिज्या कणंस्पृक् भुजेति फलमक्षया अतएव पृथक् त्रिज्ये द्वादश विषुवच्छायागुणैः कृत्वा विषुवत्कर्णं विभजेत् । उपपन्नं चैतदिति अथवाऽपरः प्रकारः त्रिज्येतर जीवा वालं- बाक्षांशौ क्रमज्योनालंबांक्षांशानामुत्क्रमज्या यदा त्रिज्योना क्रियते । तदाक्षज्या भवति । यदा पुनरक्षांशानामुत्क्रमज्ययोना क्रियते । तदालंबज्या भवति । अयं वासना। दक्षिणक्षितिजाद्याम्योत्तर मंडलेयावतो लंबांशा उपरिस्थिताश्चापगत्या तेषां या क्रमज्या सा लंबज्या पूर्वमेव प्रर्दशिता। तं द्विगुणीकृत्योपरिस्थितस्य धनुषो यः शरः तावति लंबाशोत्क्रमज्या । सा च त्रिज्यातो यदा शोध्यते, तदाक्षज्या तुल्या ज्याखण्डमवशिष्यते । सममण्डलमध्यभूमध्यावगाहिना सूत्रेण तस्मादुपन्नम् । एकस्या ज्यायाः यावान् प्रकारः तयोरानयने नवतेर्यदाक्षांशाः शोध्यन्ते । नवतेस्तदाक्षांशान्विशोध्य लंबांशकाः अवशिष्यन्ते । तेषां या ज्या सा लंबघ्या, यदा लंबांशकाः शोध्यन्ते नवतेः तदाक्षांशाः शेषाः भवन्ति, तेषां या ज्या साक्षज्या भवति । अक्षलम्बज्ये इत्युत्तरत्र संबंधो भविष्यतीति वासनात्र ।