धीनिर्वाहे न तत्र शक्तिकल्पना । गौरवतयोक्तनुमानस्याऽप्रये- जकत्वात् । एतेन ‘अन्वितमात्रे एव शक्तिः, कार्यत्वनिवेशे गौ रवात्’ इति परास्तम् । प्रकारान्तरलभ्येऽपि शक्तिकल्पने-‘अन- न्यलभ्यो हि शब्दार्थः इति न्यायाविरोधापत्तेः । अन्यथा तव मते व्यक्तावपि शक्तिकल्पनापत्तेः । शब्दमात्रस्यैव तव मते कार्ये- त्वान्वितशक्तत्वेन कार्यत्वान्वितज्ञानस्यैव च शब्दहेतु- तया विधेरिव शब्दसामान्यस्यैव कार्यत्ववचकपदत्वत्- सिदार्थपुराणानां कार्यत्ववाचक-लिङदिपदसमभिव्याहारप्रयु- क्ताऽप्रमाणभावापत्तेश्च ।: सिद्धार्थेऽपिव्युत्पत्तिसम्भवाच । तथा- हि ।-स्वभाषया-अनुपछब्धचैत्रपुत्रजन्मा बाळ-तादृशेन वार्त्ता- हारेण सह चैत्रसमीपं गत-‘पुत्रस्तेजातः' इतिवार्त्ताहारोक्तपदनि- च्यश्रवणसमनन्तरं चैत्रस्य–'अयं हर्षवान् विहसितवदनत्वात् मद्वत्’ इति हर्षोत्पत्तिमनुयाय, अतश्च 'इयं प्रियार्थावगतिहेतुका हर्षोत्पत्तित्वात् संमतवत् ’इति प्रियार्थावगतिमवगम्य तस्याश्च कारणविशेषाकाङ्क्षायां ‘पुत्रस्तेजात ' इति वाक्यस्प-'इयमवगति रेवदवाक्यजन्या एतद्विनाऽसत्त्वे सति तत्सत्त्वात्' इत्यनयव्यतिरेका- भ्यां तद्धेतुत्वमध्यवस्यति । ततश्चा ऽऽवापोद्वापाभ्यां पदान्तर- प्रक्षेपपूर्वपदानुच्चारणाभ्यां-अवधृतशक्तिकतज्जातपदघटितपुत्रादि पदानां-छोकाचारपरिप्राप्तपुत्रजन्ममात्राव्यभिचारिणा-वत्पदाङ्कि तपटप्रदर्शनछिङ्गेन ‘पुत्रजन्मबोधनार्थमहङ्गच्छामि’ इति वार्त्ताहा- रोक्तस्मरणेन च हर्षहेतुप्रियार्थावगतौ प्रियासुखप्रसवद्रव्यलाभा- द्यविषयकत्वावगतौ ततः ‘इयमवगतिस्तनयविषया इतराविषय- कत्वात् संमतवत्’ इत्यवगम्य ततः पुत्रपदं तनये शक्तं असति वाधके तद्धधकत्वात्’ इत्येवं रीत्या तनयादौ शक्तिमवधारयति । पुत्रजन्मज्ञानाव्यभिचारिवृद्धिश्रद्धादिक्रियविशेषदर्शनात्-पुत्रजन्म ज्ञावाऽतुमानसम्भवाञ्च । तथा ‘देवदत्तः काष्ठैः स्थाल्यामोदनं प-