पृष्ठम्:नवरात्रप्रदीपः.djvu/२८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२२
नवरात्रप्रदीपभूमिकायाम्-

नीयः । अत्राऽपि मतभेदः । तत्र 'दशम्यां पारणं कार्यं देवीनवरात्रे’ इति भट्टप्रभृतीनां मतम् । 'नवम्यां पारणं कार्यं देवीनवरात्रे’ इति धर्माधिकारिप्रभृतीनां मतम् । तत्र पूर्वं भट्टमतं सङ्क्षेपेण प्रदर्श्यते--

 “पारणं दशम्यामेव कार्यम् । नवरात्रे उपवासनवकविधानात् । तथा हि वचनम्-

आश्विने प्रतिपन्मुख्याः पुण्यास्तु तिथयो नव ।
देविकापूजने प्रोक्ताः सर्वकामफलप्रदाः ॥ इति ।

 अत्र तिथिनवकविधानात्पूजायां तावत्सङ्ख्यापूरकनवमीविधिः सिद्धः । ततश्च फलिसंस्कारकतया तदङ्गभूतेषूपवासादिषु नक्तादिवैकल्पिकतया तत्स्थानापन्नेष्वनुक्ताऽपि तावन्नवसङ्ख्या व्रीहिधर्म इव यवेषु प्राप्नोति किमुतोक्तेति ।

तथा-

एवं च विन्ध्यवासिन्या नवरात्रोपवासितः ।

 इत्यनेनाऽपि नवम्यामुपवासः सिद्धयति । किं च “यावद्धि नवमी भवेत्" इत्यत्र यावच्छब्दस्याऽभिव्याप्त्यर्थत्वात्, यच्च रुद्रयामलेऽष्टमेऽध्यायेऽधिकोपवासनिषेधः स न नवम्युपवासनिषेधः । यतः न हि 'नवम्यां नोपवासः' 'नवमोपवासो वा न कार्यः' इति श्रूयते । किं तु सामान्यत उपवासवृद्धिर्निषिद्धातिविह्रासश्च विहितः वृद्धिह्रासौ च किञ्चिदपेक्ष्य भवत इति नवमोपवासापेक्षयाऽप्याधिक्यनिषेध इति सम्भवान्नवम्यांश्चोपोष्वत्वसत्त्वे प्रमाणसत्त्वे सुतरां तदपेक्षयैव वृद्धिह्रासनिषेधप्रवृ-