औम् बलसिद्धिव्याख्या शब्दपाणिकृता । चतुर्थः (सिडि)काण्डः ॥ इदानीमप्रामाण्यवादी चोदयति---नन्विति । न तावद्रस्रावेपदानि बक्षणि प्रमाणम् , तेषां संबन्घज्ञानापेक्षित्वात्; प्रमाणान्तरेण पूर्वसिद्धेऽमें ज्ञानहेतुत्वेनासिद्धे बह्मणि सामर्थाभावात् । न च वाक्यम् ; न हि तत्साक्षाद्वाचकम् , अपितु गुणप्रधानभावेन परस्परान्वितपदार्थद्वारेण विशि ष्टार्थबोधकम् । अन्यथा आपदार्थज्ञोऽपि वाक्यार्थ प्रतीयात् । न त्वेवम् । अतश्च पदार्था एव परस्परसंस्पृष्टा वाक्यार्थ इति स्थिते बलणोऽषदार्य- त्वेन न वाक्यगम्यत्वम् । पदार्थत्वे तु पदानामधिगतविषयत्वादन्य एकः प्रमाणान्तरगोचरो ब्रह्मपदार्थः स्यात् । अतश्च आम्नायैकगम्यत्वप्रतिज्ञा हीयेतेत्यभिप्रायः । न संसृज्येरन्निति सग वाक्यार्थ इति मतेनोकम् । स च पदार्थानामन्योन्यमन्वयः । न भिद्येरन्निति ; मेदो वीषयार्ष इति मतेनोक्तम् । स चातब्द्यादृत्तिः; यथा ‘नीलमुत्पलम्’ इति अनीला नुत्पलयोः । चोदना इत्यपौरुषेयवचनाभिप्रायम् । न हि चोदनात्र विचार्व तया प्रस्तुता । परस्य वा पूर्वोक्तन्यायेन कृत्स्न एव वेदोंदनात्मक इति तदभिप्रायेणेदमुक्तम् । अपूर्वपदार्थावगम् इति प्रमाणान्तरापूर्वस्य जलपद्मे स्यावगम इत्यर्थः । सा हीत्यादिना कार्य एवापौरुषेयं वचः प्रमाणमिति सिद्धमित्युक्तं भवति । नन्वप्रामाण्ये निष्फलत्वाद्वेदान्तानां त्रैविद्यपरिग्रहः कथमित्याशङ्कय, त्रैविद्येत्यादिना प्रयोजनमुक्तम् । एवमपदार्थत्वात् ब्रह्म न वाक्यार्थ इति चोदिते प्रतिविधीयते सामान्येनेति । यया सामान्येन लोके पक्षिणः प्रमाणान्तरधिगतस्य संबन्ध ज्ञानसंभवात्पदार्थत्वे सिद्धे मरतकपादत्वादिभिरनन्यपतिसNधारणैर्गुणैरपूर्वस्य प्रमाणान्तरानधिगतस्य पक्षिविद्य षस्य वाक्येन प्रतिपादना भवति; तथा कारणमात्रस्य सन्मात्रस्य वा सामान्येन कारणपदार्थत्वे सत्पदार्थत्वे वा लोकसिडे, अस्यं जगत्कारणविशेषस्य स्थूलादिसकलविचेषरहितस्य “ यतो
पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/६३०
दिखावट