पृष्ठम्:नवरात्रप्रदीपः.djvu/४२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३६
नवरात्रप्रदीपभूमिकायाम्-

उपसंहारः-

 अथैतद्ग्रन्थप्रकाशनसाधनभूतं पुस्तकद्वयम् । तत्रैकं प्रकृतग्रन्थकृन्नन्दपण्डिताऽपराभिधानविनायकपण्डितैकादशपुरुषाणामस्मत्सुहृद्वराणां धर्माधिकारि-पं० लक्ष्मीधरपन्तानां परम्परासंरक्षितमशुद्धिबहुलं च । अत्रान्ते संवत् १८१३ इति लेखकालो दृश्यते । प्रथमपत्रप्रथमपृष्ठे 'हरीपण्डितस्येदं पुस्तकं’ इति लेखो वर्तते । पुस्तकेऽत्र ३९ पत्राणि प्रतिपत्रमेकादशपङ्क्तयः प्रतिपङ्क्ति पञ्चत्रिंशदक्षराणि । द्वितीयं च पुस्तकं ग्रन्थकृदग्रजमहामहिमशालि “श्राद्धदीपिका"ज्योतिषरत्नसङ्ग्रहा"दिनिबन्धनिर्मातृगोविन्दपण्डितवंश्यानामिदानीं प्रयागे निवसतामस्मन्मित्रधर्माधिकारेि-प० जयकृष्णपन्तानां वंशपरम्परासंरक्षितं प्रायः शुद्धमन्तिमपत्ररहितं लेखकालरहितं प्राचीनं च । अत्र पत्राणि ३४ प्रतिपत्रं पङ्क्तयः १३ प्रतिपङ्क्त्यक्षराणि ३७ । एतत्पुस्तकद्वयाधारेण सुसम्पन्नमस्य ग्रन्थस्य मुद्रणकार्यम् । अत्र च याभ्यां निजपुस्तकप्रदानेन मदुत्साहवर्धनेन च ग्रन्थप्रकाशने साहाय्यमाचरितं तौ सुहृद्वर-धर्माधिकारि-पं०लक्ष्मीधरपन्त पं० जयकृष्णपन्तौ हृदयेनाऽभिनन्दामि । अथवा कृतमभिनन्दनेन कर्तव्यमेवैतदनयोः, यन्निजपूर्वजनिर्मितनिबन्धनानां प्रकाशनम् । कृतकर्तव्यकर्मविषयेऽनुचितमपि सौहृदवशेन मया समाचरितमभिनन्दनं तौ स्वीकरिष्यत इति सुदृढो मे प्रत्ययः । अत्र प्रमाणत्वेन समुत्पात्तानां ग्रन्थादिनाम्नामकारादिक्रमेण सूचीपत्रं निर्मायाऽन्ते निवेशितम् । प्रतिपादितविषयज्ञानाय विषयसूची-