‘द्रव्यं सत्त्वात्' इदं न द्रव्यं गुणशून्यत्वत्’ इत्यादिप्रतिस्थापनायां व- ह्निव्याप्यधूमस्य-,-सत्तच्याप्यकर्मान्यत्वादेरभावः। तथा क्षिस्यादिकं सकर्त्तृकं कादाचित्कत्वत्’ इदमकर्त्तृकमजन्यत्वादित्यादिप्रतिहेतौ नित्यत्वमित्येवमुक्तस्य सम्भवे ‘यथा ऽकर्त्तृकत्वानुमाने’ इत्यादि क्लिष्टकथनमसङ्गतमिव भाति ।
पक्षविपक्षान्यतरान्यत्वमाभासताप्रयोजकं [१]न भवति ७ । ‘अयोगोलकं धूमवद्वह्नेः’ इत्यादौ हृदायोगोलकान्यतरान्यत्वस्य सदुपाधित्वात् । न च कचिदित्यध्याहार्यम् । क्वचित्पदमसूत्स्थाप- नापरं, सत्स्थापनापरं वा। नाद्यः । पूर्वोक्तदोषानुवृत्तेः । चरमे पूर्वोक्तदोषाभावेपि प्रसिद्धानुमाने पक्षसपक्षान्यतरान्यत्वसपक्षवि- पक्षान्यतरान्यत्वादेरपि उपाध्याभासतया गणनापत्तेः ।
पक्षेतरसाध्याधारः ८ । यथात्रैव पर्वतेतरे वन्हिमत्त्वम्-पक्षे- तरत्वविशिष्टसाध्यवत्त्वमित्यर्थः । अत्रापि सत्स्थानाभिप्रायकं क्वचित्पदमध्याहार्य्यम् । तेन ‘अयोगोलकं धूपवदोन्हेः’ इत्यादावयो- गोलकेतरत्वविशिष्टधर्मवत्त्वादेस्सदुपाधित्वेपि न क्षतिः।
अत्र विचारयाम-पक्षेतरत्वविशिष्टसाधनाधारत्वपक्षेतरत्वविशि- ष्टसपक्षत्वादेरपि उपाध्याभासतया गणनापत्तिः । न चात्रव्यर्थविशे- यत्वम् । पक्षेतरत्वविशिष्टसाध्यवयमित्यत्रापि तत्सत्त्वात् ।
न च [२]तत्तुल्यश्चेत्यनेन पक्षेतरत्वघटितवेन तुल्यो धर्मा- न्तरोपीत्यर्थकेन मूलेन त्वदुक्तसर्वेषां गणनाकृतेवैति वाच्यम् ९ । ‘पक्षेतरसाध्याधारः इत्यत्र व्यर्थविशेष्यतया एतस्य पक्षेतरत्वे पर्यवसाने पक्षेतरस्ततुल्यवेश्येवं सर्वसङ्ग्रहे असाधारणेत्यादि विशिष्यकथनासङ्गतेः । तौर्ल्य च-सत्प्रतिपक्षाद्युन्नयनौपयिकरूप- वैकल्येन बोध्यामिति ।
१ "पक्षविपक्षान्यतराभ्यः” इति सप्तम उपाध्याभास इत्यर्थः।
२ "तत्तुल्यः" इति नवम उपाध्याभास इत्यर्थः। ।