मिति, असंस्पृष्टमित्यर्थः । तदूषयति- एतदिति । पेलवमित्यकौशलम् - अद्येति अदृढम् असरमिति यावत् । पेलवस्वमाह-। अद्यस्यात्मनः प्रकाशोऽद्वयात्मप्रकाशः । अनवच्छेदविभ्रम इति देहेन्द्रियविषयैरनम्त स न यस्य स्यान्तवश्वमवच्छेदः, तद्विषये विभ्रमेऽवच्छेदे विभ्रमः , विद्यते सोऽनवच्छेदविभ्रमः । स्वमस्थितिरिति, स्वात्मना स्वात्मरूपेण क्षितिः। सुप्रशान्ता, सुश्रु प्रशान्ता । प्रशान्तशोकांदेसफलकल्याणप्रकाशमाननिरतिः शयानन्दरूपा चेत्यर्थः । एतेन दुःखनिवृत्तेरानन्दावतेश्च परमपुरुषार्यतया अद्वयास्मंबोषस्य फलवच्खमुपपादितम् । तदयं वाक्यार्थः--अनवच्छेद विभ्रमोऽद्वयारमप्रकाशो येऽसौ स्वात्मस्थितिः सुप्रशान्ता फलम् , तन्न विधेर्विषयो न विधेयमित्यर्थः । अवच्छेदकलुषतयेति ; अवच्छिद्यतेऽनेने- त्यवच्छेदो देहेन्द्रियादि, तेन कलुषतया तदनात्मस्वरूपेण प्रकाशते। । न ततोऽद्वयात्मस्वरूपादन्यस्तचत्रेधःकिंतु अद्वयमप्रकाशस्वरूपमेवेति सत्य ज्ञानानन्दात्मकः स इत्यर्थः । न च-फलेऽप्यज्ञातोपाये न प्रवर्तते ; अतः कथं तत्र स्वयं प्रवृत्तिः ? अपितु उपायप्रज्ञापनद्वारेण विचित एवेति वाच्यम्; यत इच्छा प्रवृत्तेः पूर्वरूपम् । इच्छया हि प्रवर्तते । सा चास्ति फलेऽपि । नापि विधिना । अतस्तत एव प्रवृत्तिसिडेनं तत्र विध्यपेक्षेत्यर्थः । किंच अज्ञातोपाये चेत्फले न प्रवर्तते तत्रावश्थमुपायज्ञापन या फलमुद्दिश्य उपाये प्रवत्यै ; न फलेऽपि, वाक्यभेदप्रसङ्गात् । तावता च ज्ञातोपायत्वं संवृत्तमिति तत एव फलेऽपि प्रवृत्तिः सिडेति न तत्र प्रवृद्ध्यर्थं विधि- व्यापार । - आश्रयितव्यः –“ लिप्सार्थलक्षण ” । तस्ख तदुक्तम् तस्य फलस्य लाभेच्छ अर्थलक्षणा प्रयोजनलक्षण, न विधिलक्षणेत्यर्थः तस्मान्न फलं विधीयते, अपि तु तत्साधनम् । तदुक्तम्—तत्साधनेति । सेन् यः फलमिच्छति, सोऽनुपायस्य फलस्यासिडेस्तदुपायमपीच्छत्येव । अतः फलवत्युपायेऽपि फलवदर्थलक्षणैव प्रवृत्तिः , न विधिलक्षणा; अतः साधनेऽपि न विधेर्यापार इति परेण चोदिते सिद्धान्ती पृच्छति- क तर्हीति . । पर आह-इत्थंभाव इति ; कर्तव्यत्वांश इत्यर्थः । तदूषयति--नतदीति । साधनाविशेषे तावद्विवेः पूर्वमनुते नार्यलक्षण
पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/५७५
दिखावट