मध्यमाधिकारः ३१ वैधगालीयस्पष्टग्रहाद् भूगर्भगोलीयस्पष्टग्रहज्ञानं कथं भवेदिति यथास्थानं प्रदर्शितं तत्ततौ द्रष्टव्यम् ) काय, वेधेनान्त्यफलज्याज्ञानविधिना तयोः शीघ्रान्त्य - फलज्याज्ञानं कृत्वा ग्रहगोलीयशरबिम्बीयकर्णवशेन तयोः स्पष्टकेन्द्रप्रमाणे विदिते भवतस्ततः स्वस्वस्पष्टकेन्द्राभ्यां संस्कृतौ बुधशुक्रौ तयोः शीघ्रोच्चे भवतः, एवं द्वितीय- पर्ययेऽपि तयोः शीघ्रोच्चे ज्ञातव्ये । बुधशीघ्रोच्चयोरन्तरवशात्तदन्तर दिनैश्चै क दिनजां गतिमानीयाऽनुपातेन कल्पे तद् भगणाः जायन्ते । एवमेव शुक्रशीघ्रो ञ्चयोरन्तरवशात्तदन्तरदिनैश्च कल्पे तच्छीघ्रोच्चभगणा विदिता भवन्तीति ।। अथ मङ्गलगुरुशनीनां शीघ्रोच्चोपपत्तिः प्रथममेतेषां वेधेन बिम्बीयकर्णज्ञानं कार्यं, तथाशीघ्राऽन्यफलज्याज्ञानञ्च कार्यं, तदा भूकेन्द्राबिम्बगता रेखा बिम्बीयकण एको भुजः । ग्रहगोलकेन्द्राविम्ब केन्द्रगता त्रिज्या रेखां द्वितीयो भुजः । भूकेन्द्रग्रहगोलकेन्द्रयो रन्तरं शीघ्रान्त्य फलज्या तृतीयो भुज इति भुजत्रयैरुत्पन्नत्रिभुजं भुजत्रयज्ञानात्तत्कोणत्रयमपि विदितं भवेत् । वेधद्वारा विदितग्रहगोलीयशरात्स्थानीयकर्णस्य (भूकेन्द्राद् ग्रहस्थानगतरेखायाः ) ज्ञानं सुलभं भवेत् । प्रत्यहं स्थानीयकर्णज्ञानमनयैव रीत्या कार्यं, यस्मिन् दिने तत्कर्णस्य परमत्वं भवेत्तद्दिने शीघ्रोच्चस्थाने एव ग्रहो भवेद्यत उच्चस्थाने ग्रहे तत्कर्णस्य परमत्वं भवति, तत्र यावान् स्फुटग्रहः स च पूर्ववेध- विधिना विदितोऽस्ति, तेन तत्सममेव तदा शीघ्रोच्चं भवेत् । एवं द्वितीयपर्ययेऽपि शीघ्रोच्चज्ञानं कार्यं द्वयोविदितशीघ्रोच्चयोरन्तरं तद्दिनज-(प्रथमविदितशीघ्रोच्च दिनाद् द्वितीयशीघ्रोच्चज्ञानं यावद्भिदिनैर्जातं) शीघ्रोच्चगतिस्ततोऽनुपातो यद्येताव द्वितोयशीघ्रोच्चज्ञानं शीघ्रोच्चगतिस्तदैकेन दिनेन किमित्यनुपातेनैकदिनजा शोघ्रोच्चगतिः, ततः पुनरप्यनुपातो यथैकेन दिनेनेयं शीघ्रोच्चगतिस्तदा कल्पकुदिनैः किमित्यनुपातेन कल्पे शघ्रोच्चभगणा जायन्ते । मङ्गलगुरुशनीनां शीघ्रोच्चोप पत्तिरनयैव रीत्या विधेयेति । अत्रोपपत्तौ ग्रहबिम्बीयकर्णज्ञानस्यातीवाऽवश्यकतास्ति तज्ज्ञानमन्तरेयमुपपत्तिनिरर्थका भवेदतो वेघेन ग्रहबिम्बीय-कर्णनं क्रियते । वि=ग्रहबिम्बकेन्द्रम् । भू= भूकेन्द्रम् । पृ = , भूपृष्ठस्थानम् । च=दृष्टिस्थानम्। पृच= -- दृष्ट्युच्छूायः । पृविं=पृष्ठकर्णः । भूविं=ग्रह- बिम्बीयकर्णः । चविं= दृष्टिकर्णः । भूपृ=भूव्यासार्धम्। विपृच, विचंपृकोणौ तुरीययन्त्रद्वारा मापनेन विदतौ भवतः। तदा विपृचत्रिभुजे १८०-(<fवपृच+<वंचयू) =<पृविंच पृच=दृष्ट्युच्छूायो विदित एवास्ति तदोक्तत्रिभुजेऽनुपातः ।
पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/४८
दिखावट