पृष्ठम्:नवरात्रप्रदीपः.djvu/४३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३७
उपसंहारः

ग्रन्थारम्भे निवेशिताSस्ति । ग्रन्थोल्लिखितपारिभाषिकशब्दज्ञानाय तत्सूच्यपि निर्दिष्टोऽत्र वर्तते । एवं यथाशक्ति ग्रन्थमिमं परिष्कृत्य संशोध्य सम्मुद्र्य सरस्वतीभवनग्रन्थमालायां प्रकाशितं नीरक्षीरन्यायेनाऽवलोक्य सुधीवराः सफलयिष्यन्ति मत्परिश्रममिति बाढं समाशासे |

 अन्ते च-येषां कृपया ग्रन्थोऽयं प्रकाशितस्तान् मत्समुन्नतिहेतुभूतान् माननीय पं० गोपीनाथकविराज एम्.ए. ( प्रिन्सिपल् गवर्नमेन्टसंस्कृतकालेज बनारस ) महोदयान् सप्रश्रयमभिनन्द्य मदीयनिरुपधिहितैषिणः साहित्याचार्य पं०नारायणशास्त्रीखिस्ते (सरस्वतीभवनपुस्तकालयाध्यक्षः) महोदयांश्च सादरमभिनन्द्य साञ्जलिबन्धं परमेशं श्रीकाशीविश्वनाथमभिवन्द्य समापयाम्यमुं लेखमिति शम् ।


सरस्वतीभवनम् , काशी ।

स० १९८४


वरकलोपख्यः

वैद्यनाथशास्त्री ।