22 भक्षतिद्धिव्याख्या अपितु रजनरूपेण । तेन तदूपेणादृष्टलोष्टादिवत् युक्तिशकलमपि न इष्टम् , ततस्तत्रापि प्रवृत्तिर्न स्यादिति भावः । दृष्टस्मृतथे. शुक्तिरजतयो- रविवेकत् प्रवृत्तिः, तत्रादृष्टेषु लोष्टादिषु कुतः प्रसङ्ग इति चेत्; तंत्रा पीदं विचार्यम्-–किं शुक्तिरजतयोर्विवेकप्रहणस्य विवेककारिणोऽभावात रजतस्य संनिधौ पुरोवर्तित्वेन प्रतीतेः शुक्तिरजतयोस्तत्वस्याभेदस्य बोधः; ततः शुथुक्त रजतवेदनात् प्रवृत्तिः, उतातस्वस्य भेदस्याबोधादिति । तत्र तवंबोधात् प्रवृत्तिरित्यस्मिन्नाचे पक्षे शुक्तिशकलं रजततया गृह्यते । अतः रजतमतेर्विपरीतार्यता स्यात् । परस्मतु पक्षे यथा दृष्टात् शुक्ति शकलात् विवेको रजतस्य न गृह्यते, तथ लोष्टादेरदृष्टादपि । अतो दृष्टादृष्टयोगेदो न स्यात्; दृष्टवददृष्टेऽपि प्रवृत्तिः स्यादित्यर्थः । ननु विषये कापि प्रवृत्ति ; नविषये । न चादृष्टं लोष्टादि विषयः । अतः कथं तत्र प्रवृत्तिः? बाढम्; रजतमपि पुरोवर्ति न दृष्टम् , तव तत्रापि प्रवृत्तिर्न स्यात् । या तु दृष्टा शुक्तिः, सा रजतार्थिनो न प्रवृत्तेर्विषय इति परस्याप्यविषयैव प्रवृत्तिः । एवं चेददृष्टेऽपि किं न स्यादिति भावः । नन दृश्यमानाविवेको भ्रमः ; तत् कथमदृष्टेषु तत्प्रसङ्गः ? स्यादेवं यदि दृष्टादृष्टयोर्विवेकाग्रहणस्य स्वरूपभेदः स्यात् स तु तस्य प्रागभावत्वान्नास्तीति मन्यते । यदप्युच्यते--भ्रमसम्यग्रजतज्ञानयोर्विवेका- ग्रहणं नाम साधारणं रूपमस्ति, अतस्तेन रूपेण तुल्यत्वात्सम्यग्रजतज्ञान तुर्यभ्रमेऽपि व्यवहारप्रवृत्तिरिति ; तदप्ययुक्तम् ; न हि यकािचित्साम्येन व्यवहारसाम्यम् , सुखदुःखहेतुज्ञानयोरपि ज्ञानत्वसाम्यात तरप्रसङ्गात् । तस्मात्सम्यग्रजतज्ञाने यत्प्रवृत्तिनिमित्तं तत्साम्ये ततुल्या प्रवृत्तिरिति युज्यते । सम्यग्रजतज्ञाने विवेकाप्रहे। न प्रवृत्तिनिमित्तम् , अपितु विवेकग्रहः स च श्रमे तव नास्तीति कथं तुर्या प्रवृत्तिरिति । ननु दृष्टे दर्शनमिन्द्रिय- योगस्तिनादृष्ट इत्यास्ति । तयोर्भदः कथमभेद इत्याशङ्कयाह नेति । तथाहि दृष्टादृष्टाभ्यां विवेकाग्रहस्य तुल्यत्वादिन्द्रिययोगदर्शने नोपयोगिनी । न ह्यग्रहणे तयोः कश्चिदुपयोगः, तस्य प्रागभावरूपत्वा- दिति भावः । क्व नाम ते उपयोगिनी इत्यपेक्षायां स्वपक्षे तयोरुपयोग माह-ते हीतेि । रजनस्य शुक्तौ समारोपे उपयोगिनी इत्यर्थः
पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/६०५
दिखावट