तर्फकाण्डः 15 तैलदध्यादिषु हेतुत्वेनोपयुज्यतेत्यर्थः । एवमाशङ्कय दूषयति-तथापीति । यदि कार्यनानात्वं व्यवस्था, तया तिलानां पयसश्च भेदं प्रतिजानाति, तद्वेदमेवोत्तरमित्यन्वयः । ननु क्षीराद् दश्नों जन्म नान्यत इतीयं व्यवस्था, न कार्यनानात्वमात्रम्; अतः कोऽयमनुकोपालम्भः ? सत्यमुक्तम् _ ; किंतु तिलपयसोरन्यस्वे सतीयं व्यवस्था, व्यवस्थया च तयोरन्यत्वसिद्धिरितीत- रेतराश्रयग्रस्तत्वादयुक्का । अतो व्यवस्थां वदता कार्यनानात्वमेव वाच्य मित्यभिप्रेत्येदमुक्तमित्यदोषः । अथ पूवमेव व्यवस्थामाह, तत्रोच्यते अयेति । व्यवस्था हि भावानामन्यत्वसाधनम् । सिद्धे च साधनं भवति, नासिद्धम् । तद्यदि पयसो को जन्म दान्यत इति व्यवस्थाया लक्षणं । स्यात् , ततो यदन्यत्वं साध्यत्वेनासिद्धे तत् साधनभूताया व्यवस्थाया लक्षणमनुप्रविशेत् । न च तद्युक्तम्, सNध्यत्वैनासिडस्यान्यत्वस्यानुप्रवेशे तस्या व्यवस्थाया एवासिद्धिप्रसङ्गात् । ततश्चेतरेतराश्रयः स्यादिति भावः । तस्मात् दधिजननशक्तिस्तदभावश व्यवस्था । ततस्तिल पयसोर्भदो गम्यते । न होकत्र विषये दधिन्येकस्य पयसः शक्त्य शक्ती युज्येते । अतः पयसः शक्तिःतिलानामशक्तिरिति तयोः भेदसिद्धिरितं वाच्यमित्याह--तस्मादिति ; यस्मात्पूवोंका व्यवस्था दुबैठा, तस्मादियं बाच्येत्यर्थः । सिद्धान्ती त्वाह--स चेति । अयं च हेतु रनन्तरमेव ‘अतो नैकस्य मावाभावविरोधःइत्यत्रास्माभिर्भिरस्तः । अतो नेदमपि व्यवस्थालक्षणमिति भावः । पूर्वोकमेव भावाभावयोरेकत्राविरोधं दृष्टान्तेन द्रढयति--यथेति । यथा दीर्घकाला देवदत्तादधः परिमितकालै बाल्ययौवनादिभिः संबध्यमानास्तत्काले तद्धर्माणः पश्चादर्द्धर्माणो भवन्ति न विरोधस्थानत्वं भजन्ते, तथा परिमितदेकैः रथतत्संयोगादिभिरिव विपुल दंशाः पव्यादयः अनन्ताआत्मादयोऽनित्यत्वादिभिः सेवध्यमाना न विरोधपदभाज इत्यर्थः । अत्रशङ्कवति--कथमिति । धर्मस्य धर्मिणोऽ व्यतिरेकात्तस्याप्यनन्तत्वमुचितमिति भावः । अत एवाव्यतिरेकपक्षानभ्युपः गणेन तावदुतरमाह-व्यतिरेक ईति । यवनन्तादव्यतिरिक्तो धर्मः स्यात्, सोऽपि तद्वदेवानन्तः स्यात् । व्यतिरेकें तु तस्य मिथ्यात्वे वा अनन्त स्याप्यन्तपद्मसंभावना नास्तीत्यर्थः। अव्यतिरेकपक्षेऽपि सा नास्तीत्याह-
पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/४८५
दिखावट