सामग्री पर जाएँ

पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/२२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२११ स्वमन्दकेन्द्र यथासंख्यमूनाधिका सती स्वमध्यगति: मन्दस्फुटा भवति । भौमादीनां स मन्दस्फुटैवेत्युच्यते । रविचन्द्रयोस्तु सैव परमाणुस्फुट यतस्तौ मन्दप्रतिमण्डले भ्रमतः इत्यत्रय वासना । कक्षामण्डले यत्र प्रदेशे रविर्वक्षते, चन्द्रो वा भौमादीनां स्वमन्दनीचोच्च मध्यवृत्तं वा तत्र यज्ज्यान्तरं तेन सह त्रैराशिकं यदि तत्त्वयमसंख्याभिलप्ताभि ज्यन्तरं लभ्यते तदा मन्दकेन्द्रभृतिलिप्ताभिः किमिति द्वितीयं त्रैराशिकं यदि षष्टि शतत्रयवृत्ते यत्फलं ज्यारूपमेतावत्स्त्रमन्दोच्चनीचवृत्ते कियदिति ततः तृतीयं वैरा शिकं यदि मनुयमलतुल्पस्य ज्याफलस्य तत्त्वयमसंख्याश्चापलिप्ता भवति । तदस्य कियत् प्रभवत्येवं प्रथमवैराशिके तत्त्वयमसंस्थो भागहाः ॥फलं स्वभुक्तावुपचयापचयो वा कक्षामंडलात्प्रतिमण्डलमुपरि यत्र तत्र भुक्तेरुपचयो यत्रार्धस्तत्रोपचयो ऽतएव चोक्तं मृगकर्यादावूनाधिका स्वमध्यगतिरित्येतत्सर्वं यथा तत्तेषु कक्षामण्डलादिषु प्रदर्शयेत्।उपपन्न च यदि नाम चन्द्रकेन्द्रभुक्तिर्बहुज्यान्तरव्यापिनीतत्र केन्द्रवच्चन्द्रा क्रान्तज्यान्तरादारभ्यातीत ज्यांत रैभुक्तेः स्फुटीकरणमिच्छन्त्यपरे तत एवागामि ज्यान्तरैः कर्म कुर्वते एवमतीतैः स्फुटया आगामिज्यान्तरैरपि स्फुटया सह योगाधंन, अपरे तु पुनर्गतात्कलानयनेऽतीतैज्र्यान्तरैः स्फुटया गम्याव कलानयनेनागते ज्यान्तरगतया स्फुटया चन्द्रभुक्तौ कर्म कुरुते तत्र स्फुटा भुक्तिः क्षणं मध्ये एका वक्तुं शक्यते । कक्षामण्डलप्रतिमण्डलयोरन्यथा संस्थानात्तस्मादनवस्थाप्रसंगः स्यादित्याचार्येण क्रान्तज्यान्तरेणैव भुक्तिज्यानीता । स्वल्पान्तरत्वादेवं रव्यादीनामपि कल्पाः सम्भवन्ति । यदि नामात्यल्पमन्तरे तेषां भुक्तेरल्पत्वादिति । यच्चापकारणमस्यामाययामाद्यजोवया स्थिरयोपनिबद्धं तद- न्येषां ज्यान्तराणामसम्भवाद्यतो भुक्तिज्याफलांशुवद्वापि मनुयमलानां लिप्तानां न भवन्ति । तस्मादुक्तं सर्वमुपपन्नमिति । इदानीं भौमादोनां भुक्तिक्ररणार्थमार्याद्वयं सार्धमाह । कुजादीनां ताराग्र हाणां शीघ्रगति: किंभूतानां मन्दफलस्फुटभुक्तीनां शीघ्रफलभोग्यजीव संगुणिता च सर्व विभजेत् । कया आद्यजीवया एतदुक्तं भवति । भौमादेः ग्रहस्य पूर्वप्रदशतेन कर्मणा मंदफलस्फुटभुक्तिः तां स्वशीघ्रभुक्तेविंशोध्य मन्दफलस्फुटभुक्तानां शीघ्रगति र्भवति । ततस्तां गुणयेत् । शीत्रफलभोग्यया ग्रहस्य स्फुटीक्रियमाणस्य यच्छीत्रफलं भवति तस्य फलज्यायां क्रियमाणायां यज्ज्यान्तरं गुणकारः संभवति सा शीघ्रफल भोग्यजीवेत्युच्यते तया मन्दफलभुक्त्यूनां शीत्रगति संगुणय्याद्यजीवया विभजेत् । ततो यत्फलं तेन फलेन गुणितं व्यासायै तद्विभजयेत् शीघ्रकर्णेन ततोऽपि यल्लब्ध तेन सर्वदा शीघ्रगतिरूना कर्तव्या । सा चोना कृता ग्रहस्य स्फुटमुक्ति स्ततः प्रदेशे स्थितस्य भवति । लब्धमधिकं चेत् शीघ्रगतेः फलगुणितात् व्यासार्धात्