I०० In इतश्च शब्दात् यदारमविज्ञानं तन्न विधीयत इत्याह-इतश्चेति । विधेयावगमादुत्तरकालीना या प्रवृत्तिः, सैव विधेः फलम् , न तु शब्दप्रभवो यो विधेयबोधः स इत्यर्थः । कुतः ? अन्योन्यसंश्रयात् शब्दार्थबोधे सति प्रवृत्तिः, प्रवृत्तस्य च शब्दार्थबोध इत्यात्माश्रयता । यस्तु तवावबोधपरावेदान्तवाक्यात् तत्वावबोधः, स न शब्दार्थबोधात् परः उत्तरकालीनः; किंतु स एवात्मा । अतो न ‘ आत्मा प्रतिपत्तव्यः’ इति विधेः फलमित्यर्थः । e = इतश्च शब्दज्ञानमविधेयमित्याह--अपिचेति । किंच शब्दाज्जातेऽर्थ बेधे, न पुरुषः ‘आत्म प्रतिपत्तव्यः' इति विधिना प्रवर्यः । साध्ये हि प्रवर्यतेन सिधे । अथ शब्दोऽर्थस्यानवबोधक एवतेन तज्ज्ञाने प्रवर्यःतत्रापि शब्दार्थबोधस्यासंभवात् सुतरां न प्रवर्तनीयः । न ह्यसंगते विषये कश्चित्रवर्यते । शब्दाज्जातेऽप्यर्थबोधे तन्निश्चये प्रवर्यत इति चेत्, अत आह--शब्देनेति । न निश्चयेऽपि प्रवर्यः ; सोऽपि हि शब्दजन्यो वा स्यात् , प्रमाणान्तरजन्यो वा ; न तावच्छब्दादर्थ तवावबोधे तस्मादव यो निश्चयः, तत्र प्रवर्यः ; स हि शब्देन प्रथम- मेव कृतः ; किं तत्र विधिना ! अथ शब्दादवबुडे तच् अन्यरमा- प्रमाणान्तराञ्चो निश्चयस्तत्र विधिना प्रवर्यःततोऽन्यस्य प्रमाणान्तरस्य वाग्छनमपेक्षा स्यात् । अतश्च शब्दस्तत्र निश्चयहेतुर्न स्यात् । न चैत दिष्टमित्यर्थः । इदानीं विकररुपान्तरं करोति--अथेति । उपटुवोऽवगम इत्यर्थः । भूतयैवैयर्थंमतात्पर्य हेतुः; अतात्पर्यस्यापि दर्शनादिति सांशयिकवे । तद्दषयति--तद्वातमिति ; तदसारम् । कुतः ? यतो लोकवेदयोः शब्दानामर्थपरत्वम्_ अविशिष्टस्तु वाक्यार्थः” इति न्यायेनौत्सर्गिकम् । निमित्तान्तरातु शब्दरूपप्रधानत्वम्; अत एवाविवाक्षितार्थत्वं तदपवादः ; यथा--'गवित्ययमाह’ इति ‘इति शब्दात् , यथा जपमन्त्रेषु जप- स्योवरणात्मकयोच्चार्यमाणशब्दसरूपनिष्ठत्वम । न च वेदान्तेषु तन्निमि तदन्तरमस्तीति भावः ।
पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/५२२
दिखावट